प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.5.7.1 TS 3.5.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽछिन॒त् तस्यै॒ रसः॒ परा॑ऽपत॒थ् स पृ॑थि॒वीं प्रावि॑श॒थ्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याऽऽ*हु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त् तं गाय॒त्र्याऽ ह॑र॒त् तस्य॑ प॒र्णम॑च्छिद्यत॒ तत् प॒र्णो॑ऽभव॒त् तत् प॒र्णस्य॑ पर्ण॒त्वं ॅयस्य॑ पर्ण॒मयी॑ जु॒हू - [ ]
पदपाठः (Word-by-word)
व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । वै । गा॒य॒त्रि॒यै । शिरः॑ । अ॒च्छि॒न॒त् । तस्यै᳚ । रसः॑ । परेति॑ । अ॒प॒त॒त् । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् । सः । ख॒दि॒रः । अ॒भ॒व॒त् । यस्य॑ । खा॒दि॒रः । स्रु॒वः । भव॑ति । छन्द॑साम् । ए॒व । रसे॑न । अवेति॑ । द्य॒ति॒ । सर॑सा॒ इति॒ स - र॒साः॒ । अ॒स्य॒ । आहु॑तय॒ इत्या - हु॒त॒यः॒ । भ॒व॒न्ति॒ । तृ॒तीय॑स्याम् । इ॒तः । दि॒वि । सोमः॑ । आ॒सी॒त् । तम् । गा॒य॒त्री । एति॑ । अ॒ह॒र॒त् । तस्य॑ । प॒र्णम् । अ॒च्छि॒द्य॒त॒ । तत् । प॒र्णः । अ॒भ॒व॒त् । तत् । प॒र्णस्य॑ । प॒र्ण॒त्वमिति॑ पर्ण - त्वम् । यस्य॑ । प॒र्ण॒मयीति॑ पर्ण - मयी᳚ । जु॒हूः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः ) ।

षष्ठेऽनुवाके संप्रोक्ता योक्त्रबन्धादिमन्त्रकाः ।

अथ सप्तमेऽनुवाके दर्शपूर्णमासाङ्गभृतानां स्रुचां वृक्षविशेषा विधीयन्ते ।

तत्र स्रुववृक्षं विधत्ते —

वषट्कारो वा इति । वषट्काराभिमानी देवः केनापि विरोधेन गायत्रियाः शिरश्चिच्छेद । तदा तस्या गायत्र्यश्छिन्नप्रदेशाज्जलं भूमौ पतित्वा खदिरो वृक्षोऽभवत् । अतः स्रुवः खादिरः कर्तव्यः । तथा सति स्रुवेण यद्यदवद्यति तत्सर्व छन्दोरसेनावृत्तं भवति । ततोऽस्य यजमानस्याऽऽहुतयः सरसा भवन्ति ।

अथ जुहूणा वृक्षविशेषं विधत्ते —

तृतीयस्यामिति । इतो भूलोकादारभ्य गण्यमानो यो द्युलोकस्तृतीयो भवति तत्र सोमः पूर्वमासीत् । ते च गायत्री समाहरत् । आहरणप्रकारः कद्रूश्चेत्यनुवाके प्रञ्चितः । तस्याऽऽह्रियमाणस्य सोमस्यैकं पर्णं भूमौ पतित्वा पला-

शवृक्षोऽभवत् । पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम । तादृशेन पर्णवृक्षेण जुहूं निष्पादयेत् । तथा सति जुहूणा हूयमाना आहुतयः सर्वाः सोमसंबन्धिन्यो भवन्ति । देवाश्च ता आहुतीः प्रीतिपुरःसराः सेवन्ते ।

ते पर्णवृक्षं प्रकारान्तरेण प्रशंसति —

देवा वा इति । यदा देवा ब्रह्मतत्त्वविषये परस्परं संवादं सहसि कृतव न्तस्तदानीं पर्णवृक्षाभिमानी देवस्तद्वृक्षच्छायायामुपविष्टानां देवानां वचनमशृणोत् । तस्मात्सुश्रवा इति तस्य नाम संपन्नम् । यस्मादयं वृक्षः सुश्रवास्तस्माज्जुह्णास्तन्मयत्वे सति यजमानः शोभनं स्तुतिरूपमेव वाक्यं सर्वदा शृणोति न तु कदाचिदपि पापं श्लोकं निन्दावचनं शृणोति ।

