पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः) ।
अष्टमे राष्ट्रभृद्धोमास्तत्तत्कामाय वर्णिताः ।
अथ नवमे देविकाख्यानां राजसूयप्रकरणोत्पन्नानां धात्रे पुरोडाशमित्वदीनां पञ्चहविषामुत्कर्षं कृत्वा बहुविधकाम्यप्रयोगो निरुप्यते ।
तत्रैकं प्रयोगं विधत्ते —
देविका निर्वपेदिति । दीव्यन्त्यपेक्षितं फलविशेषं प्रकाशयन्तीति धात्रे इत्यादयः पञ्चेष्टयो देविकाः । अनुमत्यादयः स्त्रीरूपत्वाद्देव्यस्तदीयत्वादेता देविकाः ।
गायत्री वा अनुमतिरित्यादिच्छन्दोरूपत्वमनुमत्यादीनामुच्यते तद्द्वाता देविका अपि च्छन्दांस्येव । यथा छन्दांसि फलहेतुत्वात्सुखकराणि एवं प्रजा अपि सुखहेतुत्वाच्छन्दःसमानाः । अतो देविकारूपैश्छन्दोभिरेव यजमानार्थं प्रजा उत्पादयति ।
धात्रादीनां पञ्चानां प्रजोत्पत्तौ दृश्यगुणयोगे प्रशंसति —
प्रथमं धातारीमति । पञ्चानां देवानां मध्ये धातारं प्रथमं करोतीति यत्तेन यजमानं स्वपत्न्या सह मिथुनी करोत्येव । अनुमतिरस्मै यजमानाय तन्मिथुनीकरणमनुमन्यत एव राका प्रजां ददाति । सिनीवाली गर्भस्थां प्रजामुत्पादयति । उत्पन्नासु प्रजासु कुहूर्तेवताद्वारेण वाचं दधाति । संभाषणाभ्यासं करोतीत्यर्थः । अथ फलान्तराय विधत्ते –
एता एव निर्वपेदिति । प्रथमेन धात्रा गावादिषु वीजावापः र्सपद्यते । प्रजातानां पशूनां तृणोकदातिपोषणेन प्रतिष्टापनं कुहूवा क्रियते । शेषं पूर्ववत् ।
फलान्तराय विधत्ते —
एता एव निर्वपेदिति । अनुमतिराकाभ्यामूर्ध्वं सिनिवालीकुहभ्यामधस्ता न्मध्यं तत्र धातारं स्थापयेत् । तेनैनं यजमान ग्रामस्य मध्य एवाऽऽधिपत्ये स्थापयति । फलान्तराय विधत्ते —
एता एव निर्वपेदिति । यस्य पुरुषस्य ज्योक्चिरमामयाते व्याधिवाधा भवत्येनं पुरुषं छन्दांत्यभिमन्यन्तेऽभिक्रुध्यन्ति । अतो देविकानिर्वापतुष्टैश्छन्दोभिरेवैनं रोगरहितं करोति । अत्रापि पूर्ववद्धातारं मध्यतः कुर्यात् । यस्य दीर्घ व्यधिस्तस्योदरमध्ये यत्किंचिदक्लृप्तमसामर्थ्यं भवति । अतस्तेन धातुर्मध्यस्यापनेनास्य रोगिण उदरमध्य एव कल्पयति सामर्थ्यं जनयति ।
एता एव निर्वपेदिति । र्य पुरुषं केनापि विघ्नेन यज्ञो न प्राप्नोति, एनं (तं) पुरुषं यज्ञसाधनानि च्छन्दांस्यंव प्रथमं न प्राप्नुवन्ति । तत्र धातुः प्रथमं स्थापने सत्यनुकूलत्षेत प्रथमत एव यजमानार्थे छन्दांसि धृतानि भवन्ति । छन्दःस्वनुकूलेषु सत्सु यज्ञ एनं प्राप्नोति । प्राप्तयज्ञस्योत्तरयज्ञसिद्ध्यर्थं विधत्ते —
एता एव निर्वपेदिति । यः पुरुष ईजानः पूर्वमिष्टवान्भवति, एतस्य च्छन्दांसि पूर्वयज्ञे व्यापृतत्वाद्धृतसारणीव भवन्ति । तत्र चरमस्थाने धातुः करणेनोपरिष्टात्करिष्यमाणाज्ञज्ञे छन्दास्यगतसाराणि संपादयति । तत उत्तरो यज्ञ एनमुपनमति पुनरपि प्रतिष्ठां गच्छतीत्यर्थः अथ मेधाप्राप्तये विधत्ते —
