पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः) ।
अनुवाके सप्तमेऽस्मिन्नुक्ता राष्ट्रभृतोऽखिलाः ।
अथाष्टमे तेषां काम्याः प्रयोगा उच्चन्ते । तत्रैवं प्रयोगं विधत्ते —
राष्ट्रकामयेति । ये एते पूर्वानुवाकोक्ता राष्ट्रभृत्संज्ञका मन्त्रास्तेषां राष्ट्रप्राप्तिहेतुत्वाद्राष्ट्रमित्यपचर्यते । अतस्तन्मन्त्रहोमलक्षणेन राष्ट्रेणैव यजमानार्थ मध्यर्युर्भूमिविशेषरूपं राष्ट्रं संपादयति । स च यजमानो राष्ट्रं प्राप्नोत्येव । अतो राष्ट्रमाप्तिकामयजमानर्थमेते मन्त्रा होतव्याः ।
आत्मने होतव्या इति । मन्त्राणां पूर्ववत्साधनत्वाद्राप्ट्रत्वम् । सत्यपि भूगिविशेषरूपे राष्ट्रे प्रजापशुश्रैष्ठ्यानामभावे सति भोगासंभवाद्भूमिवद्भोगहेतुत्वेन प्रजादीनाप्रपि राष्ट्रत्वम् । अतो राष्ट्ररूपमन्त्रेण राष्ट्रेण प्रजादिरूपात्मोत्कर्षरूपं राष्ट्रमवरुन्धे । तथा सति समानानामन्येषांस्वयमेवातिशयेन निवासहेतुर्भवति । अथ ग्रामप्राप्तये होमं विधत्ते —
ग्रामकामायेति । स्वेन सहोत्पन्ना ज्ञातय एकग्रामनिवासिनश्व सजातास्तेषु सर्वेषु सत्सु राष्ट्रं संपूर्णं भवतीति तेषां राष्ट्रत्वमते मन्त्ररूपेण राष्ट्रेण सजातरूपं राष्ट्रभवरुन्धे ग्रामस्वामी भवत्येव । तस्य होमस्य देशविशेषं विधत्ते —
अधिदेवन इति । अविदीव्यन्ति द्यूनेन क्रीष्ठन्त्यस्मिस्थान इत्यधिदेवनं तत्र होमे सति तस्मिन्नेव स्थाने ये सजाताः समागतास्तान्सवीनवीनान्करोति । ते चाधीनाः सन्त एव सेवन्ते । अथ बलालामाय होमं विधत्ते —
रथमुख् इति । रथस्य यदीषाग्रं तदग्नेरुपरि धारयित्वा तत्र जुहुयात् । राष्ट्रभृन्मन्त्राणां रथस्य च क्रतुहेतुत्वादोजस्त्वम् । अतस्तदुभयरूपेणौजसैव यजमानस्य बलमधीनं करोति । ततो बलवान्भवत्यवे ।
यो राष्ट्रादिति । अस्व राष्ट्रभ्रष्टस्य सतोऽपि यावन्तो रथाः सन्ति तान्सर्वान्नरैर्योजयध्वमिति प्रैषं ब्रूयात् । अनेन प्रैषेण होमेन चास्मै भ्रष्टाय राष्ट्रं संपादयति ।
यदा लब्धमपि राष्ट्रमिष्टसाधनसमर्थं न भवति तदा प्रयोगविशेष विधत्ते-
आहुतयो वा इति । न कल्पते भोगे क्षमं यस्य न भवति, एतस्य पूर्वा आहुतयः स्वकार्यक्षमा न भवन्ति तदानीमयं स्वकीयरथस्य यद्दक्षिणं चक्रं तदग्नेरुपरि धारयित्वा तस्य चक्रस्य रन्ध्राभिमुखत्वेन जुहुयात् । तदानीमस्याऽऽहुतीः कल्पयत्वेव स्वकार्यक्षमा एव करोति । ताश्व क्षमाः सत्यो राष्ट्रं भोगे क्षमं कुर्वन्ति । अतस्ता आहुतीरनु राष्ट्रं क्षमं भवतीत्युच्यते ।
सह्ग्रामे संयत्त इति । ये युद्धं प्राप्नुवन्ति एते राष्ट्रे निमित्तभूते सति कलहं कुर्वान्त । तेषा च कलहं कुर्वतां मध्ये प्रथमं होमे प्रवृत्तस्य यस्यैता राष्ट्रभृतो जुह्वति स एव समर्थो भवति न त्वन्यः । समर्थत्वाच्य तं सङ्ग्रामं जयति । श्रौताग्निं प्रज्वलयितुं काष्टविशेषं विधत्ते —
