प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.5.7.2 TS 3.5.7.2
-र्भव॑ति सौ॒म्या अ॒स्याऽऽ*हु॑तयो भवन्ति जु॒षन्ते᳚ऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत् प॒र्ण उपा॑ऽ*शृणोथ् सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पꣳ श्लोकꣳ॑ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नं॒ ॅविण्मा॑रु॒तो᳚ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्या-श्व॑त्-थ्युप॒भृद्- ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्धेऽथो॒ ब्रह्मै॒ - [ ]
पदपाठः (Word-by-word)
भव॑ति । सौ॒म्याः । अ॒स्य॒ । आहु॑तय॒ इत्या - हु॒त॒यः॒ । भ॒व॒न्ति॒ । जु॒षन्ते᳚ । अ॒स्य॒ । दे॒वाः । आहु॑ती॒रित्या - हु॒तीः॒ । दे॒वाः । वै । ब्रह्मन्न्॑ । अ॒व॒द॒न्त॒ । तत् । प॒र्णः । उपेति॑ । अ॒शृ॒णो॒त् । सु॒श्रवा॒ इति॑ सु - श्रवाः᳚ । वै । नाम॑ । यस्य॑ । प॒र्ण॒मयीति॑ पर्ण - मयी᳚ । जु॒हूः । भव॑ति । न । पा॒पम् । श्लोक᳚म् । शृ॒णो॒ति॒ । ब्रह्म॑ । वै । प॒र्णः । विट् । म॒रुतः॑ । अन्न᳚म् । विट् । मा॒रु॒तः । अ॒श्व॒त्थः । यस्य॑ । प॒र्ण॒मयीति॑ पर्ण-मयी᳚ । जु॒हूः । भव॑ति । आश्व॑त्थी । उ॒प॒भृतित्यु॑प - भृत् । ब्रह्म॑णा । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अथो॒ इति॑ । ब्रह्म॑ ।
पदसंख्या: 50