व्याय॑च्छन्ते॒ येषाꣳ॒॒ सोमः॑ समृ॒च्छते॑ संॅवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दाꣳ॑सि॒ वै सं॑ॅवे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दाꣳ॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरे᳚त्य॒द्य वाव र॑थन्त॒रꣳ श्वो बृ॒हद॑द्या॒श्वा दे॒वैन॑म॒न्तरे॑ति भू॒तं - [ ]
पदपाठः (Word-by-word)
व्याय॑च्छन्त॒ इति॑ वि - आय॑च्छन्ते । येषा᳚म् । सोमः॑ । स॒मृ॒च्छत॒ इति॑ सं - ऋ॒च्छते᳚ । सं॒ॅवे॒शायेति॑ सं - वे॒शाय॑ । त्वा॒ । उ॒प॒वे॒शायेत्यु॑प - वे॒शाय॑ । त्वा॒ । इति॑ । आ॒ह॒ । छन्दाꣳ॑सि । वै । सं॒ॅवे॒श इति॑ सं - वे॒शः । उ॒प॒वे॒श इत्यु॑प - वे॒शः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । अ॒स्य॒ । छन्दाꣳ॑सि । वृ॒ङ्क्ते॒ । प्रेति॑व॒न्तीति॒ प्रेति॑ - व॒न्ति॒ । आज्या॑नि । भ॒व॒न्ति॒ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । म॒रुत्व॑तीः । प्र॒ति॒पद॒ इति॑ प्रति - पदः॑ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । उ॒भे इति॑ । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । भ॒व॒तः॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथम्-त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । ए॒न॒म् । अ॒न्तः । ए॒ति॒ । अ॒द्य । वाव । र॒थ॒न्त॒रमिति॑ रथम् - त॒रम् । श्वः । बृ॒हत् । अ॒द्या॒श्वादित्य॑द्य - श्वात् । ए॒व । ए॒न॒म् । अ॒न्तः । ए॒ति॒ । भू॒तम् ।