निहो॒ अति॒ स्रिधो ऽत्यचि॑त्ति॒-मत्यरा॑तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिन्दाः᳚ ॥ अ॒ना॒धृ॒ष्यो जा॒तव॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्-दी॑दिही॒ह । विश्वा॒ आशाः᳚ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ॥ बृह॑स्पते सवितर्बो॒धयै॑नꣳ॒॒ सꣳशि॑तं चिथ्सं त॒राꣳ सꣳ शि॑शाधि । व॒र्द्धयै॑नं मह॒ते सौभ॑गाय॒- [ ]
पदपाठः (Word-by-word)
निहः॑ । अतीति॑ । स्रिधः॑ । अतीति॑ । अचि॑त्तिम् । अतीति॑ । अरा॑तिम् । अ॒ग्ने॒ ॥ विश्वा᳚ । हि । अ॒ग्ने॒ । दु॒रि॒तेति॑ दुः - इ॒ता । सह॑स्व । अथ॑ । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । स॒हवी॑रा॒मिति॑ स॒ह - वी॒रा॒म् । र॒यिम् । दाः॒ ॥ अ॒ना॒धृ॒ष्य इत्य॑ना - धृ॒ष्यः । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ । अनि॑ष्टृतः । वि॒राडिति॑ वि - राट् । अ॒ग्ने॒ । क्ष॒त्र॒भृदिति॑ क्षत्र - भृत् । दी॒दि॒हि॒ । इ॒ह ॥ विश्वाः᳚ । आशाः᳚ । प्र॒मु॒ञ्चन्निति॑ प्र - मु॒ञ्चन्न् । मानु॑षीः । भि॒यः । शि॒वाभिः॑ । अ॒द्य । परीति॑ । पा॒हि॒ । नः॒ । वृ॒धे ॥ बृह॑स्पते । स॒वि॒तः॒ । बो॒धय॑ । ए॒न॒म् । सꣳशि॑त॒मिति॒ सं - शि॒त॒म् । चि॒त् । स॒तं॒रामिति॑ सं - त॒राम् । समिति॑ । शि॒शा॒धि॒ ॥ व॒द्र्धय॑ । ए॒न॒म् । म॒ह॒ते । सौभ॑गाय ।