मान्धुक इघ्म इति । मधुकवृक्षस्य संबन्धी काठविशेष मान्धुकः । तेन प्रत्वीमत्रं पृथगग्निमुपसमाधाय जुहुयात् । तत्र मधूककाष्ठजन्मा येऽङ्गारास्त एवास्य यजमानस्य विरोधिपुरुषाणां सेनां प्रत्येकं वेष्टयन्ति । परकीये कटकेऽग्निवाधा जायते । पुरुषाणां वा शरीरेषु ज्षरदिसंतापो जायत इत्यर्थः ।
अथोन्मादपरिहाय होमं विधत्ते —
य उन्माद्येति । यः पुरुष उन्मत्ते भवत्येतं गन्धर्वाप्सरत्त एवोन्मत्तं कुर्वन्ति । राष्ट्रभृन्मन्त्राश्व गन्धवाष्सरसस्तद्देवत्यत्वाद्वन्धवर्वानुद्दिश्य तस्यै स्वाहेति अप्सरस उद्दिश्य ताभ्यः स्वाहेति जुहुयात् । तेन होमेनोभयविधानुन्मादयितृञ्शान्तान्करोति ।
अत्रापि पूर्ववदग्निं प्रज्वलयितुं काष्ठविशेषान्विकाल्पितान्दर्शंयति —
नैयग्रोध औदुम्बर इति । एते न्यग्रोधादयः वैशाब्दो लोकप्रसिद्धिं दर्शमति । अभिचाराऱ्ततयैतद्धोतं विधत्ते —
अमिचरतेति । प्रतिलोममन्त्यादिक्रमेण अस्याभिचरितस्य प्राणान्प्रतीचः प्राणाषानादीन्विपरीतस्थानैः प्रतियौति प्रतिकूलत्वेन योजयति । ततस्तमनाया सेनैष हिनस्ति । देशं विधत्ते —
स्वकृत इरिण इति । ऊयररूपायां सुषिररूपायां वा भूमावभिचारदेवतायाः स्वस्थाने तमेनं शत्रुं निर्ऋत्या तया देवतया ग्राहयति । वाचः क्रूरेण वषट्कारेणैनं प्रकर्षेण वृश्वति च्छिनत्ति । ततो झटित्यार्तो भवति ।
शत्रोरन्नाद्यस्यान्नदनशक्तेश्व हरणकामत्य कर्मविशेषं विधत्ते —
यस्य कामयेतेति । सभायामत्तानशरीरो निपतितः संस्तृणानि भुवनस्यपति इति संगृण्हीयातु* । तत्र मन्त्रसंख्यां विधत्ते —
षड्भिर्हरतीति । षड्भिः स नो भुवनस्यं पत इत्यन्तैः ।
परकृतभयवतस्तत्परिहाराय कर्मान्तरं विधत्ते —
यो ज्येष्ठबन्युरिति । ज्येष्ठबन्धुः सत्यौऽपभूतः स्वयं ततो निकृष्टस्तत्पराभूत इति यावत् । तं स्थल उच्चप्रदेशेऽवसाम्योपरवेश्य तस्मै तत्फलसिद्धये होताब्या राष्ट्रभृतः । स्थलं च वर्ष्म शरीरमुभवविधेन, वर्ष्मणैव यजमानं स्वसमानानां परुषाणां शरीरस्थानीयं करोति । असौ शरीरवत्प्रधानभूत इतरे हस्तादिवदुपसर्जनभूता यथा भवन्ति तता करातीत्यर्थः । शरावसंख्यां प्रशंसति —
त्ततुःशराव इति । दिशां चतुष्टयात्तत्संख्यया तत्र प्रतिष्ठा युक्ता ।
पाकसाधनद्रव्यं विधत्ते —
क्षीरे भवतीति । रु च स्वादुत्वम् ।
पच्यमानर्स्येदनस्यापव्कत्वपरिहारार्थं दर्व्यो द्धरणं विधत्ते —
उद्धरतीति । शृतत्वाय पव्कत्वाय । पक्वस्य घृतालुतत्वं विधत्ते —
सर्पिष्वान्भवतीति । हुतशेषस्य ऋषिसमानैरेवान्यैः प्राशनं विधत्ते —
चत्वार आर्षेया इति । चतुर्दिक्संबन्धिवन्हिस्थानीयाश्वत्वारो ब्राह्मणा अतस्तैः प्राशितमग्नावेव हुतं भवति ॥
चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