अथ जुह्णाः पर्णमयीत्वं दृष्टान्तार्थमनुवदन्नुपभृतोऽश्वत्थवृक्षं विधत्ते

ब्रह्म वै पर्ण इति । देवैरुच्यमानस्य ब्रह्मणः श्रवणापर्णवृक्षोऽपि ब्रह्मैव । वैश्यजात्याभिमानित्वेन मरुतां सृष्टत्वान्मरुतोऽपि विड्रूपाः । कृष्यादिपरैर्वैश्यै संपादित-दन्नमपि मरुद्रूपम् । “मरुतां वा एतदोजो यदश्वत्थः” इति श्रवणादश्वत्थस्य मारुतत्वम् । एवं स्थिते सति यो यजमानो जुहूं पर्णमयीं करोति स एवोपभृतमाश्वत्थस्य कुर्यात् । उभयस्मिन्कृते सति जुहूरूपेण ब्रह्मणैवाश्वत्यस्वामिना मरुतां विड्रूपान्नमवरुद्धं भवति । किंच, ब्राह्मणजातिमेव वैश्यजातावधिकत्वेन स्थापयति । तदुभयमपि प्रकारान्तरेण प्रशंसति —

राष्ट्रं वै पर्ण इति । पर्णवृक्षस्वामिब्राह्मणजातिनिवासस्थानत्वादाष्ट्रत्वं पर्ण रूपत्वम् । मरुद्देवताद्वाराऽश्वत्थस्य विड्रूपत्वम् । अतः षूर्वोक्तरीत्या जुहूपभृतोर्वृक्ष द्वयनि-ष्पादितयोः सत्योर्ब्रह्मरूपं राष्ट्रमश्वत्थरूपायां विश्यधिकत्वेन स्थापितं भवति ।

अथ ध्रुवाया विकङ्कतवृक्षं विधत्ते —

प्रजापतिर्वा इति । प्रजापतिना पूर्वहुताऽऽहुतिर्यत्र स्थिता तस्माद्देशाद्वि कङ्कतवृक्ष उदपद्यत । तस्माद्विकङ्कताद्यज्ञसाधनभूतात्प्रजा असृजत । तस्माद् ध्रुवां वैकङ्कती कुर्यात् । तथा सत्यस्य यजमानस्याऽऽहुतयः प्रतिष्ठिता भवन्ति । किंचायं प्रजा उत्पादयति । स्रुग्वृक्षविधिमुपसंहरति —

एतद्वै स्रुचामिति । खादिरत्वं पर्णमयीत्वप्राश्वत्थत्वं वैकङ्कतत्वं चेति

यदतदेव क्रमेण स्रुचां [स्रुव] जुहूपभृदूध्रुवाणां मुख्यं स्वरूपम् । तथा सति यस्य यजमानस्य स्रुच एवंरूपा भवन्ति, एनं यजमानं गवाश्वादिरूपाणि सर्वाण्यपि प्राप्नुवन्ति । किंचास्य यजमानस्याऽऽत्मन्स्वोदरे किंचिदप्यपत्यमपरूपं विरुद्धस्वरूपोपेतं न जायते, किंतु सर्वमप्यपत्यं सुखरूपमेव जायते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

सप्तमोऽनुवाकः ॥ ७ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ स्रुचां लक्षणार्थं ब्राह्मणं - वषट्कार इत्यादि ॥ स्तुत्यर्थमुत्प्रेक्षेयं क्रियते । वषट्क्रियतेऽनेनेति वषट्कारः, वौषट्छब्दः, थाथादिनोत्तरपदान्तोदात्तत्वम् । खादिर इति । बिल्वादित्वादण् । छन्दसामिति । सर्वच्छन्दःप्रकृतित्वाद्गायत्र्याः । गतमन्यत् ॥
2 तृतीयस्यां दिवि इतः तृतीये लोके द्युसंज्ञे सोम आसीत् । पर्णं पत्रं सोमाभरणं रभसेनाच्छिद्यत । पर्णमयीति । 'नित्यं वृद्धशरादिभ्यः' इति मयट् । सौम्या इति । सोममाहरन्त्याः गायत्र्याः ऋक्पर्णात्मिकया जुह्वा हुतत्वात् । आसोमाड्ड्यण्' । अस्याहुतिर्देवा जुषन्ते प्रीयमाणा भजन्ते ॥
3 ब्रह्मन् ब्रह्मविषये अवदन्त वादं कृतवन्तः । भासने आत्मनेपदम् । ब्रह्मवादश्रवणं पूरणवर्णात्मकजुहूसंबन्धेन पापशब्दानामश्रवणम् ॥
4 ब्रह्म वै पर्ण इति ॥ ब्राह्मणजातिः तदेव पर्णः ; प्रशस्तत्वसामान्यात् । विट् वैश्यजातिः, सा मरुतः; कृष्यादिप्रयासबहुलत्वात् विशोन्नत्वात् । अपि च - विश उपरि ब्रह्माध्यूहति स्थापयति ॥
5 प्रजापतिर्वा इत्यादि ॥ गतम् । वैकङ्कती । पूर्ववदञ् ॥
6 स्रुचामिति ॥ स्रुक्साहचर्यात् स्रुवोपि स्रुगिति व्यपदिश्यते । नास्येति । अस्य यजमानस्य आत्मन् शरीरे अपरूपं रूपशून्यं न जायते रूपवानेव भवतीति ॥
इति तृतीये पञ्चमे सप्तमोनुवाकः ॥