पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अभ्यातानाभिधा मन्त्राः पञ्चमे समुदीरिताः ।
देवा वै यदिति । अभ्यातानाख्यान्मन्त्रान्कर्मसमृद्धिहेतून्दृष्ट्वा तानाभिमुख्येऽऽनीय देवा अजुहवुस्तेन देवानां कर्म समृद्धमासीत् । तद्धोमाभावादसुराणां कर्म न समृद्धम् । अथ विधत्ते —
येन कर्मणेति । ईर्त्सेदृद्धिमिच्छेत् । ऋध्नोत्येव समृद्धिं प्राप्नोत्येव ।
यद्विश्वे देवा इति । यस्मात्सर्वेऽपि देवाः पूर्वोक्तप्रकारेणभ्यातानमन्त्रान्समभरन्संपादितवन्तस्तस्मादेते वैश्वदेवा इत्युच्यन्ते । यस्मात्प्रजापतिर्जयानिन्द्राय प्रायच्छत्तस्मात्ते प्राजापत्या इत्युच्यन्ते । यस्मादुपरितनानुवाकाम्नातै राष्ट्रभृत्संज्ञकैर्मन्त्रैरसुरसंबन्धि राष्ट्रं देवाः स्वीकृतवन्तस्तस्मात्ते राष्ट्रभृत उच्यन्ते । देवास्तु प्रथममभ्यातानैरसुरान्वशीकृत्य जयैर्विनष्टैश्वर्यान्कृत्वा राष्ट्रभृद्भिस्तदीयं निवासस्थानमपहृतवन्तः । अभ्यातन्वत एभिरित्यभ्यातानत्वम् । जयन्त्येभिरिति जयत्वम् । राष्ट्रं भ्रियते स्वीक्रियत एभिरिति राष्ट्रभृत्त्वम् । समुञ्चितैरेतैस्त्रिभिर्होमैर्देवा विजयिनोऽभवन् । असुरास्तु पराभूताः । अथ विधत्ते —
यो भ्रातृव्यवानिति । अभ्याततिर्वशीकारः । जयोऽन्यदीयैश्वर्यनाशनम् । राष्ट्रादानं तदीयभूमेरपहारः । तत्त्रिविधफलसिद्ध्यर्थं त्रिविधान्समुच्चित्य जुहुयात् ।
अत्र मीमांसा ।
तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् —
येनेर्त्सेत्कर्मणा तत्र जयहोमोऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः ॥
होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति ह्रि । तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः ॥
अनारभ्य श्रूयते – “येन कर्मणेर्त्सेत्तत्र जयाञ्जुहुयात्तद्वद्राष्ट्रभृतो जुहोत्यभ्यातानाञ्जुहोति” इति । ईर्त्सेदृद्धिमिच्छेत् । चित्तं च स्वाहेत्यादयो जयाः । ऋतापाडित्यादयो राष्ट्रभृतः । अग्निर्भूतानामित्यादयोऽभ्यातानाः । तत्र वैदिककर्मणीव लौकिककृष्यादिकर्मण्यप्यृद्धेरिष्यमाणत्वात्संकोचे कारणाभावाज्जयादिहोमः सर्वशेष इति चेन्मैवम् । यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीत इति वाक्येन होममुद्दिश्याऽऽहवनीयविधानात्कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