प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.1.2.5 TS 4.1.2.5
-ग्निं मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वा᳚ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ ॅव्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं ॅविदा॑नं ॥ आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑ऽर॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्-व॑र्णो अ॒ग्निर्नाऽभि॒मृशे॑ त॒नुवा॒ जर्.हृ॑षाणः ॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्. ह॒व्यान्य॑क्रमीत् । दध॒द् रत्ना॑नि दा॒शुषे᳚ ॥ परि॑ त्वाऽग्ने॒ पुरं॑ ॅव॒यं ॅविप्रꣳ॑ सहस्य धीमहि । धृ॒षद् व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ ( ) भङ्गु॒राव॑तः ॥ त्वम॑ग्ने॒ द्युभि॒स्त्व-मा॑शुशु॒क्षणि॒स्त्व-म॒द्भ्यस्त्व-मश्म॑न॒स्परि॑ । त्वं ॅवने᳚भ्य॒ स्त्वमोष॑धीभ्य॒ स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥
पदपाठः (Word-by-word)
अ॒ग्निम् । मन॑सा । घृ॒तेन॑ । प्र॒ति॒क्ष्यन्त॒मिति॑ प्रति - क्ष्यन्त᳚म् । भुव॑नानि । विश्वा᳚ ॥ पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त᳚म् । व्यचि॑ष्ठम् । अन्न᳚म् । र॒भ॒सम् । विदा॑नम् ॥ एति॑ । त्वा॒ । जि॒घ॒र्मि॒ । वच॑सा । घृ॒तेन॑ । अ॒र॒क्षसा᳚ । मन॑सा । तत् । जु॒ष॒स्व॒ ॥ मर्य॑श्री॒रिति॒ मर्य॑-श्रीः॒ । स्पृ॒ह॒यद्व॑र्ण॒ इति॑ स्पृह॒यत् - व॒र्णः॒ । अ॒ग्निः । न । अ॒भि॒मृश॒ इत्य॑भि - मृशे᳚ । त॒नुवा᳚ । जर्.हृ॑षाणः ॥ परीति॑ । वाज॑पति॒रिति॒ वाज॑ - प॒तिः॒ । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ॥ दध॑त् । रत्ना॑नि । दा॒शुषे᳚ ॥ परीति॑ । त्वा॒ । अ॒ग्ने॒ । पुर᳚म् । व॒यम् । विप्र᳚म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ॥ धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत् - व॒र्ण॒म् । दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ । भे॒त्तार᳚म् ( ) । भ॒ङ्गु॒राव॑त॒ इति॑ भङ्गु॒र - व॒तः॒ ॥ त्वम् । अ॒ग्ने॒ । द्युभि॒रिति॒ द्यु - भिः॒ । त्वम् । आ॒शु॒शु॒क्षणिः॑ । त्वम् । अ॒द्भ्य इत्य॑त् - भ्यः । त्वम् । अश्म॑नः । परि॑ ॥ त्वम् । वने᳚भ्यः । त्वम् । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । त्वम् । नृ॒णाम् । नृ॒प॒त॒ इति॑ नृ-प॒ते॒ । जा॒य॒से॒ । शुचिः॑ ॥
पदसंख्या: 70