प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.10.1 TS 6.1.10.1
यत् क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑अर्घꣳ॒॒ सोमं॑ कु॒र्यादगो॑अर्घं॒ ॅयज॑मान॒-मगो॑अर्घमद्ध्व॒र्युं गोस्तु म॑हि॒मानं॒ नाव॑ तिरे॒द् गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद् गोअ॒र्घमे॒व सोमं॑ क॒रोति॑ गोअ॒र्घं ॅयज॑मानं गोअ॒र्घम॑द्ध्व॒र्युं न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया᳚ क्रीणाति॒ सत॑पसमे॒वैनं॑ क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒वै - [ ]
पदपाठः (Word-by-word)
यत् । क॒लया᳚ । ते॒ । श॒फेन॑ । ते॒ । क्री॒णा॒नि॒ । इति॑ । पणे॑त । अगो॑अर्घ॒मित्यगो᳚ - अ॒र्घ॒म् । सोम᳚म् । कु॒र्यात् । अगो॑अर्घ॒मित्यगो᳚ - अ॒र्घ॒म् । यज॑मानम् । अगो॑अर्घ॒मित्यगो᳚-अ॒र्घ॒म् । अ॒द्ध्व॒र्युम् । गोः । तु । म॒हि॒मान᳚म् । न । अवेति॑ । ति॒रे॒त् । गवा᳚ । ते॒ । क्री॒णा॒नि॒ । इति॑ । ए॒व । ब्रू॒या॒त् । गो॒अ॒र्घमिति॑ गो - अ॒र्घम् । ए॒व । सोम᳚म् । क॒रोति॑ । गो॒अ॒र्घमिति॑ गो - अ॒र्घम् । यज॑मानम् । गो॒अ॒र्घमिति॑ गो - अ॒र्घम् । अ॒द्ध्व॒र्युम् । न । गोः । म॒हि॒मान᳚म् । अवेति॑ । ति॒र॒ति॒ । अ॒जया᳚ । क्री॒णा॒ति॒ । सत॑पस॒मिति॒ स - त॒प॒स॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । हिर॑ण्येन । क्री॒णा॒ति॒ । सशु॑क्र॒मिति॒ स - शु॒क्र॒म् । ए॒व ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याचिख्यासुरादावनभिमतं निराकृत्य स्वाभिमतं पणनमन्त्रमुत्पाद्य विनियुङ्क्ते —

‘यत्कलया ते शफेन ते क्रीणानीति पणेतागोअर्घ सोमं कुर्यादगोअर्घं यजमानमगो अर्घमध्वर्युं गोस्तु महिमानं नाव तिरेद्गवा ते क्रीणानीत्येव ब्रूयाद्गोअर्घमेव सोमं करोति गोअर्घं यजमानं गोअर्घमध्वर्युं न गोर्महिमानमव तिरति” [सं. का. ६ प्र. १ अ.१०] इति।

कलाऽल्पादप्यल्पो यः गोऽप्यवयवलेशः। कलया शफेन वा पणने दोषत्रयं स्यात्। सोमो गोरूपं मूल्यं नार्हति। यजमानस्तद्दातुं न शक्नोति। अध्वर्युश्च न दापयतीत्येवं सोमयजमानाध्वर्यवो गोअर्घरहिता इति दोषत्रयम्। किंच सोमो गोमूल्य इत्युक्ते गोर्महिमाऽधिको भवेत्। तं नावजानीयात्। परमते त्वसाववज्ञातो भवेत्। गवा ते क्रीणानीत्यनेन मन्त्रेण सर्वं समाहितं भवति।

यथेयं सोमक्रयणी गौस्तथैवाजादीनि नव द्रव्याणि क्रयसाधनाति क्रमेण विधत्ते —

“अजया क्रीणाति सतपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सशुक्रमेवैनं क्रीणाति धेन्वा क्रीणाति वह्निर्वा अनड्वान्वह्निनैव वह्निं यज्ञस्य क्रीणाति मिथुनाभ्यां क्रीणाति मिथुनस्यावरुद्ध्यै वाससा क्रीणाति सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति दश संपद्यन्ते दक्षाक्षरा विराडन्नं विराड्विराजैवान्नद्यमव रुन्धे” (सं. का. ६ प्र. १ अ.१०) इति।

