नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः᳚ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दं । शि॒वाभि॒र्न स्मय॑मानाभि॒राऽगा॒त् पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥ वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न मा॒ता सि॑षक्ति । यदे॑षां ॅवृ॒ष्टिरस॑र्जि ॥ पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒थ् सानु॑ रेजत स्व॒ने वः॑ । यत् क्रीड॑थ मरुत - [ ]
पदपाठः (Word-by-word)
नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥ एति॑ । ते॒ । सु॒प॒र्णा इति॑ सु - प॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः᳚ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् ॥ शि॒वाभिः॑ । न । स्मय॑मानाभिः । एति॑ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥ वा॒श्रा । इ॒व॒ । वि॒द्युदिति॑ वि-द्युत् । मि॒मा॒ति॒ । व॒थ्सम् । न । मा॒ता । सि॒ष॒क्ति॒ ॥ यत् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि ॥ पर्व॑तः । चि॒त् । महि॑ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु॑ । रे॒ज॒त॒ । स्व॒ने । वः॒ ॥ यत् । क्रीड॑थ । म॒रु॒तः॒ ।