प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.4.9.7 TS 3.4.9.7
वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टुब् द्वाद॑शाऽऽ*दि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब् धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दाꣳ॑सि॒ सर्वा᳚श्च दे॒वता॑ वषट्का॒रस्ता यथ् स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नं प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निव॑र्पे॒त् तथो॑ ए॒वोत्त॑रे॒ निव॑र्पे॒त् तथै॑नं॒ न प्रद॑ह॒न्त्य ( ) थो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाऽऽ*भि॒रुपा᳚ऽऽ*प्नोति ॥
पदपाठः (Word-by-word)
वस॑वः । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । गा॒य॒त्री । एका॑दश । रु॒द्राः । एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । त्रि॒ष्टुप् । द्वाद॑श । आ॒दि॒त्याः । द्वाद॑शाक्ष॒रेति॒ द्वाद॑श-अ॒क्ष॒रा॒ । जग॑ती । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒नु॒ष्टुबित्य॑नु-स्तुप् । धा॒ता । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । ए॒तत् । वै । देवि॑काः । सर्वा॑णि । च॒ । छन्दाꣳ॑सि । सर्वाः᳚ । च॒ । दे॒वताः᳚ । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । ताः । यत् । स॒ह । सर्वाः᳚ । नि॒र्वपे॒दिति॑ निः - वपे᳚त् । ई॒श्व॒राः । ए॒न॒म् । प्र॒दह॒ इति॑ प्र - दहः॑ । द्वे इति॑ । प्र॒थ॒मे इति॑ । नि॒रुप्येति॑ निः - उप्य॑ । धा॒तुः । तृ॒तीय᳚म् । निरिति॑ । व॒पे॒त् । तथो॒ इति॑ । ए॒व । उत्त॑रे॒ इत्युत् - त॒रे॒ । निरिति॑ । व॒पे॒त् । तथा᳚ । ए॒न॒म् । न । प्रेति॑ । द॒ह॒न्ति॒ ( ) । अथो॒ इति॑ । यस्मै᳚ । कामा॑य । नि॒रु॒प्यन्त॒ इति॑ निः - उ॒प्यन्ते᳚ । तम् । ए॒व । आ॒भिः॒ । उपेति॑ । आ॒प्नो॒ति॒ ॥
पदसंख्या: 59