मन्त्रत्रयं स्पष्टार्थत्वबुद्ध्योपेक्ष्य चतुर्थमन्त्रस्याभिप्रायमाह —

“तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्निह्नुत आत्मनोऽनाव्रस्काय” (सं. का. ६ प्र. १ अ.१०) इति।

तत्तेन मन्त्रपाठेन पशुभ्योऽजाप्रभृतीन्निह्नुतेऽपलपति। न ह्यजा परमार्थतस्तपसस्तनूर्भवति, नापि प्रजापतेर्वर्णर्णो रूपम्। तेनापलापेनाजोपचरिता भवति। स चोपचारः स्वस्यापराधराहित्याय क्रियते।

पशूपचारवेदनं प्रशंसति –

‘गच्छति श्रियं प्र पशूनाप्नोति य एवं वेद” (सं. का. ६ प्र. १ अ.१०) इति।

दत्तस्य हिरण्यस्य पुनरादानं विधित्सुर्हिरण्यप्रकाशकं द्वितीयमन्त्रं स्पष्टार्थमपि पुनरनुसंधत्ते —

“शुक्रं ते शुक्रेण क्रीणामीत्याह यथायदुरेवैतत्” (सं. का. ६ प्र. १ अ. ५) इति।

पुनरादानं विधत्ते —

“देवा वै येन हिरण्येन सोममक्रीणन्तदभीषहा पुनराऽददत को हि तेजसा विक्रेष्यत इति येन हिरण्येन सोमं क्रीणीयत्तदभीषहा पुनरा ददीत तेज एवाऽऽत्मन्धत्ते” (सं. का. ६ प्र. १ अ. ११) इति।

अभीषहा बलात्कारेण। को हीत्यादिर्तेवाभिप्रायः।

मन्त्रद्वयं व्याचष्टे –

अस्मे ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमाने दधाति तमसा सोमविक्रयिणमर्पयति” (सं. का. ६ प्र. १ अ. १०) इति।

विपक्षे बाधपुरःसरं ग्रथनमन्त्रमुत्पादयति —

“यदनुपग्रथ्य हन्याद्दन्दशूकास्ता सर्पा स्युरिदपह सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्याहादन्दशूकास्ता समा सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति” (सं. का. ६ प्र. १ अ. ५) इति।

कृष्णया विध्येत्। तां समां तं संवत्सरं कृत्स्नम्। इदमहमित्यादिमन्त्रेण सर्पदंशस्य परिहारः।

इमं मन्त्रं व्याचष्टे —

“स्वान भ्राजेत्याहैते वा अमुष्मिँल्लोके सोममरक्षन्तेभ्योऽधि सोममाऽहरन्” (सं. का. ६ प्र. १ अ. १०) इति।

अधि अधिकं प्रभूतम्।

विपक्षस्वपक्षयोर्दोषतत्समव[मा]धाने दर्शयति —

“यदेतेभ्यः सोमक्रयणान्नानुदिशेदक्रीतोऽस्य सोमः स्यान्नास्यैतेऽमुष्मिँल्लोके सोम रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति क्रीतोऽस्य सोमो भवत्येतेऽस्यामुष्मिँल्लोके सोम रक्षन्ति” (सं. का. ६ प्र. १ अ. १०) इति।

