प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.5.10.1 TS 3.5.10.1
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रि-र्भव॒न्त्यूमाः᳚ । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒ऽभि यो॑धि ।उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒ स्तोमा॒श्छन्दाꣳ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ त - [ ]
पदपाठः (Word-by-word)
त्वे इति॑ । क्रतु᳚म् । अपीति॑ । वृ॒ञ्ज॒न्ति॒ । विश्वे᳚ । द्विः । यत् । ए॒ते । त्रिः । भव॑न्ति । ऊमाः᳚ ॥ स्वा॒दोः । स्वादी॑यः । स्वा॒दुना᳚ । सृ॒ज॒ । समिति॑ । अतः॑ । उ॒ । स्विति॑ । मधु॑ । मधु॑ना । अ॒भीति॑ । यो॒धि॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । ए॒षः । ते॒ । योनिः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ ॥ प्रा॒ण॒ग्र॒हानिति॑ प्राण-ग्र॒हान् । गृ॒ह्णा॒ति॒ । ए॒ताव॑त् । वै । अ॒स्ति॒ । याव॑त् । ए॒ते । ग्रहाः᳚ । स्तोमाः᳚ । छन्दाꣳ॑सि । पृ॒ष्ठानि॑ । दिशः॑ । याव॑त् । ए॒व । अस्ति॑ । तत् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाके तु नवमे दधिग्रहविधिः श्रुतः ।

अथ दशमेऽनुवाके गवामयनेऽतिग्राह्यः प्राणग्रहश्चोच्यन्ते ।

कल्पः — “अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति मध्ये पञ्चमम्” इत्युपक्रम्य पञ्चसु पात्रेषु तत्तन्मन्त्रैर्ग्रहणासादने अभिधायेदमुक्तम् — ‘तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति” इति । पाठस्तु —

त्वे क्रतुपीति । हेऽत्रिग्राह्या त्वे त्वायि क्रतुमपि वृञ्जन्ति सर्वमपि क्रतुम त्विजः समापयन्ति । ग्रहान्तरेभ्योऽस्य को विशेष इति । तदुच्यते-यद्यस्मात्का रणाद्द्विस्त्रि-र्द्विवारं विचारं वेत्येवं पञ्चसु पात्रेषु गृहिता एते रसा विश्वे सर्वे प्यूमरक्षका भवन्ति तस्मात्त्वयि क्रतोः समापनं युक्तम् । अतस्त्वमपि स्वादोरपि रसातिशयेन स्वादु यथा भवति तथा स्वादुना संसृज स्वादुत्वेन संसर्गं कुरु । अत उ षु अतोऽपि सुष्ठु यथा भवति तथा मधु मधुनाऽभियोधि मधुनो भागं मधुना भागान्तरेणाभियोधि । य एवं मधुरस उपयामेन पार्थिवपात्रेण गृहीतोऽसि प्रजापतये जुष्टं प्रियमितरपात्रेभ्य आनीतं त्वां मध्यमपात्रे गृह्णामि । सोऽयं ग्रहणमन्त्रः । एष स्वरप्रदेशस्ते योनिस्ताव स्थानम् । अतः प्रजापत्यर्थं त्वामत्र सादयामि । अनेन मन्त्रेण गवामयनस्य संवत्सरसत्रस्योपान्त्येऽह्नि महाव्रताख्येऽतिग्राह्यं गृह्णीयात् ।

अथ चतुर्थकाण्डसमाम्नातैरथं पुरो भुव इत्यादिभिर्मन्त्रैः पृश्निग्रहवत्सोमो-न्मानरूपान्ग्रहान्विधत्ते —

प्राणग्रहान्गृह्णातीति । यथा यत्पृश्नयो गृह्यन्त इत्यत्र वायुरसि प्राणो-नामेत्यादिभिर्मन्त्रैः सोमोन्मानविशेषा एव ग्रहा इत्युक्तमेवमत्राप्ययं पुरो भुवा इत्यादिभिः प्राणमन्त्रैः सोमोन्मानविशेषाः प्राणग्रहा इत्युच्यन्ते । तान्गृह्णीयात्सोमोन्मानं कुर्यादित्यर्थः । एते ग्रहा इति यावत् । एतावदेवात्रापेक्षितमस्ति । स्तोमास्त्रिवृत्पञ्चदशादयः । छन्दांसि गायत्र्यादीनि । पृष्ठानि माध्यंदिनपवमानानन्तरभावीनि स्तोत्राणि । दिशः प्राच्याद्याः । इत्येतादृशं यावदेवापेक्षितमस्ति तत्सर्वमतैग्रहैरवरुन्धे । प्रकारान्तरेण प्राणग्रहान्प्रशंसति —

