प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.1.8.1 TS 3.1.8.1
नि॒ग्रा॒भ्याः᳚ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णं मे॑ तर्पयतापा॒नं मे॑ तर्पयत व्या॒नं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत॒ मनो॑मे तर्पयत॒ वाचं॑ मे तर्पयता॒ऽऽ*त्मानं॑ मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत गृ॒हान् मे॑ तर्पयत ग॒णान् मे॑ तर्पयत स॒र्वग॑णं मा तर्पयत त॒र्पय॑त मा - [ ]
पदपाठः (Word-by-word)
नि॒ग्रा॒भ्या॑ इति॑ नि - ग्रा॒भ्याः᳚ । स्थ॒ । दे॒व॒श्रुत॒ इति॑ देव - श्रुतः॑ । आयुः॑ । मे॒ । त॒र्प॒य॒त॒ । प्रा॒णमिति॑ प्र- अ॒नम् । म॒ । त॒र्प॒य॒त॒ । अ॒पा॒नमित्य॑प - अ॒नम् । मे॒ । त॒र्प॒य॒त॒ । व्या॒नमिति॑ वि - अ॒नम् । मे॒ । त॒र्प॒य॒त॒ । चक्षुः॑ । मे॒ । त॒र्प॒य॒त॒ । श्रोत्र᳚म् । मे॒ । त॒र्प॒य॒त॒ । मनः॑ । मे॒ । त॒र्प॒य॒त॒। वाच᳚म् । मे॒ । त॒र्प॒य॒त॒ । आ॒त्मान᳚म् । मे॒ । त॒र्प॒य॒त॒ । अङ्गा॑नि । म॒ । त॒र्प॒य॒त॒ । प्र॒जामिति॑ प्र - जाम् । मे॒ । त॒र्प॒य॒त॒ । प॒शून् । मे॒ । त॒र्प॒य॒त॒ । गृ॒हान् । मे॒ । त॒र्प॒य॒त॒ । ग॒णान् । मे॒ । त॒र्प॒य॒त॒ । स॒र्वग॑ण॒मिति॑ स॒र्व - ग॒ण॒म् । मा॒ । त॒र्प॒य॒त॒ । त॒र्पय॑त । मा॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः।)

विशेषविधयः प्रोक्ताः स्पर्धायुक्तस्य सप्तमे।

अथाष्टमेऽनुवाक उपांशुग्रहार्थस्याभिषवस्यापेक्षिता मन्त्रा उच्यन्ते।

कल्पः- 'उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरमिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्याः स्थ देवश्रुतः' इति। दक्षिणस्य हविर्धानस्योत्तरस्मिन्रथचक्रमार्गे वसतीवरीशब्दाभिधेयाभिरद्भिरभिपूर्यते होतृचमसस्तत्राभिपूरणाय निग्राभ्याभिधा-स्वप्स्वानीयमानासु मन्त्रं वाचयेत्। तत्पाठस्तु-

निग्राभ्याः स्थेति। हविष्मतीरिमा आप इति मन्त्रेण कुम्भे नितरां ग्रहीतव्या आपो निग्राभ्याः। देवः श्रूयन्त इति देवश्रुतः। हे आपो यूयं तादृश्यः स्थ। ता यूयं मदीयमायुस्तर्पयत। एवं प्राणादिषु योज्यम्। आत्मानं जीवम्। अङ्गानि हस्तपादाद्यवय-वान्। गणान्भृत्यसमूहान्। सर्वगणं सर्वे पुत्रभृत्यादिसमूहा यस्य मम तादृशं माम्। किंबहुना तर्पयत मेत्युपसंहारः। त्वदीयेन तर्पणेन मदीया गणास्तृषादिरहिता भवन्तु। पूर्वानूवाकोक्ता आसन्यादित्यादिका मन्त्रा हृदे त्वेत्यनुवाकात्पूर्वं द्रष्टव्याः। अयं तु निग्राभ्याः स्थेति मन्त्रस्तस्मादूर्ध्वं द्रष्टव्यः।

यदुक्तं सूत्रकारेण- 'धिषणे वीडु इत्यधिषवणफलके, अवीवृधं वो मनसा सुजाता इति राजानमेवाभिमन्त्र्य' इति, तमिमं मन्त्रर्ववतार्थ व्याचष्टे-

