प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.4.6.1 TS 3.4.6.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न्- तान॒भ्यात॑न्वत॒ यद्दे॒वानां॒ कर्माऽऽ*सी॒दार्द्ध्य॑त॒ तद्यदसु॑राणां॒ न तदा᳚र्द्ध्यत॒ येन॒ कर्म॒णेर्थ्से॒त् तत्र॑ होत॒व्या॑ ऋ॒द्ध्नोत्ये॒व तेन॒ कर्म॑णा॒ यद्विश्वे॑ दे॒वाः स॒मभ॑र॒न् तस्मा॑-दभ्याता॒ना वै᳚श्वदे॒वायत्-प्र॒जाप॑ति॒र्जया॒न् प्राय॑च्छ॒त् तस्मा॒ज्जयाः᳚ प्राजाप॒त्या - [ ]
पदपाठः (Word-by-word)
दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ । ते । दे॒वाः । ए॒तान् । अ॒भ्या॒ता॒नानित्य॑भि - आ॒ता॒नान् । अ॒प॒श्य॒न्न् । तान् । अ॒भ्यात॑न्व॒तेत्य॑भि - आत॑न्वत । यत् । दे॒वाना᳚म् । कर्म॑ । आसी᳚त् । आर्द्ध्य॑त । तत् । यत् । असु॑राणाम् । न । तत् । आ॒र्द्ध्य॒त॒ । येन॑ । कर्म॑णा । ईर्थ्से᳚त् । तत्र॑ । हो॒त॒व्याः᳚ । ऋ॒द्ध्नोति॑ । ए॒व । तेन॑ । कर्म॑णा । यत् । विश्वे᳚ । दे॒वाः । स॒मभ॑र॒न्निति॑ सं - अभ॑रन्न् । तस्मा᳚त् । अ॒भ्या॒ता॒ना इत्य॑भि - आ॒ता॒नाः । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । यत् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । जयान्॑ । प्रेति॑ । अय॑च्छत् । तस्मा᳚त् । जयाः᳚ । प्रा॒जा॒प॒त्या इति॑ प्राजा-प॒त्याः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अभ्यातानाभिधा मन्त्राः पञ्चमे समुदीरिताः ।

अथ षष्ठे तद्धोमविधिरभिधीयते । तत्र होमं विधातुं प्रस्तौति —

देवा वै यदिति । अभ्यातानाख्यान्मन्त्रान्कर्मसमृद्धिहेतून्दृष्ट्वा तानाभिमुख्येऽऽनीय देवा अजुहवुस्तेन देवानां कर्म समृद्धमासीत् । तद्धोमाभावादसुराणां कर्म न समृद्धम् । अथ विधत्ते —

येन कर्मणेति । ईर्त्सेदृद्धिमिच्छेत् । ऋध्नोत्येव समृद्धिं प्राप्नोत्येव ।

अथ भातृव्यवतः समुच्चितानामभ्यातानजयराष्ट्रभृतां होमं विधत्ते —

यद्विश्वे देवा इति । यस्मात्सर्वेऽपि देवाः पूर्वोक्तप्रकारेणभ्यातानमन्त्रान्समभरन्संपादितवन्तस्तस्मादेते वैश्वदेवा इत्युच्यन्ते । यस्मात्प्रजापतिर्जयानिन्द्राय प्रायच्छत्तस्मात्ते प्राजापत्या इत्युच्यन्ते । यस्मादुपरितनानुवाकाम्नातै राष्ट्रभृत्संज्ञकैर्मन्त्रैरसुरसंबन्धि राष्ट्रं देवाः स्वीकृतवन्तस्तस्मात्ते राष्ट्रभृत उच्यन्ते । देवास्तु प्रथममभ्यातानैरसुरान्वशीकृत्य जयैर्विनष्टैश्वर्यान्कृत्वा राष्ट्रभृद्भिस्तदीयं निवासस्थानमपहृतवन्तः । अभ्यातन्वत एभिरित्यभ्यातानत्वम् । जयन्त्येभिरिति जयत्वम् । राष्ट्रं भ्रियते स्वीक्रियत एभिरिति राष्ट्रभृत्त्वम् । समुञ्चितैरेतैस्त्रिभिर्होमैर्देवा विजयिनोऽभवन् । असुरास्तु पराभूताः । अथ विधत्ते —

