-ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैनꣳ॑ समा॒नानां᳚ करोत्यग्नि-जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनꣳ॒॒ सर्वा᳚भ्यो गृह्णा॒त्यपे᳚न्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्.न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहो॒मी - [ ]
पदपाठः (Word-by-word)
अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । ज्योति॑ष्मते । ज्योति॑ष्मन्तम् । गृ॒ह्णा॒मि॒ । इति॑ । आ॒ह॒ । ज्योतिः॑ । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । अ॒ग्नि॒जि॒ह्वेभ्य॒ इत्य॑ग्नि - जि॒ह्वेभ्यः॑ । त्वा॒ । ऋ॒ता॒युभ्य॒ इत्यृ॑ता॒यु - भ्यः॒ । इति॑ । आ॒ह॒ । ए॒ताव॑तीः । वै । दे॒वताः᳚ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा᳚भ्यः । गृ॒ह्णा॒ति॒ । अपेति॑ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः॑ । इति॑ । आ॒ह॒ । भ्रातृ॑व्यापनुत्त्या॒ इति॒ भ्रातृ॑व्य - अ॒प॒नु॒त्त्यै॒ । प्रा॒णायेति॑ प्र - अ॒नाय॑ । त्वा॒ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । त्वा॒ । इति॑ । आ॒ह॒ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑माने । द॒धा॒ति॒ । तस्मै᳚ । त्वा॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । वि॒भू॒दाव्.न्न॒ इति॑ विभु - दाव्.न्ने᳚ । ज्योति॑ष्मते । ज्योति॑ष्मन्तम् । जु॒हो॒मि॒ ।