अनुवाकः 7 TS 6.1.7

(A7)

(सत॑नुं॒ - ॅविष्ण॑व॒ इत्या॑ह - स॒मारो॑हति॒ - ध्याय॑ति॒ तद् वा॒चा - यज॑मानः स्यात् - करोति - क्रू॒रो - वेद॑)

अनुवाकः 7 - Complete Audio

TS 6.1.7 - स्वरानुगामी

0:00 0:00
PS1.1 तद्धिर॑ण्यमभव॒त् तस्मा॑द॒द्भ्यो हिर॑ण्यं पुनन्ति
PS1.2 ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद॑न॒स्थिके॑न
PS1.3 प्र॒जाः प्र॒वीय॑न्ते ऽस्थ॒न्वती᳚र्जायन्त॒ इति॒
PS1.4 यद्धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न
PS1.5 प्र॒जाः प्र वी॑यन्ते ऽस्थ॒न्वती᳚र्जायन्त
PS1.6 ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒
PS1.7 यद्-घृ॒तं तेजो॒ हिर॑ण्यमि॒यन्ते॑ शुक्र
PS1.8 त॒नूरि॒दं ॅवर्च॒ इत्या॑ह॒ सते॑जसमे॒वैनꣳ॒॒
PS1.9 सत॑नुं - [ ]
PS2.1 करो॒त्यथो॒ सं भ॑रत्ये॒वैनं॒ ॅयदब॑द्धम-वद॒द्ध्याद्-गर्भाः᳚
PS2.2 प्र॒जानां᳚ परा॒पातु॑काः स्युर्ब॒द्धमव॑ दधाति॒
PS2.3 गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्यं॑ बद्ध्नाति
PS2.4 प्र॒जानां᳚ प्र॒जन॑नाय॒ वाग्वा ए॒षा
PS2.5 यथ् सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि
PS2.6 मन॑सा॒ जव॑ते॒ तद्-वा॒चा वद॑ति
PS2.7 धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि
PS2.8 वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह
PS2.9 - [ ]
PS3.1 य॒ज्ञो वै विष्णु॑ र्य॒ज्ञायै॒वैनां॒
PS3.2 जुष्टां᳚ करोति॒ तस्या᳚स्ते स॒त्यस॑वसः
PS3.3 प्रस॒व इत्या॑ह सवि॒तृ-प्र॑सूतामे॒व वाच॒मव॑
PS3.4 रुन्धे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे
PS3.5 य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्त्ये॒ष खलु॒
PS3.6 वा अर॑क्षोहतः॒ पन्था॒ यो᳚ऽग्नेश्च॒
PS3.7 सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रा-ऽरु॑हम॒ग्नेर॒क्ष्णः
PS3.8 क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहतः॒ पन्था॒स्तꣳ
PS3.9 स॒मारो॑हति॒ - [ ]
PS4.1 वाग्वा ए॒षा यथ् सो॑म॒क्रय॑णी॒
PS4.2 चिद॑सि म॒नाऽसीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत् तस्मा᳚च्छि॒ष्टाः
PS4.3 प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि
PS4.4 मन॑सा चे॒तय॑ते॒ तद्-वा॒चा वद॑ति
PS4.5 म॒नाऽसीत्या॑ह॒ यद्धि मन॑साऽभि॒गच्छ॑ति॒ तत्
PS4.6 क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒
PS4.7 ध्याय॑ति॒ तद्-वा॒चा - [
PS4.8 ]
PS5.1 वद॑ति॒ दक्षि॑णा॒ऽसीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा
PS5.2 य॒ज्ञिया॒ऽसीत्या॑ह य॒ज्ञिया॑मे॒वैनां᳚ करोति क्ष॒त्रिया॒सीत्या॑ह
PS5.3 क्ष॒त्रिया॒ ह्ये॑षा ऽदि॑तिरस्युभ॒यत॑श्शी॒र्ष्णीत्या॑ह॒ यदे॒वाऽऽ*दि॒त्यः
PS5.4 प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒-स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒
PS5.5 स्यादय॑ता स्या॒द्यत् प॑दिब॒द्धा-ऽनु॒स्तर॑णी स्यात्
PS5.6 प्र॒मायु॑को॒ यज॑मानः स्या॒ -
PS5.7 [ ]
PS6.1 -द्यत् क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒थ्
PS6.2 स वा॒ऽन्यं जि॑नी॒यात् तं
PS6.3 ॅवा॒ऽन्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्ना॒त्वित्या॑ह
PS6.4 मि॒त्रो वै शि॒वो दे॒वानां॒
PS6.5 तेनै॒वैनां᳚ प॒दि ब॑द्ध्नाति पू॒षाऽद्ध्व॑नः
PS6.6 पा॒त्वित्या॑हे॒यं ॅवै पू॒षेमामे॒वास्या॑ अधि॒पाम॑कः॒
PS6.7 सम॑ष्ट्या॒ इन्द्रा॒या-द्ध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अद्ध्य॑क्षं करो॒
PS6.8 - [ ]
PS7.1 -त्यनु॑ त्वा मा॒ता म॑न्यता॒मनु॑
PS7.2 पि॒तेत्या॒हा-नु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि
PS7.3 दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वः
PS7.4 सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि
PS7.5 सोम॑ आह्रि॒यते॒ यदे॒तद्-यजु॒र्न ब्रू॒यात्
PS7.6 परा᳚च्ये॒व सो॑म॒क्रय॑णीयाद्-रु॒द्रस्त्वाऽऽ व॑र्तय॒त्वित्या॑ह रु॒द्रो
PS7.7 वै क्रू॒रो - [
PS7.8 ]
PS8.1 दे॒वानां॒ तमे॒वास्यै॑ प॒रस्ता᳚द्-दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒
PS8.2 वा ए॒तत् क॑रोति॒ यद्-रु॒द्रस्य॑
PS8.3 की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑
PS8.4 वा॒चा वा ए॒ष वि
PS8.5 क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति
PS8.6 सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह
PS8.7 वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन् वाचं॑
PS8.8 ध॒त्तेऽनु॑पदासुकाऽस्य॒ वाग्भ॑वति॒ य ए॒वं
PS8.9 ॅवेद॑ ( )

