प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.4.6.2 TS 3.4.6.2
यद्-रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत॒ तद्-रा᳚ष्ट्र॒भृताꣳ॑ राष्ट्रभृ॒त्त्वं ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन्-राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑मभ्यातान॒त्वं ॅयज्जयै॒रज॑य॒न् तज्जया॑नां जय॒त्वं ॅयद्-रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत॒ तद्-रा᳚ष्ट्र॒भृताꣳ॑ राष्ट्रभृ॒त्त्वं ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स ( ) ए॒तान् जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै᳚र्जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति ॥
पदपाठः (Word-by-word)
यत् । रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । रा॒ष्ट्रम् । एति॑ । अद॑दत । तत् । रा॒ष्ट्र॒भृता॒मिति॑ राष्ट्र - भृता᳚म् । रा॒ष्ट्र॒भृ॒त्त्वमिति॑ राष्ट्रभृत् - त्वम् । ते । दे॒वाः । अ॒भ्या॒ता॒नैरित्य॑भि - आ॒ता॒नैः । असु॑रान् । अ॒भ्यात॑न्व॒तेत्य॑भि - आत॑न्वत । जयैः᳚ । अ॒ज॒य॒न् । रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । रा॒ष्ट्रम् । एति॑ । अ॒द॒द॒त॒ । यत् । दे॒वाः । अ॒भ्या॒ता॒नैरित्य॑भि - आ॒ता॒नैः । असु॑रान् । अ॒भ्यात॑न्व॒तेत्य॑भि - आत॑न्वत । तत् । अ॒भ्या॒ता॒नाना॒मित्य॑भि - आ॒ता॒नाना᳚म् । अ॒भ्या॒ता॒न॒त्वमित्य॑भ्यातान - त्वम् । यत् । जयैः᳚ । अज॑यन्न् । तत् । जया॑नाम् । ज॒य॒त्वमिति॑ जय - त्वम् । यत् । रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । रा॒ष्ट्रम् । एति॑ । अद॑दत । तत् । रा॒ष्ट्र॒भृता॒मिति॑ राष्ट्र - भृता᳚म् । रा॒ष्ट्र॒भृ॒त्त्वमिति॑ राष्ट्रभृत् - त्वम् । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । स्यात् । सः ( ) । ए॒तान् । जु॒हु॒या॒त् । अ॒भ्या॒ता॒नैरित्य॑भि-आ॒ता॒नैः । ए॒व । भ्रातृ॑व्यान् । अ॒भ्यात॑नुत॒ इत्य॑भि - आत॑नुते । जयैः᳚ । ज॒य॒ति॒ । रा॒ष्ट्र॒भृद्भि॒रिति॑ राष्ट्र॒भृत् - भिः॒ । रा॒ष्ट्रम् । एति॑ । द॒त्ते॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ॥
पदसंख्या: 68