मा॒या मा॒यिनां᳚ ॅविश्वमिन्व॒ त्वे पू॒र्वीः स॑न्द॒धुः पृ॑ष्टबन्धो ॥ दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीद्ध्वं॒ प्रपि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥ पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे᳚ष्वा॒ भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तं ॥ उ॒द॒प्रुतो॑ मरुत॒स्ताꣳ इ॑यर्त॒ वृष्टिं॒ - [ ]
पदपाठः (Word-by-word)
मा॒याः । मा॒यिना᳚म् । वि॒श्व॒मि॒न्वेति॑ विश्वम्-इ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒न्द॒धुरिति॑ सं - द॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्ट - ब॒न्धो॒ ॥ दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒द्ध्व॒म् । प्रेति॑ । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः᳚ ॥ अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना᳚ । एति॑ । इ॒हि॒ । अ॒पः । नि॒षि॒ञ्चन्निति॑ नि -सि॒ञ्चन्न् । असु॑रः । पि॒ता । नः॒ ॥ पिन्व॑न्ति । अ॒पः । म॒रुतः॑ । सु॒दान॑व॒ इति॑ सु - दान॑वः । पयः॑ । घृ॒तव॒दिति॑ घृ॒त - व॒त् । वि॒दथे॑षु । आ॒भुव॒ इत्या᳚ - भुवः॑ ॥ अत्य᳚म् । न । मि॒हे । वीति॑ । न॒य॒न्ति॒ । वा॒जिन᳚म् । उथ्स᳚म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् ॥ उ॒द॒प्रुत॒ इत्यु॑द - प्रुतः॑ । म॒रु॒तः॒ । तान् । इ॒य॒र्त॒ । वृष्टि᳚म् ।