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.7.1 TS 6.1.7.1
तद्धिर॑ण्यमभव॒त् तस्मा॑द॒द्भ्यो हिर॑ण्यं पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्ते ऽस्थ॒न्वती᳚र्जायन्त॒ इति॒ यद्धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्ते ऽस्थ॒न्वती᳚र्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्-घृ॒तं तेजो॒ हिर॑ण्यमि॒यन्ते॑ शुक्र त॒नूरि॒दं ॅवर्च॒ इत्या॑ह॒ सते॑जसमे॒वैनꣳ॒॒ सत॑नुं - [ ]
पदपाठः (Word-by-word)
तत् । हिर॑ण्यम् । अ॒भ॒व॒त् । तस्मा᳚त् । अ॒द्भ्य इत्य॑त् - भ्यः । हिर॑ण्यम् । पु॒न॒न्ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । अ॒न॒स्थिके॑न । प्र॒जा इति॑ प्र - जाः । प्र॒वीय॑न्त॒ इति॑ प्र - वीय॑न्ते । अ॒स्थ॒न्वती॒रित्य॑स्थन्न् - वतीः᳚ । जा॒य॒न्ते॒ । इति॑ । यत् । हिर॑ण्यम् । घृ॒ते । अ॒व॒धायेत्य॑व - धाय॑ । जु॒होति॑ । तस्मा᳚त् । अ॒न॒स्थिके॑न । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । वी॒य॒न्ते॒ । अ॒स्थ॒न्वती॒रित्य॑स्थन्न् - वतीः᳚ । जा॒य॒न्ते॒ । ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ । यत् । घृ॒तम् । तेजः॑ । हिर॑ण्यम् । इ॒यम् । ते॒ । शु॒क्र॒ । त॒नूः । इ॒दम् । वर्चः॑ । इति॑ । आ॒ह॒ । सते॑जस॒मिति॒ स - ते॒ज॒स॒म् । ए॒व । ए॒न॒म् । सत॑नु॒मिति॒ स - त॒नु॒म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

आधानब्राह्मणोक्तं हिरण्यस्य महिमानं तत्रत्यपदत्रयोच्चारणेन प्रत्यभिज्ञाप्य प्रशंसति —

“तद्धिरण्यमभवत्तस्मादद्भ्यो हिरण्यं पुनन्ति” [सं. का. ६ प्र. १ अ. ७] इति।

आधानब्राह्मणे त्वेवमाम्नायते —

आपो वरुणस्य पत्नय आसन्। ता अग्निरभ्यध्यायत्। ताः समभवन्। तस्य रेतः परापतत्। तद्धिरण्यमभवत्” इति।

तस्माद्धिरणस्य वह्निः पिता आपो मातरः। तस्मात्स्वतःशुद्धं हिरण्यं यदि कदाचिद्रजस्वलादिस्पर्शेन शोधनीयं भवति तदाऽद्भ्यः पुनन्ति जलेनैव शोधयन्ति न तु कांस्यताम्रादेरिव भस्माग्न्यदिकमपेक्षन्ते।

जुह्वां हिरण्यप्रक्षेपेण विशिष्टं होमं विधत्ते —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्यादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्त इति यद्धिरण्यं घृतेऽवधाय जुहोति तस्मादनस्थिकेन प्रजाः प्र वीयन्तेऽस्थन्वतीर्जायन्ते” [सं. का. ६ प्र. १ अ. ७] इति।

तस्मादनस्थिकेन वीर्येण प्रजाः प्रवीयन्ते गर्भाः क्रियन्ते। उत्पत्तिकाले त्वस्थियुक्ता जायन्ते। तत्र वीर्यसदृशमाज्यमस्थिसदृशं हिरण्यम्। तदिदं सादृश्यं निर्वोढुमीश्वरेणास्थि निर्मीयत इत्यर्थः।

वह्निसंबन्धबोधनपरतया मन्त्रं व्याचष्टे —

“एतद्वा अग्नेः प्रियं धाम यद्घृतं तेजो हिरण्यमियं ते शुक्र तनूरिदं वर्च इत्याह सतेजसमैवैन सतनुं करोत्यथो स भरत्येवैनम्” [सं. का. ६ प्र. १ अ. ७] इति।