ओषधय इति। यः सोमो राजा तस्यौषधय एव विशः प्रजारथानीयाः। अत एव ता ओषधिरूपा विशो राज्ञः प्रदातोरीश्वराः सोमं राजानमीश्वरमस्मभ्यं दातुं समर्थाः। सोमश्चेन्द्रदेवत्यः। तस्मादोषधीन्द्रविषयेणावीवृधमित्यादिमन्त्रेण सोमाभिमन्त्रणं युक्तम्। तस्य च मन्त्रस्यायमर्थः- हे सुजाताः सर्वजनोपकारित्वेन शोभनजन्मानो विशेषतश्च ऋतप्रजाता यज्ञार्थं प्रकर्षेणोत्पन्नास्तादृश्यो हे ओषधयो वो युष्मान्मनसाऽवीवृधं वर्धयामः। वो युष्माकं भग इद्भजन एव वयं स्याम सर्वदा युष्मद्भजनरूपे कर्मणि तिष्ठामेत्यर्थः। देवीर्वीरुधः सोमवल्लीरूपा देव्य इन्द्रेण संविदाना ऐकमत्यं गताः सवनाय प्रातःसवनकर्मणे सोममनुमन्यन्तामिति। एतन्मन्त्रपाठेनौषधिरूपा सोमस्य या विट्स्वकीयप्रजा या चेन्द्ररूपा सोमस्य स्वकीयदेवता तस्या प्रजाया देवतायाश्च सकाशात्सोमं विशेषेण याचित्वाऽभिषुणोति।

गदुक्तं सूत्रकारेण – 'आ माऽस्कानिति प्रथमप्लुतमंशुमभिमन्त्रयते' इति।

तदिदं विधत्ते-

यो वै सोमस्येति। अधिषवणफलकयोरवस्थाप्य ग्रावभिरभिषूयमाणस्य सोमस्य यः प्रथमोंऽशुर्लेशो भुमौ पतति स लेशो यजमानस्येन्द्रियादीन्निःशेषेण विनाशयितुं समर्थः। तस्मात्तत्परिहारार्थमा माऽस्कानित्यादिमन्त्रेण तमंशुमभिमन्त्रयेत। तस्य च मन्त्रस्यायमर्थः – हे भूमौ पतितांशो त्वं प्रजया धनसमृद्धया च सह मां प्रत्यास्कान्पुनरागतोऽसि। तस्मान्मदीयमिन्द्रियं वीर्यं च मा निर्वधीमां विनाशयेति अनेनाभिमन्त्रणेन प्रजादीनामविनाशायाऽऽशिवमेवाऽऽशास्ते।

यदुक्तं सूत्रकारेण- 'द्रप्सश्चस्कन्देति विप्रुषः' इति। अभिमन्त्रयत इत्यनुवर्तते। तमिमं मन्त्रं पठति-

द्रप्सश्चस्कन्देति। द्रप्सः सोमरसबिन्दुः पृथिवीमनु चस्कन्द पृथिव्यां पतित इत्यर्थः। स च द्रप्सो हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽन्तरिक्षलोके भूलोके च। तदेतदभिप्रेत्य स्मर्यते स्म-

'अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते।

आदित्याज्यायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः'॥ इति।

योऽयमर्थो द्यामित्यादिनाऽभिधीयते द्यामिमं च योनिमनु अन्तरिक्षरूपमिदं स्थानमनुसंचरति। यश्च पूर्वो योनिः पृथिवीमनु चस्कन्देति पूर्वोक्तस्थानविशेषः, तमप्यनुसंचरति। तृतीयं योनिं द्युलोकरूपमादित्यस्थानमनुसंचरति, तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि। कुत्र होम इति तदुच्यते अनु सप्त होत्रा इति। यस्यां दिशि द्रप्सः पतितस्तद्व्यतिरिक्तहोगयोग्याः सप्त दिशो या- सन्ति तास्वनुक्रमेण जुहोमि। यथाऽपं द्रप्सो हुत आदित्यादि स्थानत्रयेषु संचरन्नुपकारोति तथा भावयामीत्यर्थः। त एते मन्त्रा वाचस्पतये पवस्वेत्यस्मादनुवाकात्पूर्वं द्रष्टव्याः। अत्र विनियोगसंग्रहः –

