पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः) ।
अभ्याताना जयैः राष्ट्रभृद्भिः षष्ठे तु वर्णितः ।
अथ सप्तमे राष्ट्रभृन्मन्त्रा उच्यन्ते । तेषां विनियोगविशेषमग्निकाण्डे सूत्रकारो दर्शयति - “षड्मिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामेवमितरान्पञ्च पर्यायान्विभजति भुवनस्य पत इति पर्यायाणां सप्तम्याहुतीनां त्रयोदश्येतेन व्याख्यातं भुवनस्य पत इति रथमुखे पञ्चाऽऽहुतीर्जुहोति दश वा इति । अत्राऽऽद्येषु प्रथमं पर्यायमाह - ऋताषाडिति । ऋतेन सत्येन सह सर्वमनृतमभिभवतीत्यृताषाट् । ऋतशब्दवाच्यं धाम स्थानं यस्यासावृतधामा । तादृशोऽग्निनामकः कश्विद्गन्धर्वस्तस्यौषधिदेवता अप्सरसः प्रियभार्याः । ऊर्ज इति तासां नामधेयम् । ऊर्जयन्ति बलवन्तं प्राणवन्तं वा कुर्वन्तीत्यूर्जः । स गन्धर्व इदं ब्रह्म बृहत्क्षत्रं फलसमर्थमिदं कर्म हविर्वा पातु रक्षतु फलपर्यवसन्नं करोतु । ताश्चाप्सरस इदं ब्रह्म क्षत्रं च पान्तु तथा रक्षन्तु । तस्मै गन्धर्वाय स्वाहा हुतमस्तु । ताभ्योऽप्सरोभ्य इदं स्वाहा हुतमस्तु ।
अथ द्वितीयपर्यायमाह — सहितो विश्वसामेति । संधीयते सर्वमनुसंधीयतेऽनेनेति संहितः । विश्वानि सामान्यवसितान्यस्मिन्निति विश्वसामा । तादृशः सूर्यनामकः कश्चिद्गन्धर्वस्तस्य मरीचिदेवताः प्रिया भार्याः, आयुव इति तासां नामधेयम् । आयन्ति शीघ्रमागच्छन्तीत्यायुवः । नाम स इदं ब्रह्मेत्यादिकं सर्वत्रानुषञ्जनीयम् ।
अथ तृतीयपर्यायमाह - सुषुम्नः । सूर्यरश्मिरिति । शोभनं सुम्नं सुखमस्येति सुषुम्नः । सूर्यस्येव रश्मिर्यस्यासौ सूर्यरश्मिः । चन्द्रमोनामकः कश्विद्गन्धर्वस्तस्य नक्षत्रसदृशानि शरीराणि भार्यास्ताश्च बेकुरीनामिकाः । चित्तविकारहेतुत्वाद्बेकुरय इत्युच्यन्ते ।
अथ चतुर्थपर्यायमाह — भुज्युः सुपर्ण इति । भुनक्ति पालयति विश्वमिति भुज्युः । पक्षिवदाकाश(वश)गामित्वात्सुपर्णस्तादृशो यज्ञनामकः कश्चिद्गन्धर्वस्तस्य च दक्षिणारूपा देवता भार्यास्ताश्च स्तूयन्त इति व्युत्पत्त्या स्तवा इत्युच्यन्ते ।
अथ पञ्चमं पर्यायमाह — प्रजापतिरिति । प्रजानां पालकः प्रजापतिः । विश्वं कर्म करणीयं यस्यासौ विश्वकर्मा । तादृशो मनोनामकः कश्चिद्गन्धर्वस्तस्य च ऋक्सामदेवता भार्यास्ताश्च सौन्दर्यं वहन्तीति वह्नय इत्युच्यन्ते ।
अथ षष्ठं पर्यायमाह — इषिरो विश्वव्यचा इति । इष्यमाणवस्तुसंपन्नत्वादिपिरः । विश्वं विशेषेणाञ्चति गच्छतीति विश्वव्यचाः । तादृशो वातनामकः कश्चिद्गन्धर्वस्तस्याब्देवता भार्यास्ताश्च हर्षयुक्तत्वान्मुदा इत्युच्यन्ते ।