एनमग्निं संभरति सम्यक्करोत्येव। वह्निसंबोधनेन तदीयतेजोरूपेण हिरण्यमत्र प्रकाश्यते।

हिरण्यस्य सूत्रेण बन्धनं विधत्ते —

“यदबद्धमवदध्याद्गर्भाः प्रजानां परापातुकाः स्युर्बद्धमव दधाति गर्भाणां धृत्यै” [सं. का. ६ प्र. १ अ. ७] इति।

सूत्राग्राकर्षणेन यथा सहसा मुच्यते तथा बध्नीयादिति विशेषं विधत्ते —

“निष्टर्क्यं बध्नाति प्रजानां प्रजननाय” (सं. का. ६ प्र. १ अ. ७) इति।

निःशेषेण सहसा मोचनयोग्यं निष्टर्क्यम्।

यथोक्तार्थं मन्त्रे दर्शयति —

“वाग्वा एवा यत्सोमक्रयणी जूरसीत्याह यद्धि मनसा जवते तद्वाचा वदति धृता मनसेत्याह मनसा हि वाग्धृता जुष्टा विष्णव इत्याह यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः प्रसव इत्याह सवितृप्रसूतामेव वाचमवरुन्धे” (सं. का. ६ प्र. १ अ. ७) इति।

जवते तूर्णं कर्तव्यमित्यवगच्छति।

एतदभिप्रायं दर्शयति —

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्त्येषु खलु वा अरक्षोहतः पन्था योऽग्नेश्च सूर्यस्य च सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकामित्याह य एवारक्षोहतः पन्थस्त समारोहति” (सं. का. ६ प्र. १ अ. ७) इति।

काण्डेकाण्डे तत्तदुपाङ्गयुक्त एकैकस्मिन्यज्ञाङ्गे।

यथोक्तमर्थं मन्त्रे दर्शयति —

“वाग्वा एषा यत्सोमक्रयणी चिदसि मनाऽसीत्याह शास्त्येवैनामेतत्तस्माच्छिष्टाः प्रजा जायन्ते” (सं. का. ६ प्र. १ अ. ७) इति।

एतेन मन्त्रेण वागात्मिकां सोमक्रयणीं चिदादिशब्दवाच्या भवेत्येवमनुशास्ति। यस्मादेवं तस्माँल्लोकेऽपि प्रजा अनुशिष्यन्ते।

कृत्स्नशस्तात्पर्यमुक्त्वा प्रत्यवयवं व्याचष्टे —

चिदसीत्याह यद्धि मनसा चेतयते तद्वाचा वदति मनाऽसीत्याह यद्धि मनसाऽभिगच्छति तत्करोति धीरसीत्याह यद्धि मनसा ध्यायति तद्वाचा वदति दक्षिणाऽसीत्याह दक्षिणा ह्येषा यज्ञियाऽसीत्याह यज्ञियामेवैनां करोति क्षत्त्रियाऽसीत्याह क्षत्त्रिया ह्येषाऽदितिरस्युभयतःशीर्ष्णीत्याह यदेवाऽऽदित्यः प्रायणीयो यज्ञानामादित्य उदयनीयस्तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ७) इति।

मनसा वृत्तित्रयसाधारणेनान्तःकरणेन चेतयते सामान्यतो जानात्यभिगच्छति विचारयति ध्यायति निश्चिनोति। उत्तरमन्त्रस्यायमर्थः। हे सोमक्रयणि मित्रो हितकारी देवस्त्वां दक्षिणे पादे बध्नातु।

एतन्मन्त्रविरुद्धं पक्षत्रयं व्यावर्तयन्मन्त्रं व्याचष्टे —

“यदबद्धा स्यादयता स्याद्यत्पदिबद्धाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यत्कर्णगृहीता वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयान्मित्रस्त्वा पदि बध्नात्वित्याह मित्रो वै शिवो देवानां तेनवैनां पदि बध्नाति” (सं. का. ६ प्र. १ अ. ७) इति।

अत्र पादबन्धनं कर्णग्रहणं चामन्त्रकमङ्गी चकरेत्यविरोधः। अथवा, अकर्णगृहीता, अपदिबद्धेति पदच्छेदः। तृतीयमन्त्रस्यायमर्थः — हे सोमक्रयणि त्वां पूषा पोषको देवो भयोपेतान्मार्गात्पालयतु। यागध्यक्षायेन्द्राय त्वां सोमक्रयसाधनेन मातृ(ता)पित्रादयोऽनुमन्यन्ताम्। सगर्भ्यस्त्वया सहैकस्मिन्गर्भेऽवस्थितः। हे देवि सा त्वमिन्द्रार्थं सोमं देवमनुगच्छ। तां त्वां रुद्रो देवोऽस्मान्प्रति पुनरावर्तयतु। आवर्तयन्नपि न रौद्रेण मार्गेण किंतु मित्रस्य पथा। ततस्ते स्वस्ति सुखं भवतु। सोमः सखा यस्यास्तव सा त्वं सोमसखा भूत्वा धनेन सहास्मान्प्रति पुनरागच्छ। अत्र रुद्रस्त्वेत्यादिना पृथङ्मन्त्रेण सोमक्रयादूर्ध्वमेतस्याः प्रत्यावर्तनमिति केचित्।