सोमं सोमयागफलम्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यत्कलयेत्यादि ।। यदि 'कलया ते क्रीणानि' इति 'शफेन ते क्रीणानि' इत्यादिशाखान्तरीयैः मूल्यपदैः सोमं पणेत । अगोअर्घं अगोमूल्यं सोमं कुर्यात् ऊनमूलं सोमं कुर्यात् । गौरर्घो मूल्यं यस्य स गोअर्घः गवा समानमहिमा । 'सर्वत्र विभाषा गोः' इति प्रकृतिभावः, न गोअर्घ अगोअर्घः ततो न्यूनमूल्यम्, तादृशं सोमं कुर्यात् तत्संबन्धाद्यजमानमध्वर्युं च । तस्मादन्यथा पणितव्यं - गवा ते क्रीणानीति । तत्रापि दोषमाह - गोस्त्विति । तुशब्दस्तत्रारुचिं द्योतयति । तदन्यथा पणेत । गोर्महिमानं महत्त्वं नावतिरेत् नावशेषयेत् सोममहिम्नः गोर्महिमानं नातिरेचयेदित्यर्थः । ततश्च सोममूल्यभूताया गोः महत्त्वं न प्रतिपादितं स्यात् । कलयेत्यादिना तु पणने गवैकदेशमल्यूता सोमस्य प्रतिपाद्यत इति गोर्महिमातिरकेस्सूचितो भवति, तन्मूल्यत्वात्सोमस्य माहात्म्यमाविष्कृतं भवति । एवं च द्वयोरपि पक्षयोर्दोषावुक्तौ ।।
2 अधुनाऽभिमतं पक्षं परिगृह्णाति - गवा ते क्रीणानित्येव ब्रूयात् । अयमेव पक्षो ज्यायान् । एवं हि सोमादयः गोअर्घाः कृता भवन्ति । ननूक्तं गोस्तु महिमानं नावतिरेदिति । सत्यमुक्तं, न गोर्महिमानमवतिरति नावशेषयति सोमाद्गोमहिमातिरेको नास्त्येवेति । तस्मान्न तत्प्रतिपादनाय यतितव्यमिति । तुल्यमहिमानावेतौ गौश्च सोमश्चेत्यभिप्रायः । 'त्रिचक्रादीनामन्तः' इति गोअर्घशब्दे उत्तरपदान्तोदात्तत्वम् ।।
3 अजयेत्यादयो विधयः ।। सतपसं सयज्ञमेव सोमं क्रीणाति । मन्त्रे 'तपसस्तनूः' इत्यजाया अभिधानात् । हिरण्येनेति । सशुक्रं सरसम् । धन्वेति । साशिरं सपोळम् । ऋषभेणेति । सेन्द्रम् । इन्द्रो हि देवर्षभः वर्षिता च कामानाम् । अनडुहेति । वह्निर्वा अनड्वान् । अनो वहतीत्यनड्वान्, पृषोदरादिः । वह्निना अनोवोढ्रा अनडुहा यज्ञस्य वोढारं सोमं क्रीणाति । 'सुपां सुलुक्' - इति द्वितीयाया लुक् । मिथुनाभ्यामिति । गतम् । वाससेति । सर्वदेवत्यत्वमुक्तम् । सर्वाभ्यो देवताभ्यः सर्व देवतार्थमेनं क्रीणाति । यद्वा - सर्व देवतासकाशादेनं क्रीणाति । दश संपद्यन्ते इत्यादि । गवा वत्सेन च सह दश भवन्त्यजादयः ।

