प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.4.9.1 TS 3.4.9.1
देवि॑का॒ निव॑र्पेत् प्र॒जाका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै᳚ प्र॒जाः प्रज॑नयति प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता ए॒व निव॑र्पेत् प॒शुका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सी - [ ]
पदपाठः (Word-by-word)
देवि॑काः । निरिति॑ । व॒पे॒त् । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । इ॒व॒ । खलु॑ । वै । प्र॒जा इति॑ प्र-जाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒थ॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ । मि॒थु॒नी । ए॒व । तेन॑ । क॒रो॒ति॒ । अन्विति॑ । ए॒व । अ॒स्मै॒ । अनु॑मति॒रित्य॑नु - म॒तिः॒ । म॒न्य॒ते॒ । रा॒ते । रा॒का । प्रेति॑ । सि॒नी॒वा॒ली । ज॒न॒य॒ति॒ । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । प्रजा॑ता॒स्विति॒ प्र - जा॒ता॒सु॒ । कु॒ह्वा᳚ । वाच᳚म् । द॒धा॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः) ।

अष्टमे राष्ट्रभृद्धोमास्तत्तत्कामाय वर्णिताः ।

अथ नवमे देविकाख्यानां राजसूयप्रकरणोत्पन्नानां धात्रे पुरोडाशमित्वदीनां पञ्चहविषामुत्कर्षं कृत्वा बहुविधकाम्यप्रयोगो निरुप्यते ।

तत्रैकं प्रयोगं विधत्ते —

देविका निर्वपेदिति । दीव्यन्त्यपेक्षितं फलविशेषं प्रकाशयन्तीति धात्रे इत्यादयः पञ्चेष्टयो देविकाः । अनुमत्यादयः स्त्रीरूपत्वाद्देव्यस्तदीयत्वादेता देविकाः ।

गायत्री वा अनुमतिरित्यादिच्छन्दोरूपत्वमनुमत्यादीनामुच्यते तद्द्वाता देविका अपि च्छन्दांस्येव । यथा छन्दांसि फलहेतुत्वात्सुखकराणि एवं प्रजा अपि सुखहेतुत्वाच्छन्दःसमानाः । अतो देविकारूपैश्छन्दोभिरेव यजमानार्थं प्रजा उत्पादयति ।

धात्रादीनां पञ्चानां प्रजोत्पत्तौ दृश्यगुणयोगे प्रशंसति —

प्रथमं धातारीमति । पञ्चानां देवानां मध्ये धातारं प्रथमं करोतीति यत्तेन यजमानं स्वपत्न्या सह मिथुनी करोत्येव । अनुमतिरस्मै यजमानाय तन्मिथुनीकरणमनुमन्यत एव राका प्रजां ददाति । सिनीवाली गर्भस्थां प्रजामुत्पादयति । उत्पन्नासु प्रजासु कुहूर्तेवताद्वारेण वाचं दधाति । संभाषणाभ्यासं करोतीत्यर्थः । अथ फलान्तराय विधत्ते –

एता एव निर्वपेदिति । प्रथमेन धात्रा गावादिषु वीजावापः र्सपद्यते । प्रजातानां पशूनां तृणोकदातिपोषणेन प्रतिष्टापनं कुहूवा क्रियते । शेषं पूर्ववत् ।

फलान्तराय विधत्ते —

एता एव निर्वपेदिति । अनुमतिराकाभ्यामूर्ध्वं सिनिवालीकुहभ्यामधस्ता न्मध्यं तत्र धातारं स्थापयेत् । तेनैनं यजमान ग्रामस्य मध्य एवाऽऽधिपत्ये स्थापयति । फलान्तराय विधत्ते —

एता एव निर्वपेदिति । यस्य पुरुषस्य ज्योक्चिरमामयाते व्याधिवाधा भवत्येनं पुरुषं छन्दांत्यभिमन्यन्तेऽभिक्रुध्यन्ति । अतो देविकानिर्वापतुष्टैश्छन्दोभिरेवैनं रोगरहितं करोति । अत्रापि पूर्ववद्धातारं मध्यतः कुर्यात् । यस्य दीर्घ व्यधिस्तस्योदरमध्ये यत्किंचिदक्लृप्तमसामर्थ्यं भवति । अतस्तेन धातुर्मध्यस्यापनेनास्य रोगिण उदरमध्य एव कल्पयति सामर्थ्यं जनयति ।

अथ ज्योतिष्टोमादियज्ञप्राप्तये विधत्ते —

एता एव निर्वपेदिति । र्य पुरुषं केनापि विघ्नेन यज्ञो न प्राप्नोति, एनं (तं) पुरुषं यज्ञसाधनानि च्छन्दांस्यंव प्रथमं न प्राप्नुवन्ति । तत्र धातुः प्रथमं स्थापने सत्यनुकूलत्षेत प्रथमत एव यजमानार्थे छन्दांसि धृतानि भवन्ति । छन्दःस्वनुकूलेषु सत्सु यज्ञ एनं प्राप्नोति । प्राप्तयज्ञस्योत्तरयज्ञसिद्ध्यर्थं विधत्ते —