मन्त्रस्य भागान्क्रमेण व्याचष्टे —

“पूषाऽध्वनः पात्वित्याहेयं वै पूषेमामेवास्या अधिपामकः समष्ट्या इन्द्रायाध्यक्षायेत्याहेन्द्रमेवास्या अध्यक्षं करोति अनु त्वा माता मन्यतामनु पितेत्याहानुमतयैवैनया क्रीणाति सा देवि देवमच्छेहीत्याह देवी ह्येषा देवः सोम इन्द्राय सोममित्याहेन्द्राय हि सोम आह्रियते यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयाद्रुद्रस्त्वाऽऽवर्तयत्वित्याह रुद्रो वै क्रूरो देवानां तमेवास्यै परस्ताद्दधात्यावृत्त्यै क्रूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति मित्रस्य पथेत्याह शान्त्यै वाचा वा एष वि क्रीणीते यः सोमक्रयण्या स्वस्ति सोम सखा पुनरेहि सह रय्येत्याह वाचैव विक्रीय पुनरात्मन्वाचं धत्तेऽनुपदासुकाऽस्य वाग्भवति य एवं वेद” (सं. का. ६ प्र. १ अ. ७) इति।

समष्ट्यै सम्यक्प्राप्तये। एतद्रुद्रस्ये(स्त्वे)ति यजुः। तमेव क्रूरं रुद्रम्। अस्याः सोमक्रयण्या आवृत्तये परस्तात्तामतिलङ्घ्य परभागे स्थापयति। अनुपदासुका क्षयरहिता तदेतद्वेतनस्य प्रशंसनम्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्रुक्स्थे घृते हिरण्यमवधायाहवनीये होष्यतो हिरण्यं विशिष्टोत्पत्तितया स्तौति - तद्धिरण्यमभवदिति ।। अत्र तदित्यस्य साकांक्षत्वाद्ब्राह्मणशेषेणास्य भवितव्यम् । कः पुनस्सः? उच्यते - 'आपो वरुणस्य पत्नय आसन्' इति । वरुणस्य पत्नीरपोग्निरभ्यध्यायत् अकामयत । ततस्तास्समभवत् मिथुनीभूयाभुङ्क्त । तस्याग्नेः रेतः परापतत् । तद्धिरण्यमभवदिति ब्राह्मणान्तरप्रसिद्धां हिरण्योत्पत्तिं बोधयितुं तत्रस्थं पदत्रयमुपादत्ते - तस्मादिति । यस्मादप्सु हिरण्यमुत्पन्नं, तस्मादद्भ्यो हिरण्यं पुनन्ति शोधयन्ति न भस्मादिना । 'सुपां सुपो भवन्ति' इति तृतीयार्थे पञ्चमी, हेतौ वा । 'ऊडिदम्' इति भ्यस उदात्तत्वम् ।।
2 ब्रह्मवादिन इति ।। कस्मात्कारणात् अनस्थिकेन अस्थिरहितेन प्रजनेन प्रजाः प्रवीयन्ते गर्भार्थमन्तः प्रक्षिप्यन्ते । वेतिः प्रजननकर्मा । प्रजननो गर्भग्रहणम् । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अस्थन्वतीः अस्थिमत्यः जायन्ते प्रजाः इति प्रश्नं वदन्ति ब्रह्मवादिनः । 'छन्दस्यपि दृश्यते' इत्यनञ्, 'अनो नुट्', 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम्, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् ।।
3 अत्रोत्तरं - यदित्यादि ।। यस्मात्कारणाद्धिरण्यं रेतस्थानीयं घृते प्रजननस्थानीये अवधाय जुहोति तस्मादेतदेवं भवति ।।
4 इदानीं 'इयं ते शुक्र तनूः' इति हिरण्यावधानमन्त्रं व्याख्यातुमाह - एतदिति ।। यद्घृतं नाम एतत् अग्नेः प्रिया इष्टा तनूः । हिरण्यं नामाग्नेस्तेजः । तस्मात् 'इयं ते शुक्र तनूः' इत्यादि यदाह, तेन हेतुना एनमग्निं सतेजसं तेजसा युक्तं सतनुं शरीरयुक्तं च करोति । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अथो अपि च सम्भरत्येवैनं एनद्धिरण्यं तेजोरूपं शरीरेणैकीकरोति यद्घृते हिरण्यमवदधाति, यद्वा 'तया संभव' इति मन्त्र आह । अत्र मन्त्रे हिरण्यस्य शुक्रं तनूरुच्यते घृतं तेजः । ब्राह्मणे तु अग्नेर्घृतं तनूः, हिरण्यं तेजः । ततः अग्नेः तत्तेजसश्च हिरण्यस्याभेदविवक्षया मन्त्रब्राह्मणयोर्विरोधः परिहार्यः ।।
5 यदबद्धमित्यादि ।। यदि हिरण्यं सूत्रेणाबद्धं हि स्रुच्यवदध्यात् प्रजानां गर्भाः परापातुकाः परापतनशीलास्स्युः । गर्भस्थानीयस्य हिरण्यस्यावद्धत्वात् । 'लषपत ' इत्यादिना उकञ्, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्माद्बद्धमवदधातीति विधिः । बद्धं हिरण्यं सुच्यवदधाति गर्भाणां धृत्यै धारणाय भवति ।।
