प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.1.11.4 TS 3.1.11.4
माहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ इन्द्रं॑ ॅवो वि॒श्वत॒स्परीन्द्रं॒ नरः॑॥ असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत् प॑तन्ति ॥ त आऽव॑वृत्र॒न्थ् सद॑नानि कृ॒त्वाऽऽदित् पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ॥ हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ - [ ]
पदपाठः (Word-by-word)
आहु॑त॒मित्या - हु॒त॒म् । प्र॒जामिति॑ प्र-जाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥ या । सु॒पा॒णिरिति॑ सु - पा॒णिः । स्व॒ङ्गु॒रिरिति॑ सु - अ॒ङ्गु॒रिः । सु॒षूमेति॑ सु - सूमा᳚ । ब॒हु॒सूव॒रीति॑ बहु - सूव॑री ॥ तस्यै᳚ । वि॒श्पत्नि॑यै । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥ इन्द्र᳚म् । वः॒ । वि॒श्वतः॑ । परीति॑ । इन्द्र᳚म् । नरः॑ ॥ असि॑तवर्णा॒ इत्यसि॑त - व॒र्णाः॒ । हर॑यः । सु॒प॒र्णा इति॑ सु - प॒र्णाः । मिहः॑ । वसा॑नाः । दिव᳚म् । उदिति॑ । प॒त॒न्ति॒ ॥ ते । एति॑ । अ॒व॒वृ॒त्र॒न्न् । सद॑नानि । कृ॒त्वा । आत् । इत् । पृ॒थि॒वी । घृ॒तैः । वीति॑ । उ॒द्य॒ते॒ ॥ हिर॑ण्यकेश॒ इति॒ हिर॑ण्य - के॒शः॒ । रज॑सः । वि॒सा॒र इति॑ वि - सा॒रे । अहिः॑ । धुनिः॑ । वातः॑ । इ॒व॒ । ध्रजी॑मान् ॥ शुचि॑भ्राजा॒ इति॒ शुचि॑ - भ्रा॒जाः॒ । उ॒षसः॑ ।
पदसंख्या: 50