दशाक्षरेत्यादि । व्याख्यातम् ।।

4 पशुभ्य एवेति ।। 'तपसस्तनूः' 'प्रजापतेर्वर्णः'51 इति च अजया क्रीणन् अध्वर्युः यस्मादेवं रूपयति तदध्वर्युः अजया क्रयं पशुभ्यः निह्नुते तिरस्करोति । आत्मनोनाव्रस्काय पशूनामविच्छेदाय तद्भवति । एवं विद्वान् गच्छति श्रियं, पशूंश्च प्राप्नोति । व्रश्चतेः घञ्, ' चजोः कुघिण्यतोः' इति कुत्वम्, ततो निमित्ताभावाच्छत्वं निवर्तते ।।
5 यथायजुरिति ।। उभयोरपि शुक्रादिगुणवत्त्वात् । यद्वा - 'शुक्रेण क्रीणामि' इति हिरण्येन यत्क्रयणं 'अस्मे चन्द्राणि'52 इति हिरण्यस्य च यदादानं तदुभयथा यजुप्रसिद्धमेवेति आदानमन्त्रानुसारेण क्रयमन्त्र उत्कृष्य व्याख्यायते एवं ब्राह्मणं दृष्ट्वा । सर्वान्ते हिरण्यादानमन्त्रं दृष्ट्वा तु अजया क्रयात्प्रागेव हिरण्येन क्रीयते तदानीमेव तदानीयते इति प्रतिभाति ।।
6 देवा वा इत्यादि ।। अभीषहा अभिभवेन प्रसह्य तद्धिरण्यमाददत आर्जितवन्तः । सहतेः क्विपि 'नहिवृति' इत्यादिनोपसर्गस्य दीर्घत्वम् । को हीत्यादि । को नाम तेजसा तेजो विक्रेष्यते विक्रीतं कुर्यादिति मन्यमानास्तदाददत । 'परिव्यवेभ्यः क्रियः' इत्यात्मनेपदम्, 'हि च' इति निघाताभावः । तस्मात् येनेत्वादिविधिः । आत्मन्येव तेजो धत्ते । पूर्ववत् ङेर्लोपः, नलोपप्रतिषेधश्च ।।
7 अस्मे इत्यादि ।। शुक्लामूर्णास्तुकां यजमानाय प्रयच्छन् 'अस्मे ज्योतिः' इति यदाह तेन यजमाने ज्योतिर्दधाति । कृष्णामूर्णास्तुकां सोमविक्रयिणे प्रयच्छत् 'सोमविक्रयिणि तमः'53 इति यदाह तेन तमसा सोमविक्रीयागमर्पयति तमसा अप्रकाशेन प्राप्तं करोति । 'गतिबुद्धि' इत्यादिना कर्मत्वं व्यत्ययेन न प्रवर्तते । यद्वा - अर्पयति आर्तिं गमयति । अर्तोर्गौ पुगागमः ।।
8 यदित्यादि ।। यदि कृष्णोर्णकामनुपग्रथ्य अबद्ध्वा तया यदि सोमविक्रयिणं हन्यात् तां समां तं वत्सरं प्रजा दन्दशूका दंशनशीलाः सर्पाः स्युः । दंशेर्यङ्लुगन्तात् 'यजजपदशाम्' इत्युकञ्प्रत्ययः । तस्मात् इदमहमित्यादिमन्त्रविधिः । अहं सर्पाणां दन्दशूकानां प्रजादंशनशीलानां ग्रीवाः धमनीः इदमुपग्रथ्नामीत्यनेन कृष्णोर्णुकया उपग्रथनेन उपसंगृह्य बध्नामि यथा ते दष्टुं न शक्रुवन्ति इत्येवं वदता यदुपग्रथ्नाति तेन ते अदन्दशूका भवन्ति; सोमविक्रयिणमेव तमसा मर्छूनालक्षणेन विध्यति पीडयति ।।
9 स्वानेत्यादि ।। स्वानादयोमुष्मिन् लोके सोमस्य रक्षितारः । तस्मात्तेभ्योधिसोममाहरत् आहरन्ति तदनुज्ञानादेव यजमानाः सोममात्मसात्कुर्वन्ति । एवं हि कर्तुं युज्यते । तस्मात्स्वानेत्यादिना यदेतेभ्य आकाशः तेम्यस्मोमक्रयणान् गवादीन्नानुदिशेत् अनुक्रमेण न निर्दिशेत् । यद्वा - क्रयानन्तरमेव नानुदिशेत् । अस्य यजमानस्य अक्रीत एव सोमस्स्यात् रक्षकविसंवादात् । न चास्य सोममेतेऽमुष्मिन् लोके रक्षेयुः । अमुष्मिन् लोकेसोमसंबन्धोस्य न स्यात् । तस्मात् यदेतेभ्य इत्यादि । गतम् ।।
इति षष्ठे प्रथमे दशमोनुवाकः ॥