6 निष्टर्क्यं बध्नातीति विधिः ।। संबद्ध्य पाशं अमुक्त्वैव ग्रन्थिमाकृष्टे मुच्यते [तथा] बध्नाति । 'छन्दसि निष्टर्क्य' इति कृत्ये ण्यति निपात्यते । 'निष्टर्क्ये व्यत्ययं विद्यान्निसष्षत्वं निपातनात्' इति । एवं बद्धं प्रजानां प्रजननाय भवति । अन्यथा अनुत्पत्तिस्स्यात् ।।
7 अत्राहवनीये 'जूरसि' इति हूयते । अनेन मन्त्रेण सोमक्रयणी प्रतिपाद्यते दति दर्शयितुमाह - वाग्वा इत्यादि ।। वाचा हि सोमं देवा निरक्रीणन् । तस्माद्वाक् सोमक्रयणी । सोमः क्रीयते अनयेति करणे ल्युट्, कृदुत्तरपदप्रकृतिस्वरत्वम्, तेन लित्स्वरः । तस्मादेनां वाग्रूपेण वर्णयन्तीति ब्राह्मणाभिप्रायः । एतदेव प्रकटयति - जूरसीत्यादि । यद्धि मनसा जवते गच्छति तद्वाचा वदति । मनसो जवः पाटवम् । यतो जवं करोति तस्मात् जूरिति मन उच्यते, प्रत्यर्थं गन्तृ इत्यर्थः । जोर्गतिकर्मणः 'क्विब्वचि' इत्यादिना क्विब्दीर्घौ । यस्मादेवं तस्माज्जूरसीति सोमक्रयणीं मन्त्र आहेत्यर्थः । धृता मनसेति । यस्मान्मनसा वाग्धृता तदिच्छातस्तत्प्रवृत्तेः तस्माद्धृता मनसेति सोमक्रयाणीमाह ।।
8 विष्णव इति ।। व्यापकत्वाद्यज्ञ उच्यते । तस्यास्त इति । सत्यसवास्सविता, तस्य प्रसवे अनुज्ञाता[या]मिति यदाह तस्मात्सवितृप्रसूतां सवित्राऽनुज्ञातां वाचमवरुन्धे । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ।।
9 हिरण्यमन्तर्धाय यजमानमादित्यमुद्वीक्षयति - सूर्यस्येति ।। तदभिप्रायमाह - काण्डेकाण्डे इति ।। काण्डं पर्व अवयव इति पर्यायाः । सर्वस्मिन् यज्ञावयवे क्रियमाणे आरभ्यमाणे यज्ञं रक्षांसि हन्तुमिच्छन्ति । तस्मादनेनारक्षोहतं पन्थानमारूढेन वर्तितव्यमित्याह - एष खल्विति । अरक्षोहतः रक्षोभिरहतः हन्तुमशक्यः अग्नेश्च सूर्यस्य च पन्थाः । तस्मादयं 'सूर्यस्य चक्षुरारुहम्' इत्याद्याह । तेनारक्षोहतं पन्थानमारूढो भवति यथा रक्षोभिर्न बाध्यते । सूर्यस्य संबन्धि सर्वेषां चक्षुस्थानीयं अग्नेरक्ष्णः कनीनिकास्थानीयं मण्डलमारूढोस्मीति मण्डलान्तर्गतेन पुरुषेण सह स्वात्मन एकीभावभावनया न केन चिदपि बाध्यते इति मन्त्रेण प्रतिपाद्यते इति ब्राह्मणाभिप्रायः । मण्डलरेरवाऽरक्षोहतः पन्थाः, तद्धि सूर्येणाग्निना चारूढः पन्था इति । यथा 'उद्यन्तं वावादित्यमग्निरनु समारोहति' इति ।।
10 अथ सोमक्रयण्यनुमन्त्र्यते - चिदिति ।। तत्र वाग्रूपेण सोमक्रयणी वर्ण्यते इति प्रतिपादयितुमाह - वाग्वा इत्यादि । यथोक्तं 'ते वाचं स्त्रियम्' इत्यादि । चिदसि मनाऽसीत्याहेति । 'चिदसि' इत्यारभ्य 'पुनरेहि सह रय्या' इत्यन्तं यदाह एतदेनां सोमक्रयणीं वाग्रूपां शास्ति शिक्षयति ईदृशी त्वमसि, इत्थं त्वया कर्तव्यमिति बोधयति । यद्वा - एतस्मिन् काले यज्ञे एवैनां शास्ति । सप्तम्या अलुक् । तस्मात् शिष्टाः शिक्षिता एव प्रजा जायन्ते ।।
11 इदानीं शिक्षाविशेषानेकैकशः आचष्टे - चिदसीत्याहेति ।। मनसा चेतनीयं ज्ञातव्यं हि वाचा वदति, तस्माच्चित्कार्यत्वात् चिदिति वागुच्यते । मनसा चेतनीयाभावे वाचोनुत्पत्तेः । तस्माच्चिदसीति वाग्धर्मेण सोमक्रयण्युच्यते । मनाऽसीत्याहेति । यद्धि मनसाऽभिगच्छति अध्यवस्यति तत्करोति वदतीत्यर्थः । कर्मेन्द्रियत्वादेवमुक्तम् । इन्द्रियकार्यत्वान्मनेति वागुच्यते । धीरिति । यन्मनसा ध्यायति प्रजानाति तद्वाचा वदति । तस्माद्धीकार्यत्वाद्धीरित्युच्यते । एवं चिच्चेत्यचित्तत्रितयात्मना वर्तमानत्व[नस्त्व]मेव यागं निर्वर्तयसीति स्तुतिः । दक्षिणा शीघ्रकारिणी ह्येषा । यद्वा - दानसामान्यात् दक्षिणोक्ता । यज्ञियां यज्ञार्हामेनां करोति यज्ञकर्मार्हाम् । 'यज्ञर्त्विग्भ्यां तत्कर्मार्हति' इति यः । क्षत्रियेति । क्षतात्त्राणसमर्थे बले भवा यज्ञद्वारेणापत्यत्वविवक्षया 'तत्राद्घः' । अदितिरस्युभयतश्शीर्ष्णी यस्मादादित्यः अदितिदेवत्यः प्रायाणीयश्चोदयनीयश्च यज्ञानाम् । तस्मादेवमुभयतश्शीर्ष्णीत्येतामाह । उभयतो यज्ञानामाद्यन्तयोः शिरस्स्थानीयौ प्रायणीयोदयनीयाख्यौ चरू यस्यास्सा तथोक्तेति ।।
