प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.1.2.3 TS 4.1.2.3
पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ॥ आ॒गत्य॑ वा॒ज्यद्ध्व॑नः॒ सर्वा॒ मृधो॒ विधू॑नुते । अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ॥ आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वं । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं ॅव॒यं ॥ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मा ऽन्तरि॑क्षꣳ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ- [ ]
पदपाठः (Word-by-word)
पु॒रु॒त्रेति॑ पुरु - त्रा । च॒ । र॒श्मीन् । अन्विति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । एति॑ । त॒ता॒न॒ ॥ आ॒गत्येत्या᳚ - गत्य॑ । वा॒जी । अद्ध्व॑नः । सर्वाः᳚ । मृधः॑ । वीति॑ । धू॒नु॒ते॒ ॥ अ॒ग्निम् । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । म॒ह॒ति । चक्षु॑षा । नीति॑ । चि॒की॒ष॒ते॒ ॥ आ॒क्रम्येत्या᳚ - क्रम्य॑ । वा॒जि॒न्न् । पृ॒थि॒वीम् । अ॒ग्निम् । इ॒च्छ॒ । रु॒चा । त्वम् ॥ भूम्याः᳚ । वृ॒त्वाय॑ । नः॒ । ब्रू॒हि॒ । यतः॑ । खना॑म । तम् । व॒यम् ॥ द्यौः । ते॒ । पृ॒ष्ठम् । पृ॒थि॒वी । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । आ॒त्मा । अ॒न्तरि॑क्षम् । स॒मु॒द्रः । ते॒ । योनिः॑ ॥ वि॒ख्यायेति॑ वि - ख्याय॑ । चक्षु॑षा । त्वम् । अ॒भीति॑ । ति॒ष्ठ॒ ।
पदसंख्या: 50