त॑र । यत्रा॒हमस्मि॒ ताꣳ अ॑व ॥ प॒र॒मस्याः᳚ परा॒वतो॑ रो॒हिद॑श्व इ॒हाऽ*ग॑हि । पु॒री॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒ऽभि शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्र ज्यो॑ति॒र्वि भा॑हि ॥ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वꣳ हर॑सा॒ तप॒न् ( ) जात॑वेदः शि॒वो भ॑व ॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वं । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां ॅयोनि॑मि॒हाऽऽस॑दः ॥
पदपाठः (Word-by-word)
त॒र॒ ॥ यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥ प॒र॒मस्याः᳚ । प॒रा॒वत॒ इति॑ परा - वतः॑ । रो॒हिद॑श्व॒ इति॑ रो॒हित् - अ॒श्वः॒ । इ॒ह । एति॑ । ग॒हि॒ ॥ पु॒री॒ष्यः॑ । पु॒रु॒प्रि॒य इति॑ पुरु - प्रि॒यः । अग्ने᳚ । त्वम् । त॒र॒ । मृधः॑ ॥ सीद॑ । त्वम् । मा॒तुः । अ॒स्याः । उ॒पस्थ॒ इत्यु॒प - स्थे॒ । विश्वा॑नि । अ॒ग्ने॒ । व॒युना॑नि । वि॒द्वान् ॥ मा । ए॒ना॒म् । अ॒र्चिषा᳚ । मा । तप॑सा । अ॒भीति॑ । शू॒शु॒चः॒ । अ॒न्तः । अ॒स्या॒म् । शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ । वीति॑ । भा॒हि॒ ॥ अ॒न्तः । अ॒ग्ने॒ । रु॒चा । त्वम् । उ॒खायै᳚ । सद॑ने । स्वे ॥ तस्याः᳚ । त्वम् । हर॑सा । तपन्न्॑ ( ) । जात॑वेद॒ इति॒ जात॑-वे॒दः॒ । शि॒वः । भ॒व॒ ॥ शि॒वः । भू॒त्वा । मह्य᳚म् । अ॒ग्ने॒ । अथो॒ इति॑ । सी॒द॒ । शि॒वः । त्वम् ॥ शि॒वाः । कृ॒त्वा । दिशः॑ । सर्वाः᳚ । स्वाम् । योनि᳚म् । इ॒ह । एति॑ । अ॒स॒दः॒ ॥