प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.1.11.2 TS 3.1.11.2
क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥शि॒वस्त्व॑ष्टरि॒हाऽऽ* ग॑हि वि॒भुः पोष॑ उ॒तत्मना᳚ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥ पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ प्रणो॑दे॒व्या, नो॑ दि॒वः ॥ पी॒पि॒वाꣳ सꣳ॒॒ सर॑स्वतः॒ स्तनं॒ ॅयो वि॒श्वद॑र्.शतः । धुक्षी॒महि॑ प्र॒जामिषं᳚ ॥
पदपाठः (Word-by-word)
क॒र्म॒ण्यः॑ । सु॒दक्ष॒ इति॑ सु - दक्षः॑ । यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ । जाय॑ते । दे॒वका॑म॒ इति॑ दे॒व - का॒मः॒ ॥ शि॒वः । त्व॒ष्टः॒ । इ॒ह । एति॑ । ग॒हि॒ । वि॒भुरिति॑ वि - भुः । पोषे᳚ । उ॒त । त्मना᳚ ॥ य॒ज्ञे य॑ज्ञ्॒ इति॑ य॒ज्ञे - य॒ज्ञे॒ । नः॒ । उदिति॑ । अ॒व॒ ॥ पि॒शङ्ग॑रूप॒ इति॑ पि॒शङ्ग॑-रू॒पः॒ । सु॒भर॒ इति॑ सु - भरः॑ । व॒यो॒धा इति॑ वयः - धाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वका॑म॒ इति॑ दे॒व - का॒मः॒ ॥ प्र॒जामिति॑ प्र - जाम् । त्वष्टा᳚ । वीति॑ । स्य॒तु॒ । नाभि᳚म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना᳚म् । अपीति॑ । ए॒तु॒ । पाथः॑ ॥ प्रेति॑ । नः॒ । दे॒वी । एति॑ । नः॒ । दि॒वः ॥ पी॒पि॒वाꣳस᳚म् । सर॑स्वतः । स्तन᳚म् । यः । वि॒श्वद॑र्.शत॒ इति॑ वि॒श्व - द॒र्॒.श॒तः॒ ॥ धु॒क्षी॒महि॑ । प्र॒जामिति॑ प्र - जाम् । इष᳚म् ॥
पदसंख्या: 50