प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.1.7.3 TS 3.1.7.3
ॅवाव र॑थन्त॒रं भ॑वि॒ष्यद्-बृ॒॒हद् भू॒ताच्चै॒वैनं॑ भविष्य॒तश्चा॒न्तरे॑ति॒, परि॑मितं॒ ॅवाव र॑थन्त॒रमप॑रिमितं बृ॒हत् परि॑मिताच्चै॒वैन॒-मप॑रिमिताच्चा॒ऽन्तरे॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्द्धेताꣳ॒॒स ए॒तज्ज॒मद॑ग्नि र्विह॒व्य॑म पश्य॒त् तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं ॅवी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्यꣳ॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ ॅयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ( ) यस्य॒ भूयाꣳ॑सो यज्ञ्क्र॒तव॒ इत्या॑हुः॒ स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ् स्या-दु॒क्थ्यं॑ कुर्वीत॒ यद्यु॒क्थ्यः॑ स्याद॑तिरा॒त्रं कु॑र्वीत यज्ञ्क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान् भवति ॥
पदपाठः (Word-by-word)
वाव । र॒थ॒न्त॒रमिति॑ रथम् - त॒रम् । भ॒वि॒ष्यत् । बृ॒हत् । भू॒तात् । च॒ । ए॒व । ए॒न॒म् । भ॒वि॒ष्य॒तः । च॒ । अ॒न्तः । ए॒ति॒ । परि॑मित॒मिति॒ परि॑ - मि॒त॒म् । वाव । र॒थ॒न्त॒रमिति॑ रथम् - त॒रम् । अप॑रिमित॒मित्यप॑रि - मि॒त॒म् । बृ॒हत् । परि॑मिता॒दिति॒ परि॑ - मि॒ता॒त् । च॒ । ए॒व । ए॒न॒म् । अप॑रिमिता॒दित्यप॑रि - मि॒ता॒त् । च॒ । अ॒न्तः । ए॒ति॒ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी इति॑ विश्वामित्र - ज॒म॒द॒ग्नी । वसि॑ष्ठेन । अ॒स्प॒द्‌र्धे॒ता॒म् । सः । ए॒तत् । ज॒मद॑ग्निः । वि॒ह॒व्य॑मिति॑ वि - ह॒व्य᳚म् । अ॒प॒श्य॒त् । तेन॑ । वै । सः । वसि॑ष्ठस्य । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अ॒वृ॒ङ्क्त॒ । यत् । वि॒ह॒व्य॑मिति॑ वि - ह॒व्य᳚म् । श॒स्यते᳚ । इ॒न्द्रि॒यम् । ए॒व । तत् । वी॒र्य᳚म् । यज॑मानः । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ ( ) । यस्य॑ । भूयाꣳ॑सः । य॒ज्ञ्॒क्र॒तव॒ इति॑ यज्ञ् - क्र॒तवः॑ । इति॑ । आ॒हुः॒ । सः । दे॒वताः᳚ । वृ॒ङ्क्ते॒ । इति॑ । यदि॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । सोमः॑ । प॒रस्ता᳚त् । स्यात् । उ॒क्थ्य᳚म् । कु॒र्वी॒त॒ । यदि॑ । उ॒क्थ्यः॑ । स्यात् । अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । कु॒र्वी॒त॒ । य॒ज्ञ्॒क्र॒तुभि॒रिति॑ यज्ञ्क्र॒तु - भिः॒ । ए॒व । अ॒स्य॒ । दे॒वताः᳚ । वृ॒ङ्क्ते॒ । वसी॑यान् । भ॒व॒ति॒ ॥
पदसंख्या: 78