पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
( अथ तृतीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः ) ।
अतिग्राह्यप्राणनामग्रहा दशम् ईरिताः ।
अथेकादशे पाशुकहौत्रोपयोगिमन्त्रा उच्यन्ते । तत्र ब्राह्मणग्रन्थे तृतीयकाण्डे षष्ठप्रपाठकेऽञ्जन्ति त्वामध्वरे देवयन्त इत्यत्र पाशनुकहोत्रमन्त्राः प्रायेणोक्ताः । अवशि-ष्टास्तु मन्त्रा इहामिधीयन्ते । तत्राष्टमिर्यन्त्रैरुत्तरवेदिं प्रत्याग्निं प्रणयेत् । तेषु प्रथममन्त्रमाह —
प्र देव देव्येति । हे ऋत्विग्यजमाना जातवेदसमुत्पन्नस्य जगतो वेदितारं देवं देव्या प्रकाशरूपया विवेकयुक्तया धिया प्रकर्षेण भरत पोषयत । सोऽपि जातवेदा आनुषगनुषक्त आदरयुक्तो नोऽस्माकं हव्या वक्षद्धवींषि वहतु ।
अयमु ष्य प्रेति । अयमेव स्यः सोऽग्निर्यज्ञार्थमुत्तरवेदिं प्रति प्रकर्षेण नीयते । कीदृशोऽग्निः । देवानात्मन इच्छतीति देवयुः । होता होमस्य निष्पादकः । रथो न योः रथ इव यवयिता पृथक्कर्ता । यथा रथः स्वस्मिन्नारूढं पुरुषं भूमिष्ठेभ्यः पृथक्कृत्य ग्रामे नयति तथाऽयमग्निः स्वस्मिन्हुतं हविरितरेभ्यो हविर्भ्यः पृथक् कृत्य देवेषु नयति । अभीवृतो यजमानैराभिमुख्येन स्वीकृतः । घृणीवान्रश्मियुक्तः । तादृशोऽग्निस्त्मना चेतति स्वयमेव यजमानभक्तिं जानाति ।
तृतीयमन्त्रपाठस्तु —
अयमग्निरिति । अयं प्रणीयमानोऽग्निर्जन्मनो जन्ममात्रेणोरुष्यति प्रबुद्धो भवितुमिच्छति । अमृतादिव । यथा पीतेनामृतेन मरणरहितः प्रवर्तते तद्वत् । किंचायं देवो जीवातवे जीवनौषधाय सहसश्चित्सहीयान्कृतो बलवतोऽप्यतिप्रबलः कृतः । यदाऽयमग्निः प्रबलो भवति तदा स्वयमपि विनाशरहितो जीवति यजमानमपि यज्ञनिष्पादनेन जीवयतीत्यर्थः । चतुर्थमन्त्रपाठस्तु —
इडायास्त्वेति । हे जातवेदाऽग्ने हव्याय वोढवे हवींषि वोढुं त्वां वयं (नि) धीमहि नितरं स्थापयामः । कुत्रेति तदुच्यते — पृथिव्या अध्युपरि नाभा नाभिसदृश आहवनीयायतने । तच्चाऽऽयतनमिडापदसदृशं, यथा गोरूपाया इडाया पदं घृताहुतियुक्तं तादृशे स्थाने स्थापयामः ।
पञ्चममन्त्रपाठस्तु —
अग्ने विश्वेमिरिति । विश्वेभिर्देवैः स्वनीक सर्वेऽपि देवा अस्य सेनारूपास्तादृश हेऽग्ने प्रथमो देवानां मध्ये मुख्यस्त्वं योनिं सीद स्थानं प्राप्नुहि । कीदृशं योनिम् । ऊर्णावन्तं, यथा कम्बलास्तरणोपेतो देशो मृदुस्तथाऽयं सेव्यस्तादृशं, कुलायिनं, यथा पक्षिणां नीडः सम्यङ्गनिर्मित एवमयमपि तादृशं, घृतवन्तं घृताहुत्याधारभूतम् । यद्वाऽऽहवनीयाख्यं कुलायोपेतं घृताहुतियुक्तं यज्ञं सवित्रेऽनुष्ठात्रे यजमानाय साधु नय सम्यक्समाप्तिं गमय । षष्ठमन्त्रमाह —
सीद होतरिति । हे होतहोमनिष्पादक चिकित्वानभिजस्त्वं स्वकीयस्थान
उत्तरवेदिरूपे सीदोपविश । यज्ञं चेमं सुकृतस्य योनौ पुण्यकर्मणो योग्यस्थाने सादय स्थापय । देवान्वेति कामयत इति देवावीर्देवप्रिय इत्यर्थः । तादृशस्त्वं देवान्हविषा यजासि पूजयसि । हेऽग्ने यजमाने बृहद्वयो धा दीर्घमायुः स्थापय । सप्तममन्त्रमाह —
