प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.5.8.1 TS 3.5.8.1
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्यो᳚ऽग्नि जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वाऽपे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ ( ) विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्.न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ॥
पदपाठः (Word-by-word)
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा-प॒त॒ये॒ । त्वा॒ । ज्योति॑ष्मते । ज्योति॑ष्मन्तम् । गृ॒ह्णा॒मि॒ । दक्षा॑य । द॒क्ष॒वृध॒ इति॑ दक्ष - वृधे᳚ । रा॒तम् । दे॒वेभ्यः॑ । अ॒ग्नि॒जि॒ह्वेभ्य॒ इत्य॑ग्नि - जि॒ह्वेभ्यः॑ । त्वा॒ । ऋ॒ता॒युभ्य॒ इत्यृ॑ता॒यु - भ्यः॒ । इन्द्र॑ज्येष्ठेभ्य॒ इतीन्द्र॑-ज्ये॒ष्ठे॒भ्यः॒ । वरु॑णराजभ्य॒ इति॒ वरु॑णराज-भ्यः॒ । वाता॑पिभ्य॒ इति॒ वाता॑पि-भ्यः॒ । प॒र्जन्या᳚त्मभ्य॒ इति॑ प॒र्जन्या᳚त्म-भ्यः॒ । दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । अपेति॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । अपेति॑ । जिज्या॑सतः । ज॒हि॒ । अपेति॑ । यः । नः॒ । अ॒रा॒ती॒यति॑ । तम् । ज॒हि॒ । प्रा॒णायेति॑ प्रा - अ॒नाय॑ । त्वा॒ । अ॒पा॒नायेत्य॑प-अ॒नाय॑ । त्वा॒ । व्या॒नायेति॑ वि - अ॒नाय॑ । त्वा॒ । स॒ते । त्वा॒ । अस॑ते । त्वा॒ । अ॒द्भ्य इत्य॑त् - भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ ( ) । विश्वे᳚भ्यः । त्वा॒ । भू॒तेभ्यः॑ । यतः॑ । प्र॒जा इति॑ प्र - जाः । अक्खि॑द्राः । अजा॑यन्त । तस्मै᳚ । त्वा॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । वि॒भू॒दाव्.न्न॒ इति॑ विभु - दाव्.न्ने᳚ । ज्योति॑ष्मते । ज्योति॑ष्मन्तम् । जु॒हो॒मि॒ ॥
पदसंख्या: 64
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे पञ्चमप्रपाठकेऽष्ठमोऽनुवाकः ) ।

इष्ट्यङ्गानां स्रुचां वृक्षाः सप्तमे समुदीरिताः ।

अथाष्टमे दधिग्रहमन्त्रा उच्यन्ते ।

कल्पः — “उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीति दधि गृहीत्वा” इति । पाठस्तु —

उपयामगृहीत इति । हे दधिग्रह उपयामेन पार्थिवपात्रेण गृहीतोऽसि । ज्यो-तिष्मते प्रजापतये ज्योतिष्मन्तं त्वा गृह्णामि । दक्षान्कर्मकुशलान्वर्धयतीति दक्षवृधू, तस्मै दक्षवृधे दक्षाय दक्षनाम्ने रातं पूर्वं प्रजापतिना दत्तम् । किंच देवेभ्यो रातं दत्तम् । कीदृशे-भ्योऽग्निजिह्वेभ्यः । अग्निरेव जिह्वा येषां तेऽग्निजिह्वाः । ऋतं सत्यमात्मन इच्छन्तीत्यृ-तायवः । इन्द्रो ज्येष्ठो येभ्यस्त इन्द्रज्येष्ठाः । वरुणो राजा येषां ते वरुणराजानः । वातं वायुमाप्नुवन्तीति वातापिनो वाय्वाहारा इत्यर्थः । पर्जन्य एवा ऽत्मा येषां ते पर्जन्या-त्मानो वृष्ट्यादिसहिष्णव इत्यर्थः । ईदृशेभ्यो देवेभ्यो रातं त्वां गृह्णामि । तथा दिवे द्युलोकप्राप्त्यर्थं त्वां गृह्णामि । एवमन्तरिक्षाय त्वा पृथिव्यै त्वेत्युभयं योज्यम् ।

कल्पः — “अपेन्द्र द्विषतो मन इति हरति” इति । पाठस्तु —

अपेन्द्र द्विषत इति । विविधो हि शत्रुर्द्विषञ्जिज्यासन्नरातीयश्चेति । यजमानस्य विद्यमानं द्रव्यादिकं यो विनाशयति स द्विषन्नित्युच्यते । यस्तु द्रव्यमपहर्तुं शक्तोऽप्यस्य वयोहानिं मरणमेवेच्छति स जिज्यासन्नित्युच्यते । रातिर्दा नमरातिरदानं तदात्मन इच्छति देयत्वेन प्राप्तं किमपि न ददातीत्यर्थः । तादृशोऽरातीयन्नित्युच्यते । हे इन्द्र त्वं द्विषतः शत्रोर्मनोऽपजहि । तथा जिज्यासतः शत्रोर्मनोऽपजहि । तथा यो नोऽस्मा-कमरातिमिच्छति तमपजाहि ।