12 यदित्यादि ।। यदि नयनकाले एकहायनी अबद्धा स्यात् अयता अनियमिता स्यात् । उभयत्राप्यव्ययपूर्वपदप्रकृतिस्वरत्वम् । यदि पदिबद्धा पादेन वद्धा स्यात्, अनुस्तरणी स्यादित्यादि । व्याख्यातम् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक्, 'पद्दन्' इति पद्भावः । यदि कर्णे गृहीता स्यात्, वार्त्रघ्नी स्यादित्यादि । व्याख्यातम् । तस्मात् 'मित्रस्त्वा' इत्यादिवचनेन देवतानां मध्ये शिवेन मित्रेणैव एनां पादे बध्नाति, तस्मादुक्तदोषाप्रसंग इत्यवयवस्तुतिः । 'ऊडिदम्' इति सप्तम्युदात्तत्वम् । एवं 'पूषाऽध्वनः'36 इति मन्त्रैकदेशवचनेन पूषशब्दवाच्यां पृथिवीमेव अस्या एकहायन्याः अधिपां अधिकं पालयित्रीमकः करोति । 'छन्दसि लुङ्लङ्लिटः' इति लुञ्, 'मन्त्रे घस' इति च्लेर्लुक् । इदमोन्वादेशोनुदात्तः । अधिकं पातीति 'आतो मनिन्' इति विच् । एवं पूष्णा आधिपत्यकरणं समष्टयै सम्यगवाप्त्यै भवति अस्याः । अश्नोतेः क्तिनि 'तितुत्र' इतीट्प्रतिषेधः, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । इन्द्रमेवेत्यादि । सुबोधम् । अनुमतयैव मात्रादिभिः । देवी ह्येषा सोमक्रयणी । देवस्सोमः । तस्मात्सा देवि देवमच्छेहीत्याह ।।
13 यदेतदिति ।। 'रुद्रस्त्वाऽऽवर्तयतु'36 इति यदेतद्यजुर्न ब्रूयात् पराची अनिवर्तमानैव सोमक्रयणीयात् गच्छेत् । पराङ्मुखी अञ्चतीति ऋत्विगादिना क्विनि 'अञ्चतेश्चोपसंख्यानम्' इति डीप्, 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । तस्मादेतस्य यजुषो वचनेन देवानां मध्ये क्रूरं अप्रधृष्यं पुरस्तादग्रतो दधाति स्थापयति आवृत्त्यै आवृत्त्यर्थमेवास्या एतत् भवति । अप्रधृष्यं देवमग्रतो दृष्ट्वा भयादावर्तते, न पराची गच्छतीत्यर्थः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । कूरमिवेति । कर्मणि षष्ठी । यद्रुद्रं कीर्तयति क्रूरमेव तत्करोति क्रूरस्य कीर्तितमिति, तस्मात् 'मित्रस्य पथा'36 इति यदाह तदेवास्य शान्त्यै भवति निजकार्तनापराधमनादृत्य मित्रस्य पथा प्रस्थानेन आवर्तयतीत्याशास्ते ।।
14 वाचा वा एष इत्यादि ।। विरूपक्रयो विक्रयः, अयुक्तरूपत्वात् । अयमर्थः - सोमक्रयण्या सोमं क्रीणाति, एष यजमानः वाचा विक्रीणीते अयुक्तरूपं क्रयं करोति; एकहायन्याः वाक्त्वात् वाचो व्ययस्यायुक्तत्वात् । सोमः क्रीयतेऽनयेति सोमक्रयणी, तेन यः सोमक्रयण्या क्रीणाति तेनेति गम्यते । न हि क्रयकरणेन विक्रयः क्रियते । तस्मात् स्वस्तीत्यादिवचनेन कृत्वापि वाचारूपं क्रयं पुनरात्मन्येष धत्ते; पुनरादास्यमानत्वात् । वाचमपि दत्वा सोमस्तावत्क्रीयते इति । यद्वा - विशिष्टः क्रयो विक्रयः आलस्यादिश्लाघ्यत्वात् । अयमर्थः - यस्सोमक्रयण्या क्रीणाति एष खलु वाचा विक्रीणीते वाचमपि प्रदाय विशिष्टं क्रयं करोति, तस्मात्क्रयस्य वैशिष्ट्यार्थं वाचमेव तावद्दत्वा क्रयः क्रियते । पूनः क्रीते सोमे स्वस्त्यादिवचनेन आत्मनि वाचं धत्ते, क्रयश्च विशिष्टो भवति, वाचश्च व्ययो न कृतो भवति । एवमेतदर्थरूपं यो वेद तस्यानुपदासुका वाग्भवति उपक्षयशीला कदाचिदपि न भवति । दसु उपक्षये, छान्दस उकञ् । 'परिव्यवेभ्यः क्रियः' इति क्रीणातेरात्मनेपदम् । 'सावेकाचः' इति वाचस्तृतीयाया उदात्तत्वम् ।।