नि होतेति । होतृषदने होमनिष्पादकस्य योग्यस्थान उत्तरवेदिरूपेऽयमग्नि र्नितरामसदत्सम्यगुयविष्टवान् । कीदृशोऽग्निः । होता देवानामाह्वाता । विदानः स्थानाभिज्ञः । त्वेषो दीप्तिमान् । दीदिवान्देवेभ्यो हविषो दाता । सुदक्षोऽत्यन्त कुशलः । अदब्धव्रतप्रमतिरहिंसित कर्मणि प्रकृष्टा मतिर्यस्य स तथाविधः । वसिष्ठोऽतिशयेन वासयिता । सहस्रसंख्याकानि हवींषि भरति पोषयतीति सहस्रंभरः । शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्यासौ शुचिजिह्वः अष्टममन्त्रमाह —
त्वं दूतस्त्वमिति । हेऽग्ने त्वं देवानां दूतोऽसि । अग्निर्देवानां दूत आसीदिति श्रुत्यन्तरात् । त्वमु नः परस्पास्त्मेवास्माकमतिशयेन पालकः । त्वं वस्यस्त्वमेवास्मिन्कर्मणि निवासयोग्यः । हे वृषभ देवश्रेष्ठ, आ प्रणेता त्वमेवाऽऽगत्य यागस्य प्रवर्तकः, तो (नस्तो) कस्यास्मदपत्यस्य तनूनां तने शरीराणां विस्तारेऽप्रयुच्छन्प्रमादमकुर्वन्दीद्यत्तमोनिवारणेन दीपयन् । अथवा देवेभ्यो हविर्ददानो गोपाः पालकः सन्बोधि बुध्यस्वाप्रमत्तो भवेत्यर्थः । एतेऽष्टौ मन्त्रा उत्तरवेदिं प्रतयग्निप्रणयनकाले होत्रा पठनीयाः ।
अथाग्निमन्थने पञ्च मन्त्रा पठनीयाः ।
अभि त्वेति । हे सवितर्देव प्रेरक परमेश्वर वार्याणां निवारणीयानां विघ्ना नामीशानं विनिवारणे समर्थं त्वामभि प्राप्तुमिति शेषः । सदावऽन्सर्वदा हे रक्षक भागं भजनीयमग्निमीमहे त्वत्प्रसादात्प्राप्नुमः । अथ द्वितीयो मन्त्रः —
मही द्यौरिति । महति द्यौः पृथिवि चेत्येते उभे नोऽस्मदीयमिमं यज्ञं मिमिक्षतामाज्यहोमादिभिर्द्रव्यैः सेक्तुमिच्छां कुरुताम् । भरीमभिर्भरणैर्नोऽस्मान्पिपृतां पूरयताम् । अथ तृतीयः —
त्मामग्न इति । हेऽग्नेऽथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत निःशेषेण मथितवान् । अत एव पञ्चमकाण्डे ब्राह्मणमाम्नातम् — ‘पुष्क
रपर्णे ह्येनमुपश्चितमविन्दत्” इति । कीदृशात्पुष्करात् । मूर्ध्न उत्तमाङ्गवत्प्रश स्तात् । विश्वस्य वाधतः सर्वस्य जगतो वाहकात् । इदं हि पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनादिद्वारा जगन्निवहति । अथ चतुर्थः —
तमु त्वेति । हेऽग्नेऽथर्वणः पुत्रो दध्यङ्नामक ऋषिस्तमु त्वेधे तमु त्वां प्रज्वलितवान् । कीदृशं त्वां वृत्रहणं वैरिविनाशनं पुरंदरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम् । अत पञ्चमः —
तमु त्वा पाथ्य इति । हेऽग्ने पाथ्यनामकः कश्विदृषिस्तमु त्वा समीधे तमेव त्वां सम्यक्त्रज्वलितवान् । कीदृशः पाथ्यः । वृषा श्रेष्ठः । कीदृशं त्वां, दस्युहन्तमं तस्कराणामतिशयेन हन्तारम् । रणेरणे धनंजय तेषु तेषु संग्रामेषु धनस्य जेतारम् । अथ वह्नौ जात ऋग्द्वयं होता पठेत तत्रैयं प्रथमा —
उत ब्रुवन्त्विति । उत जन्तवः सर्वेऽपि प्राणिनः परस्परमेवं ब्रुवन्तु किमिति, अग्निरुदजनीति । कीदृशोऽग्निः । वृत्रहा शत्रुघाती, रणेरणे धनंजयश्च । अथ द्वितीया —
