प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.5.9.1 TS 3.5.9.1
यां ॅवा अ॑द्ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात् प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚भ्य ए॒व निह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णां॒ ॅयस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑सां॒ ॅवा ए॒तद्दे॒वता॑नाꣳ रू॒पं ॅयदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा᳚ण्ये॒वैनꣳ॑ रू॒पाणि॑ पशू॒नामुप॑तिष्ठन्त उपया॒मगृ॑हीतो - [ ]
पदपाठः (Word-by-word)
याम् । वै । अ॒द्ध्व॒र्युः । च॒ । यज॑मानः । च॒ । दे॒वता᳚म् । अ॒न्त॒रि॒त इत्य॑न्तः - इ॒तः । तस्यै᳚ । एति॑ । वृ॒श्च्ये॒ते॒ इति॑ । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । द॒धि॒ग्र॒हमिति॑ दधि - ग्र॒हम् । गृ॒ह्णी॒या॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता᳚भ्यः । ए॒व । नीति॑ । ह्नु॒वा॒ते॒ इति॑ । ज्ये॒ष्ठः । वै । ए॒षः । ग्रहा॑णाम् । यस्य॑ । ए॒षः । गृ॒ह्यते᳚ । ज्यैष्ट्य᳚म् । ए॒व । ग॒च्छ॒ति॒ । सर्वा॑साम् । वै । ए॒तत् । दे॒वता॑नाम् । रू॒पम् । यत् । ए॒षः । ग्रहः॑ । यस्य॑ । ए॒षः । गृ॒ह्यते᳚ । सर्वा॑णि । ए॒व । ए॒न॒म् । रू॒पाणि॑ । प॒शू॒नाम् । उपेति॑ । ति॒ष्ठ॒न्ते॒ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः ) ।

दधिग्रहस्य ये मन्त्रा अष्टमे ते प्रकीर्तिताः ।

अथ नवमेऽनुवाके ते मन्त्रा व्याख्यातव्याः ।

तत्राऽऽदौ दधिग्रहं विधत्ते —

यां वा अध्वर्युरिति । सोमयागे देवताबाहुल्यादध्वर्युयजमानो प्रमादेन

यस्या देवताया अन्तरायं कुर्वाते तस्या देवताया उभौ विच्छिन्नौ भवतस्तस्या देवताया अपराधिनावित्यर्थः । अतोऽपराधपरिहाराय प्रजापतिदेवताकं दधिग्रहं गृह्णीयात् । प्रजापतिश्च स्रष्टृत्वात्सर्वदेवतारूपः । अतस्तस्मै ग्रहं दत्त्वा सर्वदेवताभ्योऽन्नवन्तावित्वेवं निह्नवमपलापं कुरुतः । तेनापलापेन देवता द्वेषं मुञ्चति ।

अस्य ग्रहस्य सर्वग्रहेभ्यः प्राथम्यं विधत्ते —

ज्येष्ठो वा इति । ग्रहाणां मध्ये ज्येष्ठः प्रथमभावी । तस्मात्प्रथमं गृह्णीयादित्यर्थः । यस्य यजमानस्यैष ग्रहः प्रथमं गृह्यते स यजमानो ज्यैष्ठ्यमेव गच्छति सर्वेषां यजमानानां मध्ये मुख्यत्वं प्राप्नोत्येव ।

तस्य ग्रहस्य प्रजापतिदेवताकत्वं प्रशंसति —

सर्वासां वा इति । एष प्रजापतिदेवताको ग्रह इति यदेतत्सर्वासामेव देवतानां स्वरूपम् । प्रजापतेः सर्वदेवतात्मकत्वात् । अतो यस्य यजमानस्यैष गृह्यत एनं यजमानं पशूनां सर्वाणि रूपाणि गवाश्वदीनि प्राप्नुवन्ति ।

अत्र ग्रहणमन्त्रस्य पूर्वभागे ज्योतिर्विशेषणं प्रशंसति —

उपयामगृहीत इति । एनं यजमानं समानानां मध्ये ज्योतिरेव तेजोयुक्तमेव करोति ।

उत्तरभागे प्रजापत्यवयवभूतानां देवतानां प्रतिपादकान्यग्निजिह्वेभ्य इत्या-दीनि नवसंख्याकानि चतुर्थ्यन्तपदानि, तेषां तात्पर्यं संगृह्य दर्शयति —