एता एव निर्वपेदिति । ग्रन्थधारणसक्तिर्मेधा । एतद्वाक्यं यज्ञप्राप्तिवाक्यवद्व्याख्येयम् । अथ कान्तिप्राप्तये विधत्ते —
एता एव निर्वपेदिति । कान्ते प्रियत्वेन च्छन्दःसाम्यम् । अत्र चरुणां चतुर्णां पाकसाधनं क्षीरं धातुर्मध्यतः करणेन कान्तेर्मध्यतः एव यजमानं स्थापयति । गायत्र्यादिच्छन्दोरूपेणानुमत्यादिदेवताः प्रशंसति —
गायत्री वा इति । गायत्रादिच्छन्दांसि यथाऽभीष्टं साधयन्त्येवमनुम-त्यादीनामभीष्टसाधनत्वाद्वायत्र्यादिरूपत्वम् । अनेनैव न्यायेन पूर्वपक्षादिरूपत्व दर्शयति —
पूर्वपक्षो राकेति । पूर्ण निशाकर इत्युक्तत्त्रात्पूर्णवन्दमण्डलोपेता राका । सा च शक्लपक्षस्वरूपा । नष्टेन्दुकला कुडूरित्युक्तवाञ्चन्द्रकलालेशेनापि हीना कुहूः । सा च कृष्णपक्षस्वरूपा । सा दृष्टेन्दुः सिनीवालीत्युक्तत्वाच्चतुर्दशीमिश्रिता कृष्णा पञ्चदशी सिनीवाली । सा चात्रामावास्यारूपत्वेन विविक्षिता । कलाहीने साऽनुमतिरित्युक्तत्वाच्चतुर्दशीमिश्रा शुक्लपञ्चदश्यनुमतिः । सा चात्र पोर्णमासीतिथिरूपत्वेन विवक्षिता । उक्तयोः पक्षयोस्तिथ्योश्च निष्पादको यश्चन्द्रमाः सोऽत्रधातृरूपेण विवक्षितः ।
इत्थं पूर्वपक्षादिरूपेण प्रशस्य पुनर्वस्वादिरूपेण प्रशंसति —
अष्टौ वसव इति । या अनुमत्यादयो गायत्र्यादिभावमापादितास्तासां संख्यासाभ्याद्वस्वादिरूपत्वम् या कुहूरनुष्टुप्त्वेन निरूपिता सा प्रजापतिरूपा । ‘अनुष्टुभो वा इमानि भूतानि जायन्ते’ इति सशाखान्तरे प्रजापतिवदनुष्टुभः सर्वोत्पादकत्वश्रवणात् । वषट्कारवन्मुख्यत्वेन धातुस्तद्रूपत्वम् । प्रशंसां निगमयति —
एतद्वै देविका इति । यत्प्रशंसार्थं गायत्री वा अनुमतिरित्यादिनिरूपणमेतदेक देविकानां सर्वच्छंदोरूपत्वं सर्वदेविकारूपत्वं वषट्काररूपत्वं च ।
ता यत्सह सर्वा इति । ता देविकाः पञ्चापि सह निरूप्ताः सत्य एनं यजमानं प्रदग्धुमीश्वराः । तस्मादनुमत्या राकायाश्व चरुद्वयं निरुप्य तततस्तृतीयत्वेन धातुः पुरोडाशं निर्वषेत । तत ऊर्ध्वं सिनीवाल्याः कुह्वाश्व (च) रुद्वयं निर्वपेत् । तथा सत्येनं यजमानं देविका न प्रदहन्ति । अथ यस्यै कामाय निरुप्यन्तेतं काममाभिद्रेवताभिः प्राप्नोत्येव ॥
चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
अनुमतिरूनचन्द्रा शुक्लपञ्चदशी पौर्णमासीरूपेण रूप्यते । धाता चन्द्रमस्त्वेन रूप्यते । स हि सर्वमिदं पूर्वपक्षादि प्रवर्तयति । पूर्वपक्षादीनामपि प्रजावृद्ध्यादिहेतुत्वात् ताद्रूप्येण रूपणम् ॥