सं॒ ॅवर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्य प्र॑युच्छन्न् ॥ इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ निक्र॑न् पूर्व॒चितो॑ निका॒रिणः॑ । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतां ते॒ अनि॑ष्टृतः ॥ क्ष॒त्रेणा᳚ऽग्ने॒ स्वायुः॒ सꣳ र॑भस्व मि॒त्रेणा᳚ऽग्ने मित्र॒धेये॑ यतस्व । स॒जा॒तानां᳚ मद्ध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ॥ अति॒ - [ ]
पदपाठः (Word-by-word)
सं॒ॅवर॑ण॒ इति॑ सं - वर॑णे । भ॒व॒ । नः॒ ॥ स॒प॒त्न॒हेति॑ सपत्न-हा । नः॒ । अ॒भि॒मा॒ति॒जिदित्य॑भिमाति - जित् । च॒ । स्वे । गये᳚ । जा॒गृ॒हि॒ । अप्र॑युच्छ॒न्नित्यप्र॑ - यु॒च्छ॒न्न् ॥ इ॒ह । ए॒व । अ॒ग्ने॒ । अधीति॑ । धा॒र॒य॒ । र॒यिम् । मा । त्वा॒ । नीति॑ । क्र॒न्न् । पू॒र्व॒चित॒ इति॑ पूर्व - चितः॑ । नि॒का॒रिण॒ इति॑ नि - का॒रिणः॑ ॥ क्ष॒त्रम् । अ॒ग्ने॒ । सु॒यम॒मिति॑ सु - यम᳚म् । अ॒स्तु॒ । तुभ्य᳚म् । उ॒प॒स॒त्तेत्यु॑प-स॒त्ता । व॒द्र्ध॒ता॒म् । ते॒ । अनि॑ष्टृतः ॥ क्ष॒त्रेण॑ । अ॒ग्ने॒ । स्वायु॒रिति॑ सु - आयुः॑ । समिति॑ । र॒भ॒स्व॒ । मि॒त्रेण॑ । अ॒ग्ने॒ । मि॒त्र॒धेय॒ इति॑ मित्र - धेये᳚ । य॒त॒स्व॒ ॥ स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् । म॒द्ध्य॒म॒स्था इति॑ मद्ध्यम-स्थाः । ए॒धि॒ । राज्ञा᳚म् । अ॒ग्ने॒ । वि॒ह॒व्य॑ इति॑ वि - ह॒व्यः॑ । दी॒दि॒हि॒ । इ॒ह ॥ अतीति॑ ।