आ य हस्त इति । खादिनं हविषां भक्षकम् । यमग्निं हस्ते न पाणाविव कस्मिंश्चित्पात्र आबिभ्राति आ निधानादृत्विजो धारयन्ति । कमिव । जातं शिशुं न सद्यः समुत्पन्नं शिशुमिव । कीदृशमग्निं, विशां स्वध्वरं प्रजानां सम्यगहिंसकम् । तमग्निं पुरतः पश्याम इति शेषः ।
अस्याग्नेः पूर्वाग्निना सह मेलने प्र देवमित्याद्याः षडृचो होता पठेत् । तत्र प्रथममाह —
प्र देवं देवेति । देववीतये देवानां हविःस्वादनाय देवं दीप्तिमन्तमग्निं भरत हे ऋत्विजः प्रकर्षेण पोषयत । कीदृशं देवं, वसुवित्तममतिशयेन हविर्लक्षणधनाभिज्ञम् । स च देव आगत्य स्वे योनौ पूर्वग्निरूपे स्वकीये स्थाने निषीदतु नितरामुप समीपे प्रविष्टो भवतु । द्वितीयामाह —
आ जातमिति । हे ऋत्विज इदानीं जातं प्रमयतिथिरूपमेनमग्निं पूर्वमेव स्थिते जातवेदसि शिशीत शयानं कुरुत । कीदृशे जातवेदसि । स्योने सुखरूपे । कीदृशं जातम् आ गृहपतिं सर्वतो गृहस्य पालकम् । तृतीयामाह —
अग्निनाऽग्निरिति । पूर्वसिद्धेनाग्निना सहेदानीमानीतोऽग्निः समिध्यते सम्यक्प्रज्वाल्यते । कीदृशोऽग्निः । कविर्विद्वान् । गृहपतिर्गृहस्य पालयिता । युवा नित्यतरुणः । हव्यं वहतीति हव्यवाट् । जुहूरेवाऽऽस्यं मुखं यस्यासौ जुह्वास्यः । चतुर्थीमाह —
त्व ह्यग्ने अग्निनेति । हे नूतनाग्ने त्वं पूर्वेणाग्निना सह सम्यक्प्रज्वाल्यसे । कीदृशस्त्वम् । विप्रा ब्राह्मणात्यभिमानी सत्विनाशराहित्येन सर्वदाऽवास्थितः । सखा सखिवदितरस्मिन्नग्नौ प्रीतियुक्तः । कीदृशेनाग्निना । विप्रेण सता सख्या च पञ्चमीमाह —
तं भर्जयन्तेति हे ऋत्विजस्तमिमं मथितमग्निं मर्जयन्त शोधयत । कीदृशं, सुक्रतुं सुष्ठु क्रतुनिष्पादकम् । आजिषु संग्रामेषु पुरोयावानं पुरतो गन्तारम् । स्वेषु क्षयेषु यजमानसंबन्धिषु स्वकीयगृहेषु वाजिनमन्नसंपादकम् । षष्ठीमाह —
यज्ञेन यज्ञमिति । देवा देवत्वं प्रेप्सवो यजमाना यज्ञेन यज्ञसाधनेन नूतनेनाग्निना सह यज्ञं यज्ञसाधनं पुरातनमग्निमयजन्त पूजितवनः । तानि मिलितानि अग्निद्वयसाध्यानि (धर्माणि) सुकृतानि प्रथमान्यासन्मुख्यान्यभवन् । ते (ह) गहिमानस्ते खलु महान्तो यजमानानाकं सचन्ते स्वर्गं समवयन्तियत्र स्वर्गे पूर्वे यजमानाः साध्याः साध्यफलोपेता देवाः सन्ति ये ( दे ) वा भूत्वा वर्तन्ते, तं नाकं सेव (सच)न्त इति पूर्वत्रान्वयः ।
अत्र विधियोगसंग्रहः —
अग्निप्रणयेन ह्यष्टौ प्र देवमिति मन्त्रकाः ॥
अथाग्निमन्थने पञ्च जाते बह्नावुत द्वयम् ।
प्र देऽग्न्यौर्मेलने षट् स्युर्मन्त्रा अत्रैकविंशतिः ॥
एकादशोऽनुवाकः ॥ ११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे पञ्चमः प्रपाठकः ॥ ५ ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि-
राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि-
पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयः काण्डः समाप्तः ॥ ३ ॥
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यसहितकृष्णयजुर्वेदीयतैत्तिरीयसंहितायास्तृतीयः काण्डः ॥ ३ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च तृतीयः काण्डः ॥
……………………………………………………………………………………………………………