ऋष्टि॒मन्त॒ आप॑ इव स॒द्ध्रिय॑ञ्चो धवद्ध्वे ॥अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिꣳ॒॒ सु क॑र्.ष॒ विषि॑तं॒ न्य॑ञ्चꣳ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥त्वं त्या चि॒दच्यु॒ताऽग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत् ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ - [ ]
पदपाठः (Word-by-word)
ऋ॒ष्टि॒मन्त॒ इत्यृ॑ष्टि-मन्तः॑ । आपः॑ । इ॒व॒ । स॒द्ध्रिय॑ञ्चः । ध॒व॒द्ध्वे॒ ॥ अ॒भीति॑ । क्र॒न्द॒ । स्त॒नय॑ । गर्भ᳚म् । एति॑ । धाः॒ । उ॒द॒न्वतेत्यु॑दन्न् - वता᳚ । परीति॑ । दी॒य॒ । रथे॑न ॥ दृति᳚म् । स्विति॑ । क॒र्.॒ष॒ । विषि॑त॒मिति॒ वि - सि॒त॒म् । न्य॑ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒द्वतेत्य॑त् - वता᳚ । नि॒पा॒दा इति॑ नि - पा॒दाः ॥ त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने᳚ । प॒शुः । न । यव॑से ॥ धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना᳚ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥ अग्ने᳚ । भूरी॑णि । तव॑ । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । देव॑ । स्व॒धा॒व॒ इति॑ स्वधा - वः॒ । अ॒मृत॑स्य । धाम॑ ॥ याः । च॒ ।