म॑हि॒ना दिवं॑ मि॒त्रो ब॑भूव स॒प्रथाः᳚ । उ॒त श्रव॑सा पृथि॒वीं ॥ मि॒त्रस्य॑ चर्.षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिं । द्यु॒म्नं चि॒त्रश्र॑वस्तमं ॥ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः । सु॒बा॒हुरु॒त शक्त्या᳚ ॥ अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्द्ध्वा ति॑ष्ठ ध्रु॒वा त्वं ॥ वस॑व॒स्त्वा ऽऽच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् रु॒द्रास्त्वाऽऽ च्छृ॑न्दन्तु॒ ( ) त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्व-दा॑दि॒त्यास्त्वा ऽऽच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्-विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा आ च्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥
पदपाठः (Word-by-word)
म॒हि॒ना । दिव᳚म् । मि॒त्रः । ब॒भू॒व॒ । स॒प्रथा॒ इति॑ स - प्रथाः᳚ ॥ उ॒त । श्रव॑सा । पृ॒थि॒वीम् ॥ मि॒त्रस्य॑ । च॒र्॒.ष॒णी॒धृत॒ इति॑ चर्.षणि - धृतः॑ । श्रवः॑ । दे॒वस्य॑ । सा॒न॒सिम् ॥ द्यु॒म्नम् । चि॒त्रश्र॑वस्तम॒मिति॑ चि॒त्रश्र॑वः - त॒म॒म् ॥ दे॒वः । त्वा॒ । स॒वि॒ता । उदिति॑ । व॒प॒तु॒ । सु॒पा॒णिरिति॑ सु - पा॒णिः । स्व॒ङ्गु॒रिरिति॑ सु - अ॒ङ्गु॒रिः ॥ सु॒बा॒हुरिति॑ सु - बा॒हुः । उ॒त । शक्त्या᳚ ॥ अप॑द्यमाना । पृ॒थि॒वि॒ । आशाः᳚ । दिशः॑ । एति॑ । पृ॒ण॒ ॥ उदिति॑ । ति॒ष्ठ॒ । बृ॒ह॒ती । भ॒व॒ । ऊ॒द्र्ध्वा । ति॒ष्ठ॒ । ध्रु॒वा । त्वम् ॥ वस॑वः । त्वा॒ । एति॑ । छृ॒न्द॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । रु॒द्राः । त्वा॒ । एति॑ । छृ॒न्द॒न्तु॒ ( ) । त्रैष्टु॑भेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । आ॒दि॒त्याः । त्वा॒ । एति॑ । छृ॒न्द॒न्तु॒ । जाग॑तेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । विश्वे᳚ । त्वा॒ । दे॒वाः । वै॒श्वा॒न॒राः । एति॑ । छृ॒न्द॒न्तु॒ । आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् ॥