इति षष्ठे प्रथमे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.7.2 TS 6.1.7.2
करो॒त्यथो॒ सं भ॑रत्ये॒वैनं॒ ॅयदब॑द्धम-वद॒द्ध्याद्-गर्भाः᳚ प्र॒जानां᳚ परा॒पातु॑काः स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्यं॑ बद्ध्नाति प्र॒जानां᳚ प्र॒जन॑नाय॒ वाग्वा ए॒षा यथ् सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ तद्-वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह - [ ]
पदपाठः (Word-by-word)
क॒रो॒ति॒ । अथो॒ इति॑ । समिति॑ । भ॒र॒ति॒ । ए॒व । ए॒न॒म् । यत् । अब॑द्धम् । अ॒व॒द॒द्ध्यादित्य॑व -द॒द्ध्यात् । गर्भाः᳚ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प॒रा॒पातु॑का॒ इति॑ परा-पातु॑काः । स्युः॒ । ब॒द्धम् । अवेति॑ । द॒धा॒ति॒ । गर्भा॑णाम् । धृत्यै᳚ । नि॒ष्ट॒र्क्य᳚म् । ब॒द्ध्ना॒ति॒ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय । वाक् । वै । ए॒षा । यत् । सो॒म॒क्रय॒णीति॑ सोम - क्रय॑णी । जूः । अ॒सि॒ । इति॑ । आ॒ह॒ । यत् । हि । मन॑सा । जव॑ते । तत् । वा॒चा । वद॑ति । धृ॒ता । मन॑सा । इति॑ । आ॒ह॒ । मन॑सा । हि । वाक् । धृ॒ता । जुष्टा᳚ । विष्ण॑वे । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.7.3 TS 6.1.7.3
य॒ज्ञो वै विष्णु॑ र्य॒ज्ञायै॒वैनां॒ जुष्टां᳚ करोति॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह सवि॒तृ-प्र॑सूतामे॒व वाच॒मव॑ रुन्धे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्त्ये॒ष खलु॒ वा अर॑क्षोहतः॒ पन्था॒ यो᳚ऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रा-ऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहतः॒ पन्था॒स्तꣳ स॒मारो॑हति॒ - [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञाय॑ । ए॒व । ए॒ना॒म् । जुष्टा᳚म् । क॒रो॒ति॒ । तस्याः᳚ । ते॒ । स॒त्यस॑वस॒ इति॑ स॒त्य - स॒व॒सः॒ । प्र॒स॒व इति॑ प्र - स॒वे । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूता॒मिति॑ सवि॒तृ - प्र॒सू॒ता॒म् । ए॒व । वाच᳚म् । अवेति॑ । रु॒न्धे॒ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚-का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । ए॒षः । खलु॑ । वै । अर॑क्षोहत॒ इत्यर॑क्षः - ह॒तः॒ । पन्थाः᳚ । यः । अ॒ग्नेः । च॒ । सूर्य॑स्य । च॒ । सूर्य॑स्य । चक्षुः॑ । एति॑ । अ॒रु॒ह॒म् । अ॒ग्नेः । अ॒क्ष्णः । क॒नीनि॑काम् । इति॑ । आ॒ह॒ । यः । ए॒व । अर॑क्षोहत॒ इत्यर॑क्षः-ह॒तः॒ । पन्थाः᳚ । तम् । स॒मारो॑ह॒तीति॑ सं - आरो॑हति ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.7.4 TS 6.1.7.4
वाग्वा ए॒षा यथ् सो॑म॒क्रय॑णी॒ चिद॑सि म॒नाऽसीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत् तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ तद्-वा॒चा वद॑ति म॒नाऽसीत्या॑ह॒ यद्धि मन॑साऽभि॒गच्छ॑ति॒ तत् क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्-वा॒चा - [ ]
पदपाठः (Word-by-word)
वाक् । वै । ए॒षा । यत् । सो॒म॒क्रय॒णीति॑ सोम - क्रय॑णी । चित् । अ॒सि॒ । म॒ना । अ॒सि॒ । इति॑ । आ॒ह॒ । शास्ति॑ । ए॒व । ए॒ना॒म् । ए॒तत् । तस्मा᳚त् । शि॒ष्टाः । प्र॒जा इति॑ प्र - जाः । जा॒य॒न्ते॒ । चित् । अ॒सि॒ । इति॑ । आ॒ह॒ । यत् । हि । मन॑सा । चे॒तय॑ते । तत् । वा॒चा । वद॑ति । म॒ना । अ॒सि॒ । इति॑ । आ॒ह॒ । यत् । हि । मन॑सा । अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । तत् । क॒रोति॑ । धीः । अ॒सि॒ । इति॑ । आ॒ह॒ । यत् । हि । मन॑सा । ध्याय॑ति । तत् । वा॒चा ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.7.5 TS 6.1.7.5