एता एव निर्वपेदिति । यः पुरुष ईजानः पूर्वमिष्टवान्भवति, एतस्य च्छन्दांसि पूर्वयज्ञे व्यापृतत्वाद्धृतसारणीव भवन्ति । तत्र चरमस्थाने धातुः करणेनोपरिष्टात्करिष्यमाणाज्ञज्ञे छन्दास्यगतसाराणि संपादयति । तत उत्तरो यज्ञ एनमुपनमति पुनरपि प्रतिष्ठां गच्छतीत्यर्थः अथ मेधाप्राप्तये विधत्ते —

एता एव निर्वपेदिति । ग्रन्थधारणसक्तिर्मेधा । एतद्वाक्यं यज्ञप्राप्तिवाक्यवद्व्याख्येयम् । अथ कान्तिप्राप्तये विधत्ते —

एता एव निर्वपेदिति । कान्ते प्रियत्वेन च्छन्दःसाम्यम् । अत्र चरुणां चतुर्णां पाकसाधनं क्षीरं धातुर्मध्यतः करणेन कान्तेर्मध्यतः एव यजमानं स्थापयति । गायत्र्यादिच्छन्दोरूपेणानुमत्यादिदेवताः प्रशंसति —

गायत्री वा इति । गायत्रादिच्छन्दांसि यथाऽभीष्टं साधयन्त्येवमनुम-त्यादीनामभीष्टसाधनत्वाद्वायत्र्यादिरूपत्वम् । अनेनैव न्यायेन पूर्वपक्षादिरूपत्व दर्शयति —

पूर्वपक्षो राकेति । पूर्ण निशाकर इत्युक्तत्त्रात्पूर्णवन्दमण्डलोपेता राका । सा च शक्लपक्षस्वरूपा । नष्टेन्दुकला कुडूरित्युक्तवाञ्चन्द्रकलालेशेनापि हीना कुहूः । सा च कृष्णपक्षस्वरूपा । सा दृष्टेन्दुः सिनीवालीत्युक्तत्वाच्चतुर्दशीमिश्रिता कृष्णा पञ्चदशी सिनीवाली । सा चात्रामावास्यारूपत्वेन विविक्षिता । कलाहीने साऽनुमतिरित्युक्तत्वाच्चतुर्दशीमिश्रा शुक्लपञ्चदश्यनुमतिः । सा चात्र पोर्णमासीतिथिरूपत्वेन विवक्षिता । उक्तयोः पक्षयोस्तिथ्योश्च निष्पादको यश्चन्द्रमाः सोऽत्रधातृरूपेण विवक्षितः ।

इत्थं पूर्वपक्षादिरूपेण प्रशस्य पुनर्वस्वादिरूपेण प्रशंसति —

अष्टौ वसव इति । या अनुमत्यादयो गायत्र्यादिभावमापादितास्तासां संख्यासाभ्याद्वस्वादिरूपत्वम् या कुहूरनुष्टुप्त्वेन निरूपिता सा प्रजापतिरूपा । ‘अनुष्टुभो वा इमानि भूतानि जायन्ते’ इति सशाखान्तरे प्रजापतिवदनुष्टुभः सर्वोत्पादकत्वश्रवणात् । वषट्कारवन्मुख्यत्वेन धातुस्तद्रूपत्वम् । प्रशंसां निगमयति —

एतद्वै देविका इति । यत्प्रशंसार्थं गायत्री वा अनुमतिरित्यादिनिरूपणमेतदेक देविकानां सर्वच्छंदोरूपत्वं सर्वदेविकारूपत्वं वषट्काररूपत्वं च ।

अथ पञ्चानामेतेषां त्रेधा निर्वापं विधत्ते —

ता यत्सह सर्वा इति । ता देविकाः पञ्चापि सह निरूप्ताः सत्य एनं यजमानं प्रदग्धुमीश्वराः । तस्मादनुमत्या राकायाश्व चरुद्वयं निरुप्य तततस्तृतीयत्वेन धातुः पुरोडाशं निर्वषेत । तत ऊर्ध्वं सिनीवाल्याः कुह्वाश्व (च) रुद्वयं निर्वपेत् । तथा सत्येनं यजमानं देविका न प्रदहन्ति । अथ यस्यै कामाय निरुप्यन्तेतं काममाभिद्रेवताभिः प्राप्नोत्येव ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे

चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सन्ति देविकाहवींषि 'धात्रे पुरोडाशं द्वादशकपालम्' इति प्रदेशान्तरविहितानि । तेषामिह काम्येन भेदेन प्रयोगविशेषान्दर्शयति - देविका निर्वपेत्प्रजाकाम इत्यादिना ॥ सर्वत्र 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम् । 'छन्दांसि वै देविकाः' इत्यादि वक्ष्यति गायत्र्या भावमनुमत्यादीनाम् । यद्वा - छन्दसां प्रजादिसाधनत्वात् तादृशस्वभावानां हविषां तैरभेद उपचर्यते । प्रथममिति । धातुः द्वादशकपालं प्रजाकामस्य पञ्चानामाद्यं कुर्यादित्यर्थः । तेन धातुः प्राथम्येन मिथुनीकरोति संयोजयति जनयित्रीः प्रजाः । 'अस्य च्वौ' इतीकारः, 'व्यवहिताश्च' इति व्यवहितः प्रयुज्यते । अक्षादित्वात्संहितायां यणादेशाभावः । अनुमतिस्तं मिथुनीभावमनुमन्यते । राका प्रजां राते ददाति । रातेर्व्यत्ययेनात्मनेपदम् । सिनीवाली प्रजनयति प्रजाः । तासु प्रजासु प्रजातासु कुह्वा वाचं दधाति स्थापयति ॥
2 पशुकामस्यापि प्रथमो धाता । तेन प्रवापयति निषिञ्चति पशून् । प्रजातान्पशून् कुह्वा प्रतिष्ठापयति ॥
3 ग्रामकामस्य मध्यतो धाता । तेन ग्रामस्य मध्ये एनं आधिपत्यै स्थापयति ॥
4 ज्योगामयावी दीर्घामयग्रस्तः । अभिमन्यन्ते अभिक्रुध्यन्ति यस्य ज्योगामयत्यामयः । 'रुजार्थानाम्' इति कर्मणि षष्ठी । मध्यतो धाता भवति । मध्यतो हि देहस्य अकॢप्तं असामर्थ्यं एतस्य ज्योगामयाविनः । तेन धातुर्मध्यतः करणेन अस्य मध्यतः कल्पयति सामर्थ्यं जनयति ॥
5 यं यज्ञो नोपनमेत् नोपनमति, स इयक्षुरेता निर्वपेत् । तत्र धातुः प्राथम्येन मुखत एव छन्दांसि धृतानि भवन्ति । ततो यज्ञं एनमुपनमति ॥
6 ईजानः इष्टवान् । य ईजानः एतस्य खलु यातयामानि गतसाराणि छन्दांसि भवन्ति । तत्रोत्तमं धातारं कुर्यात् । उपरिष्टात् यागोत्तरकालं अयातयामान्येव छन्दांस्यवरुन्धे । ततश्चैनमुत्तरो यज्ञः उपनमति येन इयक्षते ॥
7 मेधाकामस्य प्रथमो धाता कार्यः ॥
8 रुक्कामस्य मध्यतः । क्षीरे हवींषि भवन्तीति रुक्कामस्य विशेषः ॥
9 गायत्री वा इत्यादि ॥ अनुमत्यादिधात्रन्ता गायत्र्यादिवषट्कारात्मना रूप्यते तद्वत्प्रजादिसाधनत्वात् । वषट्कारस्य च सर्वप्रवर्तकत्वात् धातृत्वम् । पूर्वपक्ष इत्यादि । राका पूर्णमासी पूर्वपक्षत्वेन रूप्यते । कुहूरमावास्या अपरपक्षत्वेन रूप्यते । सिनीवाली कृष्णपञ्चदशी दृष्टचन्द्रामावास्यारूपेण रूप्यते ।

अनुमतिरूनचन्द्रा शुक्लपञ्चदशी पौर्णमासीरूपेण रूप्यते । धाता चन्द्रमस्त्वेन रूप्यते । स हि सर्वमिदं पूर्वपक्षादि प्रवर्तयति । पूर्वपक्षादीनामपि प्रजावृद्ध्यादिहेतुत्वात् ताद्रूप्येण रूपणम् ॥

10 अष्टौ वसव इत्यादि ॥ गायत्र्यादिरूपेण अनुमत्यादयो रूपिताः । इदानीं ता एव वस्वादिरूपेण रूप्यन्ते - अष्टाक्षरा गायत्र्यात्मिका अनुमतिः अष्टौ वसव इति । एवं सर्वत्र । एतद्वा इत्यादि । एतेन प्रकारेण ॥
11 ता यदित्यादि ॥ तास्तादृश्यो देविकाः सर्वाः यत् यदि सह निर्वपेत्, एनं यजमानं प्रदहः प्रकर्षेण दग्धुमीश्वराः समर्थास्स्युः । 'ईश्वरे तोसुन्कसुनौ' इति तोसुन् । द्वे इत्यादि । गतम् । तथा उ तथो - निपातसमुदायात्मको निपातः ॥
12 अथो इत्यादि ॥ अथो अपि च यस्मै कामाय उक्तेभ्यः प्रजादिकामेभ्यः अन्यस्मा अपि एता निरुप्यन्ते तं काममाभिरेवोपाप्नोति ॥
इति तृतीये चतुर्थे नवमोनुवाकः ॥