ज्येष्ठा वा एतानिति । यस्मादेतान्ग्रहान्गृह्णन्तो ब्राह्मणा ज्येष्ठा दिशां जे

तारश्चाभूवंस्तस्माद्यस्यैते गृह्यन्ते स इतरेभ्यो ज्योष्ठ्यं प्राशस्त्यमेव प्राप्नोति नाना दिक्ष्ववस्थिताश्च पुरुषास्तस्य भवन्ति । प्राणग्रहपर्यायाणां संख्यां विधत्ते —

पञ्च गृह्यन्त इति । अयं पुरो भुव इत्यादिभिर्मन्त्रैः प्रथमः पर्यायः । अयं दक्षिणाविश्वकर्मेत्यादिभिर्द्वितीयः अयं पश्वाद्विश्वव्यचा इत्यादिभिस्तृतीयः । इदमुत्तरात्सुवरित्यादिभिश्चतुर्थः । इयमुपरि मतिरित्यादीभिः पञ्चमः । प्राच्यादय उर्ध्वान्ताः पञ्च दिशः । तासु दिक्षु सर्वास्वनेन पञ्चविधग्रहणेन समृद्धिं प्राप्नुवन्ति । एकैकस्मिन्पर्याये सोमांशुसंख्यां विधत्ते —

नवनव गृह्यन्त इति । शिरोवस्थितेषु सप्तसुच्छिद्रेष्वधोवस्थितयोश्च द्वयोश्छिद्रयोः संचरन्तः प्राणा नवसंख्याकाः । नवांशुग्रहणेन तान्यजमानेषु स्थापयति (न्ति) । अस्य ग्रहणस्य कालं विधत्ते —

प्रायणीय इति । संवत्सरसत्रस्य प्रथममहः प्रायणीयं, चरममहरुदयनीयं, तयोरुभयोर्गृह्णीयात् । तथा सति तेषां ग्रहाणां प्राणरूपत्वात्प्राणैरेव संवत्सरमुपक्रम्य प्राणैरेव समापितवन्तो भवन्ति । कालान्तरं विधत्ते —

दशमेऽहन्निति । संवत्सरसत्रस्य द्वादशाहविकृतित्वात्तदीयान्यहान्यत्र प्रयोक्तव्यानि । तेषु यद्दशममहस्तस्पिन्प्राणग्रहान्गृह्णीयात् । वामदेव्याख्यस्य साम्नः कया निश्चित्र आ भुवदित्येषा योनिः । दशमेऽहनि तुतां योनिं परित्यज्यान्यस्यामृचि तत्साम गीयते । तथा सति वामदेव्यं स्वयोनेश्च्यवत इति यतू, एतेनापराधेन प्रजाः प्राणेभ्यो यन्त्यपगच्छन्ति । तत्र प्राणग्रहाणां प्राणरूपत्वाद्दशमेऽहनि तेषां ग्रहणेन पर्जाः प्राणेभ्यो नापगच्छन्ति ।

अत्र विनियोगसंग्रहः —

“त्वे गवामयने पात्रेऽतिग्राह्यग्रहणं भवेत् ।

अयं पुरो भुवः प्राणग्रहाणां पञ्च मन्त्रकाः ॥

सोमांशवो नव नव ग्राह्याः पर्यायपञ्चके ।

कया नश्चित्र एतस्या योनेर्भ्रष्टं तु साम तत् ।

अग्निं नर इति ह्यत्र गीयते दशमेऽहनि” ॥ इति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

