ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒ वै राज्ञ्ः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रः सोमोऽवी॑वृधं ॅवो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संॅविदा॒ना अनु॑ मन्यन्ताꣳ॒॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैनꣳ॒॒ स्वायै॑ वि॒शः स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य - [ ]
पदपाठः (Word-by-word)
ग॒णाः । मे॒ । मा । वीति॑ । तृ॒ष॒न्न् । ओष॑धयः । वै । सोम॑स्य । विशः॑ । विशः॑ । खलु॑ । वै । राज्ञ्ः॑ । प्रदा॑तो॒रिति॒ प्र - दा॒तोः॒ । ई॒श्व॒राः । ऐ॒न्द्रः । सोमः॑ । अवी॑वृधम् । वः॒ । मन॑सा । सु॒जा॒ता॒ इति॑ सु - जा॒ताः॒ । ऋत॑प्रजाता॒ इत्यृत॑ - प्र॒जा॒ताः॒ । भगे᳚ । इत् । वः॒ । स्या॒म॒ ॥ इन्द्रे॑ण । दे॒वीः । वी॒रुधः॑ । सं॒ॅवि॒दा॒ना इति॑ सं - वि॒दा॒नाः । अन्विति॑ । म॒न्य॒न्ता॒म् । सव॑नाय । सोम᳚म् । इति॑ । आ॒ह॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । ए॒व । ए॒न॒म् । स्वायै᳚ । वि॒शः । स्वायै᳚ । दे॒वता॑यै । नि॒र्याच्येति॑ निः - याच्य॑ । अ॒भीति॑ । सु॒नो॒ति॒ । यः । वै । सोम॑स्य । अ॒भि॒षू॒यमा॑ण॒स्येत्य॑भि - सू॒यमा॑णस्य ।