प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.1.9.2 TS 4.1.9.2
-ऽग्निश्चे॒दं क॑रिष्यथः ॥ दृꣳह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒ताऽसि॑ । जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन्न् ॥ मित्रै॒तामु॒खां त॑पै॒षा मा भे॑दि । ए॒तां ते॒ परि॑ ददा॒म्यभि॑त्त्यै ॥ द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥ पर॑स्या॒ अधि॑ सं॒ॅवतोऽव॑राꣳ अ॒भ्या - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । इ॒दम् । क॒रि॒ष्य॒थः॒ ॥ दृꣳह॑स्व । दे॒वि॒ । पृ॒थि॒वि॒ । स्व॒स्तये᳚ । आ॒सु॒री । मा॒या । स्व॒धयेति॑ स्व - धया᳚ । कृ॒ता । अ॒सि॒ ॥ जुष्ट᳚म् । दे॒वाना᳚म् । इ॒दम् । अ॒स्तु॒ । ह॒व्यम् । अरि॑ष्टा । त्वम् । उदिति॑ । इ॒हि॒ । य॒ज्ञे । अ॒स्मिन्न् ॥ मित्र॑ । ए॒ताम् । उ॒खाम् । त॒प॒ । ए॒षा । मा । भे॒दि॒ ॥ ए॒ताम् । ते॒ । परीति॑ । द॒दा॒मि॒ । अभि॑त्त्यै ॥ द्र्‌व॑न्न॒ इति॒ द्रु - अ॒न्नः॒ । स॒र्पिरा॑सुति॒रिति॑ स॒र्पिः - आ॒सु॒तिः॒ । प्र॒त्नः । होता᳚ । वरे᳚ण्यः ॥ सह॑सः । पु॒त्रः । अद्भु॑तः ॥ पर॑स्याः । अधीति॑ । सं॒ॅवत॒ इति॑ सं - वतः॑ । अव॑रान् । अ॒भि । एति॑ ।
पदसंख्या: 50