दशमोऽनुवाकः ॥ १० ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ तृतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति - त्वे क्रतुमपि वृञ्जन्तीत्येकां त्रिष्टुभमनुद्रुत्य उपयामगृहीतोसीति यजुषा ॥ त्वे तव । 'सुपां सुलुक्' इति शे आदेशः । क्रतुं कर्म पूजादिकं विश्वे सर्वेऽपि वृञ्जन्ति सकृदनुष्ठाय संस्थापयन्ति । तत्र द्विरनुष्ठानं, तेनैते स्मः अस्मदादीनां विलक्षणानां यज्ञकर्मणि वर्तमानानां सः स्वभाव इति । ये त्रिरनुतिष्ठन्ति ते ऊमाः अवितारस्सर्वस्य अस्मत्तोपि विलक्षणाः देवा भवन्ति, देवानां स स्वभाव इति । तस्मादस्माभिः द्वितीयः प्राजापत्यग्रहो गृह्यते इति । त्रिरिति । एकवाक्ये पदात्परत्वाभावाद्भवन्तीति न निहन्यते । अवतेरौणादिके मत्प्रत्यये 'ज्वरत्वर' इत्यादिना ऊठ् । तस्मात्स्वादोः पूर्वस्मात् प्राजापत्यात् स्वादीयः स्वादुतरमेतत् स्वादुना दध्यादिना संसृज संसृजामि । पुरुषव्यत्ययः, 'द्व्यचोतस्तिङः' इति संहितायां दीर्घत्वम् । अतस्त्वमपि हे प्रजापते ग्रह एव वा । मधु मधुनः फलस्य साधनमेतत्कर्म मधुना कर्मफलेन सुष्ठु अभियोधि आभिमुख्येन संसृज । 'वा छन्दसि' इत्यपित्त्वाभावेनाङित्त्वात् 'अङितश्च' इति धिभावः, 'उतो वृद्धिः' इति व्यत्ययेन न क्रियते, 'अन्येषामपि दृश्यते' इति उकारस्य संहितायां दीर्घत्वम्, 'सुञः' इति षत्वम् ॥
2 उपयामगृहीतोसीत्यादि ॥ गतम् ॥
3 अनेन गृहीत्वा परिमृज्य सादयति - एष ते योनिः प्रजापतये त्वेत्यादि ॥ 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
4 प्राणग्रहान् गृह्णातीत्यादि ब्राह्मणम् ॥ एषां मन्त्रास्त्वनन्तरकाण्डे भविष्यन्ति । तत्रायं प्रयोगक्रमः - सन्नद्धस्य राज्ञो नवांशून् प्राच आयातयति 'अयं पुरोभुवः' इति । 'अयं दक्षिणा विश्वकर्मा' इति नव दक्षिणा आयातयति । 'अयं पश्चाद्विश्वव्यचाः' इति नव प्रतीच आयातयति । 'इदमुत्तरात्सुवः' इति नवोदीच आयातयति । 'इयमुपरि मतिः' इति नवोपरिष्टात्प्रदक्षिणं पर्यायातयति । तानपानभृद्भिः प्रत्यूहति 'प्राची दिशाम्' इति । वाचयति 'पितरः पितामहाः' इति, ये पुरस्ताद्भवन्ति । अथ 'दक्षिणा दिशाम्' इति ये दक्षिणतो भवन्ति । अथ 'प्रतीची दिशाम्' इति ये पश्चाद्भवन्ति । अथ 'उदीची दिशाम्' इति य उत्तरतो भवन्ति । अथ 'ऊर्ध्वा दिशाम्' इति य उपरिष्टात्प्रदक्षिणं पर्याता भवन्ति ॥
5 एतावद्वा इत्यादि ॥ एतावदेवास्मिन् जगति पुनरेते ग्रहाः स्तोमास्त्रिवृदादयः, छन्दांसि गायत्र्यादीनि, पृष्ठानि सामानि रथन्तरादीनि । एतदात्मका एते ग्रहाः एतावदेवास्ति सर्वमवरुन्धे ॥
6 ज्येष्ठा वा इत्यादि ॥ गतम् । विदामक्रन् । विदेर्लुङि 'अभ्युत्सादयाम्' इत्यादौ आम्प्रत्ययो निपात्यते, 'मन्त्रे घस' इत्यादिना अनुप्रयुज्यमानस्य च्लेर्लुक् ॥
7 पञ्च गृह्यन्ते इत्यादयो विधयः । नियतमेव नवांशवो गृह्यन्ते । नव वा इति । सप्त शीर्षण्याः, द्वाववाञ्चौ । यजमानेषु दधतीति । सत्रविषयत्वाद्बहुवचनम् ॥
8 क्व पुनरेते ग्रहाः गृहीतव्या इत्याह - प्रायणीये चेत्यादि ॥ एते प्रायणीयोदयनीययोरेव नियुक्ता गृह्यन्ते । 'दशमेहंस्तदु रात्रिसत्रेष्वग्निष्टोम आयातयति वा गृह्णीयादगदो हैव भवति' इत्याचार्याः ॥
9 प्राणेभ्य इत्यादि - प्राणेभ्यः प्रजायन्ति उपगच्छन्ति तदा, यदा वामदेव्यं साम योनेश्च्यवते । कदा पुनस्तद्योनेश्च्यवते? आह - दशमेऽहन्नित्यादि । गतम् । 'वामदेवाड्ड्यड्ड्यौ' ॥
इति तृतीये पञ्चमे दशमोनुवाकः ॥