निग्राभ्यादितृषन्नन्तं निग्राभ्याग्रहणे सति।

स्वामिनं वाचयेत्सोमं मन्त्रयेत ह्यवीवृधम्॥

आमास्कारनभिमन्त्र्यांशुर्द्रैप्सो बिन्दुं तु मन्त्रयेत्।

चत्वार एते मन्त्राः स्युरष्टमे त्वनुवाकके॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 निग्राभ्यासु यजमानं वाचयति - निग्राभ्यास्स्थेति ॥ निगृह्यते नियमेन गृह्यते सोम आभिरिति निग्राह्याः । 'कृत्यल्युटो बहुलम्' इति करणे कृत्यः, 'हृग्रहोर्भः' इति भत्वम् । हे आपः निग्रग्भ्याः स्थ । देवश्रुतः देवैश्श्रूयते इति कर्मणि क्विप् । देवानामपि सदसि प्रख्याता इत्यर्थः । ता यूयं मे मम आयुस्तर्पयत वर्धयत । सर्वं निगदसिद्धम् । ण्यन्तात्पचाद्यच्, 'पुंसि संज्ञायाम्' इति वा घः । ते प्राणादयः । णेश्च लुक् । व्यानमिति । छान्दसं दीर्घत्वम् । आत्मानं शरीरम् । गणास्सम्बन्धिनो मित्रादयः । सर्वगणं सवैर्गणैस्संवृतम् । कि बहुना - मां सर्वदा तर्पयत । तिङः परत्वान्न निहन्यते । किं च - मे गणाः मा वितृषन् वितृष्णा मा भूवन् सस्नेहा एव नित्यं भूयासुः । पुषादित्वादङ् ॥
2 अभिप्रोष्यन् ओषधीभ्यो राजानं निर्याचते - अवीवृधं व इति त्रिष्टुभा । तस्येदं प्रथममेव ब्राह्मणम् - ओषधयो वा इत्यादि ॥ सोमस्य राज्ञः ओषधयो विशः प्रकृतयः । राज्ञश्च प्रदातोः राजानं प्रदातुं विशः खलु ईश्वरास्समर्थाः । तस्य तदधीनयोगक्षेमत्वात् । 'इर्श्वरे तोसुन्कसुनौ' इति तोसुन् । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । यथा - 'समुद्रस्य न पिबन्ति' इति । 'न लोकाव्यय' इति कर्मणि षष्ठ्या न प्रस्तीषेधः । 'तोसुन्कसुनोरप्रतिषेधः' इति वचनात् । किं च - सोमोयमैन्द्रः इन्द्रदेवत्यः । तस्मात् 'अवीवृधम्' इत्यादिकामृचं यदाह सोमं याचमानं तेनौषधीभ्य एनं निर्याच्य निष्कृष्य याचित्वा अभिषुणोति । कीदृशीभ्यः? स्वायै विशः आत्मीयाभ्यः प्रकृतिभ्यः । व्यत्ययेनैकवचनं चतुर्थी च । किं च - स्वायै देवतायै आत्मीयायाश्च देवतायाः इन्द्रात् एनं निर्याच्याभिषुणोतीति । मन्तार्थस्तु - अवीवृधं वर्धयामि वः युष्मान् मनसा हे ओषधयः । छान्दसो लुङ्, 'उर्ऋत्' इत्युपधाया ऋकारः । हे सुजाताः शोभनजन्मानः सर्वलोकहितार्थं जातत्वात् । हे ऋतप्रजाताः ऋतार्थं यज्ञार्थं प्रकृष्टं जन्म यासां तादृश्यः । आनुषङ्गिको हि लोकोपकारो भवतीनामिति भावः । पदादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वः युष्माकं भग इत् भजने एव सदा स्याम । यद्वा - युष्मत्सम्बन्धिनि यद्धने भगे कर्मणि फललक्षणे ऐश्वर्ये स्याम सर्वे वयमृत्विग्यजमानाः प्रवर्तेमहि । तदर्थं किं कुर्म इति चेत् उच्यते - देव्यः देवनवत्यो भगवत्यः । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । वीरुधः विविधं रोहन्त्यः । यद्वा - भगवत्यश्च वीरुधो लतादयश्च सर्वा इन्द्रेण संविदानाः प्रत्येकमिन्द्रेणैकमत्यं गताः । 'समो गमृच्छि' इत्यात्मनेपदम् । सवनाय यज्ञाय सोममनुमन्यन्तां यथा वयं भवतीभिः स्वयूध्याभिः इन्द्रेण च स्वामिना सहिताभिः अनुज्ञाताः कर्मणि स्याम तथाऽनुमन्यन्तां सोममिति ॥