अग्निजिह्वेभ्य इति । हरणमन्त्रगतस्यापजहीत्येतस्य तात्पर्यं दर्शयति —

अपेन्द्र द्विषत इति । होममन्त्रपूर्वभागे प्राणादिपदतात्पर्यं दर्शयति —

प्राणाय त्वेति । प्रजापतिपदतात्पर्यं दर्शयति —

तस्मै त्वेति । एनं दधिग्रहम् ।

अत्र काम्यान्गुणविशेषांस्त्रीन्विधते —

आज्यग्रहं गृह्णीयादिति । स्पष्टोऽर्थः ।

अत्र मीमांसा ।

चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम् —

नित्ये (त्य) नैमित्तिकत्वे वा नित्यतैव दधिग्रहे ।

देवान्तरायाज्ज्यैष्ठ्याय स्यादस्योभयरूपता ॥

निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो नहि ।

अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता ॥

ज्योतिष्टोमे श्रूयते — “यां वै कांचिदध्वर्युर्यजमानश्च देवतामन्तरितस्तस्या आवृश्च्येते यत्प्रजा त्यं दधिग्रहं गृह्णाति शमयत्येवैनाम्” इति । सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसद्भावात् । देवतान्म रायेण तद्देवताक्षोभ-मुपन्यस्य ग्रहेण समाधानाभिधानादन्तरायो निमित्तं ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम् — “ज्येष्ठो वा एष ग्रहाणाम्” इति । ज्येष्ठत्वं नाम प्रशस्तत्वं, तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्माद्धेतुद्वयबलादु-भयात्मक इति चेन्मैवम् । देवतान्तरायस्यनिमित्तत्वात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयेत, यच्छब्दो वाऽन्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । “यदि रथं तरसामा सोमः स्मादैद्रवायवाग्रान्गृह्णीयाद्भिन्ने जुहोति यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते” इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्केवल नित्यत्वमव दधिग्रहस्योचितम् । देवताक्षोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेऽर्थवादः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथास्य दधिग्रहस्य ब्राह्मणम् - यां वा इत्यादि ॥ यां देवतामन्तरितः अन्तर्हितां कुरुतः, लुप्तभागत्वात् । तस्यै तस्यास्सकाशादेव तौ आवृश्च्येते हियेते । तत्परिहारार्थं प्राजापत्यं दधिग्रहं गृह्णीयात् । प्रजापतिस्सर्वदेवतात्मकः सर्वदेवतोपकारार्थमेवान्तरायस्य निह्नवः कृतो भवति योध्वर्युयजमानाभ्यामेकस्यै देवतायै हविरन्तरायः कृतः, सर्वदेवतानां दधिग्रहद्वारेण हविर्लाभहेतुस्सम्पन्न इति ॥
2 ज्येष्ठो वा इत्यादि ॥ ज्येष्ठो वृद्धतमः । 'वृद्धस्य च' इति ज्यादशेः । ज्येष्ठकनिष्ठयोर्वृद्धत्वं ज्यैष्ठ्यम् । गुणवचने ष्यञ् । सर्वासामित्यादि । गतम् ॥
3 अथ मन्त्रपदानि व्याचष्टे - उपयामगृहीत इति ॥ ज्योतिः द्युतिमन्तं समानानां मध्ये यजमानं करोति । एतावतीः एतावत्यः या अग्निजिह्वाद्याः पर्जन्यान्ताः एतावत्प्रमाणाः भ्रातृव्याभिभूत्यै । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥
4 आज्यग्रहमित्यादयः काम्या विधयः । तेजस्कामस्य । 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम्, 'अतः कृकमि' इत्यादिना सत्वम् । तेजो वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । एवं

सर्वत्र । 'सावेकाचः' इत्यूर्जस्तृतीयाया उदात्तत्वम् । अस्मा इत्यन्वादेशेऽशनुदात्तः । 'बर्हिषो बर्हिषि गृह्णीयात् । अंशूनुपसंगृह्य सोमं गृह्णीयात्' इत्याचार्याः ॥

इति तृतीये पञ्चमे नवमोनुवाकः ।