अथ पर्यायेषु सप्तमं त्रयोदशाहुत्यर्थं मन्त्रमाह — भुवनस्य पत इति । भुवनस्य सर्वलोकस्य पते हे पालक यस्य तवोपर्यन्तरिक्षद्युलोकयोरिह च पृथिव्यां गृहाः सन्ति स त्वं नोऽस्मभ्यमज्यानिं रास्व वयोहान्यभावं देहि । तथा रायस्पोषं धनपुष्टिं सुवीर्यं शोभनपुत्रं संवत्सरीणां स्वस्तिं संवत्सरजीवनपरिमितां समृद्धिं च देहि ।
अथोत्तरस्मिन्पर्यायपञ्चके प्रथमं पर्यायमाह — परमेष्ठ्यधिपतिरिति । परमे सर्वोत्तमस्थाने तिष्ठतीति परमेष्ठी । अधिकत्वेन फलपाताऽधिपतिः । तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य विश्वाभिमानिन्यो देवता भार्यास्ताश्च भवन्ति सर्वदा वर्तन्ते इति भुव इत्युच्यन्ते ।
अथ द्वितीयं पर्यायमाह — सुक्षितिः सुभूतिरिति । शोभना क्षितिर्भूमिर्यस्यासौ सुक्षितिः । समीचीननिवासस्थान इत्यर्थः । शोभना भूतिरैश्वर्यं यस्यासौ सुभूतिः, भद्रं कल्याणं यजमानाय करोतीति भद्रकृत् । सुवः स्वाधीनः स्वर्गलोकोऽस्यास्तीति सुवर्वान् । तादृशः पर्जन्यनामकः कश्चिद्गन्धर्वस्तस्य च विद्युद्देवता भार्यास्ताश्च दीप्यमानत्वाद्रुच इत्युच्यन्ते ।
अथ तृतीयं पर्यायमाह — दूरेहेतिरिति । दूरेऽप्यवस्थितस्य प्रहारसाधनं हेतिर्यस्यासौ दूरेहेतिः । नामश्रवणमात्रेण सुखनिवर्तकत्वादमृडयस्तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य प्रजाभिमानिदेवता भार्यास्ताश्च बिभ्यति मृत्योरिति भीरुव इत्युच्यन्ते ।
अथ चतुर्थं पर्यायमाह – चारुः कृपणकाशीति । रमणीयाचरणोपेतत्वाद्रमणीयशरीरत्वाद्वा चारुः । कृपणेष्विन्द्रियार्थेषु प्रकाशयति मनो दीपयतीति कृपणकाशी । तादृशः कामनामकः कश्चिद्गन्धर्वस्तस्य विषयाभिलाषनिमित्तचित्तक्लेशाभिमानिदेवता (आधयः?) भार्यास्ताश्चापेक्षितविषयप्राप्त्यभावेन जनाञ्छोकयुक्तान्कुर्वन्तीति शोचयन्तीरित्युच्यन्ते । नाम स इदं ब्रह्मेत्यादेस्तु सर्वत्रानुषङ्गद्योतनाय पुनः पाठः ।
अथात्र पञ्चमं पर्यायरूपं द्वाविंशाहुतिसाधनं मन्त्रमाह — स नो भुवनस्येति । भुवनस्य सर्वलोकस्य हे पते पालक यस्य तवोपरितनलोकद्वये पृथिव्यां च गृहाः सन्ति स त्वं नोऽस्मभ्यमुरु विपुलं शर्म सुखं यच्छ । तथैवास्मै ब्रह्मणे ब्राह्मणजातियुक्ताय क्षत्त्राय समर्थाय च महि शर्म यच्छ महत्सुखं देहि ।
अत्र विनियोगसंग्रहः —
यथा त्रयोदश जयाश्चित्तं चेत्यादयः श्रुताः । अग्निरभ्यातानमन्त्रा अष्टादश यथाश्रुताः ॥ ऋता राष्टृभृतस्तद्वद्द्वाविंशतिरुदीरिताः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
ऋताषाट् ऋतं सत्यं यज्ञं वा सहते अभिभवति अतःपरं नास्ति सत्यं यज्ञो वा । ऋतेन वा विश्वमभिभवति । 