यो भ्रातृव्यवानिति । अभ्याततिर्वशीकारः । जयोऽन्यदीयैश्वर्यनाशनम् । राष्ट्रादानं तदीयभूमेरपहारः । तत्त्रिविधफलसिद्ध्यर्थं त्रिविधान्समुच्चित्य जुहुयात् ।

अत्र मीमांसा ।

तृतीयाध्यायस्य चतुर्थपादे चिन्तितम् —

येनेर्त्सेत्कर्मणा तत्र जयहोमोऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः ॥

होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति ह्रि । तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः ॥

अनारभ्य श्रूयते – “येन कर्मणेर्त्सेत्तत्र जयाञ्जुहुयात्तद्वद्राष्ट्रभृतो जुहोत्यभ्यातानाञ्जुहोति” इति । ईर्त्सेदृद्धिमिच्छेत् । चित्तं च स्वाहेत्यादयो जयाः । ऋतापाडित्यादयो राष्ट्रभृतः । अग्निर्भूतानामित्यादयोऽभ्यातानाः । तत्र वैदिककर्मणीव लौकिककृष्यादिकर्मण्यप्यृद्धेरिष्यमाणत्वात्संकोचे कारणाभावाज्जयादिहोमः सर्वशेष इति चेन्मैवम् । यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीत इति वाक्येन होममुद्दिश्याऽऽहवनीयविधानात्कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ जयाभ्यातानानां राष्ट्रभृतां ब्राह्मणम् । तत्रादावनन्तराधिकृतानां विशिष्टफलहेतुत्वमाह - देवा वा इत्यादि ॥ अभ्यातन्यते आभिमुख्येनानीयते कर्मसमृद्धिरेभिरिति अभ्यातानाः, करणे घञ्, थाथादिनोत्तरपदान्तोदात्तत्वम् । तानभ्यातन्वत आभिमुख्येन शास्त्रमर्यादया चाकुर्वन् अजुहवुः ॥
2 यद्देवानामित्यादि ॥ अभ्यातानानां देवैरेव विहितत्वात् ॥
3 येनेत्यादि ॥ यत् कर्म येन कर्मणा ईर्त्सेत् इदं मे समृद्ध्येतेति तस्मिन्नभ्याताना होतव्याः न केवलं भ्रातृव्यवतैव । ऋधेस्सनि 'आप् ज्ञप्यृधमीत्' इतीत्वम्, अभ्यासलोपश्च । केचिदाहुः - येन कर्मणेर्त्सेत् तत्र होतव्याः सर्वेऽप्यभ्याताना जया राष्ट्रभृतश्चेति । तत्र होतव्या एव क्रमात् जया अभ्याताना राष्ट्रभृत इति ॥
4 अधुना अपकृतं भ्रातृव्यवन्तमेवाधिकृत्य क्रमविशेषं चाह - यद्विश्वे देवा इत्यादि ॥ भ्रातृव्यवतोऽयं क्रमः, अभ्याताना जया राष्ट्रभृत इति । ते देवा इत्यादि । असुरान् भ्रातृव्यानभ्यातन्वत विधेयानकुर्वत । ततश्च जयैरजयन् विनष्टैश्वर्यानकुर्वत । राष्ट्रभृद्भिः तेषां राष्ट्रम् अधिवासम् आददत आत्मसादकुर्वत । अभ्यातन्वते आभिमुख्येनानीयते भ्रातृव्य एभिरिति अभ्यातानाः । जयते भ्रातृव्य एभिरिति जयाः, करणे एरच्, 'जयः करणम्' इत्याद्युदात्तत्वम् । राष्ट्रं भ्रातृव्यस्य भ्रियते आत्मना धार्यते एभिरिति राष्ट्रभृतः । विभर्तेः करणे क्विप् । हरतेर्वा 'हृग्रहोर्भः' इति भत्वम् । भ्रातृव्यस्य राष्टं ह्रियते एभिरिति राष्ट्रभृतः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
5 ततो देवा इत्यादि ॥ ततस्तादृशात्प्रयोगात् देवा भूतिमन्तस्संपन्नाः, असुराश्च पराभूताः ॥
6 देवा वै यद्यज्ञे इत्युपक्रममुपसंहृतं [संहर्तुं] यो भ्रातृव्यवान् स्यात् इत्यादि ॥ गतम् । आत्मना प्रकृत्यादित्वात्तृतीया ॥
इति तृतीये चतुर्थे षष्ठोऽनुवाकः ॥