कल्पः — “प्राणाय त्वाऽपानाय त्वेति जुहोति” इति । पाठस्तु —

प्राणाय त्वेति । हे दधिग्रह प्राणाय प्राणप्रीत्यै त्वां जुहोमि । एवमपानाय त्वेत्यादिषु योज्यम् । प्राण ऊर्ध्ववृत्तिः । अपानोऽवाग्वृत्तिः । व्यानो मध्यवृत्तिः । शास्त्री-यमार्गवर्ती पुरुषः संस्तद्विपरीतोऽसन् । आप ओषधयश्च प्रसिद्धः । ओषधीभ्य इत्यत्रा-नाम्नातमपि त्वेतिपदमनुषञ्जनीयम् । विश्वानि भूतानि सर्वप्राणेनस्तेषां सर्वेषां प्रीत्यै त्वां जुहोमि । किंच, यतः प्रजापतेः सकाशात्प्रजाः सर्वा अक्खिदाः खेद्ररहिता उत्पन्नाः स प्रजापतिर्विभुत्मैश्वर्यं ददातीति विभूदावा । सर्वप्रकाशकत्वेन ज्योतिष्मन्तं त्वां जुहोमि ।

अत्र विनियोगसंग्रहः —

उपया दधि गृह्णात्यपेन्द्रेति हरति ग्रहम् ।

प्राणायेति जुहोत्येवं त्रयो मन्त्रा इहेरिताः ॥

एते च मन्त्रा यमग्ने पृत्सु मर्त्यमित्येतस्मान्मन्त्रादूर्ध्वं द्रष्टव्याः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राजापत्यं दधिग्रहं गृह्णाति - उपयामगृहीतोसीत्यादि ॥ 'इयं वा उपयामः' तयैव गृहीतोसि । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । प्रजापतये ज्योतिष्मते दीप्तिमते हे दधिग्रह त्वां दीप्तिमन्तं गृह्णामि । दक्षाय सर्वोत्पादनसमर्थाय दक्षवृधे दक्षयोरुत्साहवतोरध्वर्युयजमानयोर्वर्धयित्रे; अन्तरितत्वादिदोषापनयनात् । 'यां वा अध्वर्युश्च यजमानश्च देवतामन्तरितः' इति ब्राह्मणम् । वृधेर्ण्यन्तात्क्विप्, 'बहुलमन्यत्रापि' इति णिलुक् । ग्रहो विशेष्यते - रातं दत्तं देवेभ्यः । प्रजापतेस्सर्वदेवतात्मकत्वात् तस्मै गृहीतं सर्वदेवेभ्यो दत्तं भवतीति । देवा विशेष्यन्ते - अग्निजिह्वेभ्यः अग्निः जिह्वास्थानीयो येषां तेभ्यः । ऋतायुभ्यः ऋतं यज्ञः सत्यं वा आयुर्येषां तेभ्यः । इन्द्रज्येष्ठेभ्यः इन्द्रो ज्येष्ठः श्रेष्ठो येषां तेभ्यः । वरुणराजभ्यः वरुणो राजा येषां तेभ्यः । वातापिभ्यः वातवद्व्याप्नुवद्भ्यः वातमाविश्य व्याप्नुवद्भ्यः अमूर्तेभ्यः पितृभ्यः । उक्तमुत्तरपदाद्युदात्तत्वम् । पर्जन्यात्मभ्यः वर्षणस्वभावेम्बः । एभ्यः सर्वेभ्यो यो दत्तो भवति, तं त्वां प्रजापतये गृह्णामीति ॥
2 आदायोत्तिष्ठति - दिव इत्यादि ॥ दिवाद्यथं त्वामुद्यच्छामीति शेषः । 'ऊडिदम्' इति दिवश्चतुर्थ्या उदात्तत्वम् । 'उदात्तयणः' इति पृथिव्याः ॥
3 पूर्वया द्वारा निष्क्रामति - अपेन्द्रेति पुरोष्णिहा ॥ तृतीयस्याष्टाक्षरत्वात्, (द्वितीयस्य) । हे इन्द्र द्विषतः, योस्मान् द्वेष्टि भवन्तं वा, तस्य मनः अपजहि अपगमय नाशय । किञ्च - जिज्यासतः योस्मान् क्षपयितुमिच्छति, तस्य च मनोपजहि । ताननेन पापेन जहि । यद्वा - जिज्यासतः अस्माकं शत्रूनपजहि जिज्यासतश्च मनोऽपजहि । अरातीयति अदानमिच्छति योस्मभ्यं न किञ्चिदपि दातुमिच्छति, तं चादानशीलं शत्रुं जहि । अरातिशब्दात् 'छन्दसि परेच्छायाम्' इति क्यच् ॥
4 अथ जुहोति - प्राणाय त्वेत्यादिभिः । सर्वे निगदसिद्धाः । प्राणादयश्शब्दा व्युत्पादिताः । सते । 'शतुरनुमः' इति चतुर्थ्या उदात्तत्वम् । अद्भ्यः । 'ऊडिदम्' इति । अक्खिद्रा अदीनाः ऊर्जिताः अजायन्त । खिद दैन्ये, औणादिको रक्प्रत्ययः, छान्दसो वर्णोपजनः । तस्मै त्वा प्रजापतये विभूदाव्ने विभूनां हतामर्थानां दात्रे । 'आतो मनिन्' इति वनीप् 'अन्येषामपि दृश्यते' इति संहितायां पूर्वपदस्य दीर्घत्वम् । ज्योतिष्मत इत्यादि । व्याख्यातम् । तादृशाय प्राणाद्यर्थं त्वां जुहोमीति ॥
इति तृतीये पञ्चमे अष्टमोनुवाकः ॥