'छन्दसि सहः' इति ण्विः, 'अन्येषामपि दृश्यते' इति दीर्घत्वम्, 'सहेस्साढस्सः' इति षत्वम् । ऋतधामा ऋतं सत्यं यज्ञो वा धाम स्थानं तेजो वा यस्य स ऋतधामा । ईदृशत्वादग्निर्गन्धर्वः गान्धारबन्धं धारयति उदकं वा यागद्वारेणोत्पादयतीति गन्धर्वः, पृषोदरादिः । तस्य सम्बन्धिन्यः तेनाह्रियमाणा ओषधयः अप्सरस्त्वेन रूप्यन्ते, गन्धर्वाणामप्सरसो भार्याः, अपस्सारयन्ति अन्नं भूत्वा आहुतिद्वारेणादित्यं प्राप्नुवन्ति यथोक्तं 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इत्यादि । ऊर्जो नामान्नाख्यः, अन्नं भूत्वेत्यर्थः । केचिदाहुः - दोग्धृस्थानीयोऽग्निः वत्सस्थानीयाभिरोषधीभिः गां पयो दुग्धे इति स तादृशोऽग्निः इदं ब्रह्म क्षत्रं च पात्विति अस्मानाहुतिद्वारेण, प्राधान्यात्तयोर्ग्रहणं सर्वस्थावरजङ्गमप्रदर्शनार्थम् । ताश्च तादृश्योऽप्सरसः इदं क्षत्रं च पातु, तस्मा अग्नये स्वाहुतं करोमि ताभ्यश्चाप्सरोभ्यः । एवं सर्वेषु पर्यायेषु द्रष्टव्यम् ॥
तदप्याहुः - भूग्रहभानां गोळार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ॥
एतदुक्तं भवति । यदस्यैवान्तस्थस्य चन्द्रबिम्बस्यार्धमेकं सर्वदा भास्वरं भवति, अर्धं तद्व्यतिरिक्तवर्णं दृश्यते । तत्रेदं कारणं - सूर्याभिमुखं यदर्धं तत्सूर्यरश्मिभिरादीप्यते, अन्यत्स्वामेव छायामवलम्बति । किमिति तर्हि चन्द्रमसो बिम्बार्धं सर्वदा न चकास्ति, चकास्त्येव । किमिति नोपलभ्यते । उच्यते - अमावास्यायां चन्द्रमस उपर्यादित्यः तदासौ तस्य चन्द्रमसः उपरि यद्बिम्बार्धं तदशेषमवभासयति । ततश्चन्द्रस्यामावास्ययोपलक्षितोपरिबिम्बे केन्द्रात् यथा यथा पश्चादादित्योऽवलम्बते तथा तथा चन्द्रमसो बिम्बं केन्द्रस्य परतोऽवलम्बते तत्केन्द्रवशाच्चन्द्रमसो बिम्बार्धं यावदेवामावास्योपलक्षिते बिम्बस्यार्धादधोऽवलम्बते तावच्चन्द्रमसो बिम्बं अस्माभिरुपलभ्यते । शेषमुपरिस्थितत्वात् सूर्याभिमुखं दीप्यमानमपि नोपलभ्यते । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावच्छुक्लश्चन्द्रमा उपलभ्यते । तेनामी ज्योत्स्त्नावितानावभासिनश्चन्द्रकराः सूर्य-मरीचय एव । केन तर्हि सवितृमरीचयोऽम्बुमयस्वभावे च श्यामे चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमुपध्वंसयन्ति । उच्यते - यथा दर्पणे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं तदिति द्रष्टव्यम् । अन्यच्च यो यः चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्ल उपलक्ष्यते नेतर इत्यवगन्तव्यम् । एवं च निरुक्ते पठ्यते - 'तस्यैको रश्मिः चन्द्रमसं प्रतिदीप्यते तेनोत्प्रेक्षितव्यमादित्योऽस्य दीप्तिर्भवति' इति । तादृशः चन्द्रमा गन्धर्वः नक्षत्राण्यप्सरसः वृष्टिहेतुत्वात् । बेकुरयः वर्णव्यावृत्तिश्छान्दसी, भेकुरयः । वाजसनेयिनामेष एव पाठः । भयं यक्ष्माख्यं चन्द्रस्य कृतवत्यः इत्यर्थः । बिभेतेर्व्यत्ययेन भावे विन्, करोतेरौणादिके किप्रत्यये छान्दसमुत्वम् । अन्य आहुः - वृष्ट्यादिकरणशीलाः बेकुरयः । वेरुपसर्गस्य स्वरव्यञ्जनयोर्व्यावृत्तिरिति ॥