ॅये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृण॒ताऽऽ*प॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥ उदु॒त्यं चि॒त्रं ॥ औ॒र्व॒-भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससं ॥ आ स॒वꣳ स॑वि॒तुर्य॑था॒ भग॑स्ये ( ) व भु॒जिꣳ हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससं ॥ हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यꣳ॒॒ सहः॑ । अ॒ग्निꣳ स॑मु॒द्रवा॑ससं ॥
पदपाठः (Word-by-word)
ये । विश्वे᳚ । म॒रुतः॑ । जु॒नन्ति॑ ॥ क्रोशा॑ति । गर्दा᳚ । क॒न्या᳚ । इ॒व॒ । तु॒न्ना । पेरु᳚म् । तु॒ञ्जा॒ना । पत्या᳚ । इ॒व॒ । जा॒या ॥ घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । मधु॑ना । समिति॑ । उ॒क्ष॒त॒ । पय॑स्वतीः । कृ॒णु॒त॒ । आपः॑ । ओष॑धीः ॥ ऊर्ज᳚म् । च॒ । तत्र॑ । सु॒म॒तिमिति॑ सु - म॒तिम् । च॒ । पि॒न्व॒थ॒ । यत्र॑ । न॒रः॒ । म॒रु॒तः॒ । सि॒ञ्चथ॑ । मधु॑ ॥ उदिति॑ । उ॒ । त्यम् । चि॒त्रम् ॥ औ॒र्व॒भृ॒गु॒वदित्यौ᳚वभृगु - वत् । शुचि᳚म् । अ॒प्न॒वा॒न॒वदित्य॑प्नवान - वत् । एति॑ । हु॒वे॒ ॥ अ॒ग्निम् । स॒मु॒द्रवा॑सस॒मिति॑ समु॒द्र - वा॒स॒स॒म् ॥ एति॑ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्य ( ) । इ॒व॒ । भु॒जिम् । हु॒वे॒ ॥ अ॒ग्निम् । स॒मु॒द्रवा॑सस॒मिति॑ समु॒द्र - वा॒स॒स॒म् ॥ हु॒वे । वात॑स्वन॒मिति॒ वात॑ - स्व॒न॒म् । क॒विम् । प॒र्जन्य॑क्रन्द्य॒मिति॑ प॒र्जन्य॑ - क्र॒न्द्य॒म् । सहः॑ ॥ अ॒ग्निम् । स॒मु॒द्रवा॑सस॒मिति॑ समु॒द्र - वा॒स॒स॒म् ॥