3 यो वा इत्यादि ॥ अभिषूयमाणस्य अभिषवे क्रियमाणे सोमस्य यः प्रथमोंशुः स्कन्दति निपतति स यजमानस्य इन्द्रियं चक्षुरादिकं वीर्यं बलं प्रजां पुत्रादिकां पशूंश्च गवादींश्च निर्हन्तोः निष्कृष्य हन्तुमीश्वरस्समर्थस्स्यात् । पूर्ववत्तोसुन् । तस्मात्तत्परिहारार्थं तत्प्रथमं स्कन्नं अंशुमभिमन्त्रयते - आ माऽस्कानिति । मां अस्कान् आगतोसि सह प्रजया सह च रायो धनस्य पशुलक्षणस्य पोषेण पुष्ट्या । इत्थमभ्युदयायैव मदाभिमुख्येन अस्कान् हे अंशो । 'ऊडिदम्' इति रायष्षष्ठ्या उदात्तत्वं, 'षष्ठ्याः पतिपुत्र' इत्यादिना विसर्जनीयस्य सकारः । स त्वं मयीन्द्रियं वीर्यं च मा निर्वधीः । यद्वा - 'अस्कान्' इति लोडर्थे छान्दसो लुत् । सह प्रजया सह रायस्पोषेण मामास्कन्द आगच्छेति । 'वदव्रज' इति वृद्धिः, 'बहुलं छन्दसि' इतीडभावः संयागोन्तलोपः । अनेन मन्त्रेण, 'आ माऽस्कान्' 'मा निर्वधीः' इत्येतामाशिषमाशास्ते इन्द्रियादीनामनिर्घाताय तद्भवति ॥
4 द्रप्साननुमन्त्रयते - द्रप्सश्चस्कन्देति त्रिष्टुभा ॥ द्राणेन प्सानीयो भक्षणीयस्सर्वैरत्यल्पत्वाद्द्रप्सः । इदृशो रसः पृथिवीमनु चस्कन्द, द्यामन्तरिक्षं वाऽनु चस्कन्द स्कन्नः रसभावेन प्रविष्टः । अधुना तस्य स्कन्नस्य इत्थं परिणामं करोमीति दर्शयितुमाह - तद्द्रप्समिमं पृथिव्याख्ययोनिस्थानीयं अनु अनन्तरं यः पूर्वः पूर्वस्यामृच्यव्यवहितः द्यामिति च पुनरन्तरिक्षाख्या योनिः तं च तृतीयं चादित्यात्मकं योनिं एवं त्रीनपि लोकाननु सञ्चरन्तं अनुक्रमेणाहुतिभावेन सञ्चरन्तम् । 'अग्नै प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इति प्रथममादित्ये सञ्चरन्तं, 'आदित्याज्जायते वृष्टिः' इत्यनन्तरमन्तरिक्षे सञ्चरन्तं, 'वृष्टेरन्नम्' इति पृथिव्यां सञ्चरन्तं, 'ततः प्रजाः' इत्यनेन क्रमेण अनुसंचरन्तं द्रप्सं जुहोमि हुतमिव प्रतिष्ठापयामि नासौ विनष्ट इत्यग्नौ हुतमिवैतत्करोमीति । ननु पृथिव्यामन्तरिक्षे वा वृधा निपतितः इति मन्तव्य इति क्वावस्थाप्यते - सप्त होत्राः अनुवषट्कर्तारो होत्रादयस्सप्त होत्राः तासु स्थापयामि यथाहुत इवायमनष्टो भवति । यद्वा - सप्त होत्राः सप्तदिशः स्कन्नव्यतिरिक्ताः तासु सर्वास्विमं जुहोमि हुतमिव लोकानां स्थितये स्थापयामि । लक्षणेऽर्थे अनोः कर्मप्रवचनीयत्वम् ॥
इति तृतीये प्रथमे अष्टमोनुवाकः ॥