-त्यु॒परि॑ष्टादे॒वास्मै॒ छन्दाꣳ॒॒स्यया॑तयामा॒न्यव॑ रुन्ध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्ये॒ता ए॒व निव॑र्पे॒द्यं मे॒धा नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं मे॒धा न॑मत्ये॒ता ए॒व निव॑र्पे॒ - [ ]
पदपाठः (Word-by-word)
उ॒परि॑ष्टात् । ए॒व । अ॒स्मै॒ । छन्दाꣳ॑सि । अया॑तयामा॒नीत्यया॑त - या॒मा॒नि॒ । अवेति॑ । रु॒न्धे॒ । उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत् - त॒रः॒ । य॒ज्ञ्ः । न॒म॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । यम् । मे॒धा । न । उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । खलु॑ । वै । ए॒तम् । न । उपेति॑ । न॒म॒न्ति॒ । यम् । मे॒धा । न । उ॒प॒नम॒तीत्यु॑प - नम॑ति । प्र॒थ॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ । मु॒ख॒तः । ए॒व । अ॒स्मै॒ । छन्दाꣳ॑सि । द॒धा॒ति॒ । उपेति॑ । ए॒न॒म् । मे॒धा । न॒म॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् ।