वद॑ति॒ दक्षि॑णा॒ऽसीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा य॒ज्ञिया॒ऽसीत्या॑ह य॒ज्ञिया॑मे॒वैनां᳚ करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षा ऽदि॑तिरस्युभ॒यत॑श्शी॒र्ष्णीत्या॑ह॒ यदे॒वाऽऽ*दि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒-स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता स्या॒द्यत् प॑दिब॒द्धा-ऽनु॒स्तर॑णी स्यात् प्र॒मायु॑को॒ यज॑मानः स्या॒ - [ ]
पदपाठः (Word-by-word)
वद॑ति । दक्षि॑णा । अ॒सि॒ । इति॑ । आ॒ह॒ । दक्षि॑णा । हि । ए॒षा । य॒ज्ञिया᳚ । अ॒सि॒ । इति॑ । आ॒ह॒ । य॒ज्ञिया᳚म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । क्ष॒त्रिया᳚ । अ॒सि॒ । इति॑ । आ॒ह॒ । क्ष॒त्रिया᳚ । हि । ए॒षा । अदि॑तिः । अ॒सि॒ । उ॒भ॒यत॑श्शी॒र्ष्णीत्यु॑भ॒यतः॑ - शी॒र्ष्णी॒ । इति॑ । आ॒ह॒ । यत् । ए॒व । आ॒दि॒त्यः । प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒णीयः॑ । य॒ज्ञाना᳚म् । आ॒दि॒त्यः । उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीयः॑ । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । यत् । अब॑द्धा । स्यात् । अय॑ता । स्या॒त् । यत् । प॒दि॒ब॒द्धेति॑ पदि - ब॒द्धा । अ॒नु॒स्तर॒णीत्य॑नु - स्तर॑णी । स्या॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । यज॑मानः । स्या॒त् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.1.7.6 TS 6.1.7.6
-द्यत् क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒थ् स वा॒ऽन्यं जि॑नी॒यात् तं ॅवा॒ऽन्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वैनां᳚ प॒दि ब॑द्ध्नाति पू॒षाऽद्ध्व॑नः पा॒त्वित्या॑हे॒यं ॅवै पू॒षेमामे॒वास्या॑ अधि॒पाम॑कः॒ सम॑ष्ट्या॒ इन्द्रा॒या-द्ध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अद्ध्य॑क्षं करो॒ - [ ]
पदपाठः (Word-by-word)
यत् । क॒र्ण॒गृ॒ही॒तेति॑ कर्ण-गृ॒ही॒ता । वार्त्र॒घ्नीति॒ वार्त्र॑ - घ्नी॒ । स्या॒त् । सः । वा॒ । अ॒न्यम् । जि॒नी॒यात् । तम् । वा॒ । अ॒न्यः । जि॒नी॒या॒त् । मि॒त्रः । त्वा॒ । प॒दि । ब॒द्ध्ना॒तु॒ । इति॑ । आ॒ह॒ । मि॒त्रः । वै । शि॒वः । दे॒वाना᳚म् । तेन॑ । ए॒व । ए॒ना॒म् । प॒दि । ब॒द्ध्ना॒ति॒ । पू॒षा । अद्ध्व॑नः । पा॒तु॒ । इति॑ । आ॒ह॒ । इ॒यम् । वै । पू॒षा । इ॒माम् । ए॒व । अ॒स्याः॒ । अ॒धि॒पामित्य॑धि - पाम् । अ॒कः॒ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । इन्द्रा॑य । अद्ध्य॑क्षा॒येत्यधि॑ - अ॒क्षा॒य॒ । इति॑ । आ॒ह॒ । इन्द्र᳚म् । ए॒व । अ॒स्याः॒ । अद्ध्य॑क्ष॒मित्यधि॑ - अ॒क्ष॒म् । क॒रो॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.1.7.7 TS 6.1.7.7
-त्यनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हा-नु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वः सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ यदे॒तद्-यजु॒र्न ब्रू॒यात् परा᳚च्ये॒व सो॑म॒क्रय॑णीयाद्-रु॒द्रस्त्वाऽऽ व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रो - [ ]
पदपाठः (Word-by-word)
अन्विति॑ । त्वा॒ । मा॒ता । म॒न्य॒ता॒म् । अन्विति॑ । पि॒ता । इति॑ । आ॒ह॒ । अनु॑मत॒येत्यनु॑ - म॒त॒या॒ । ए॒व । ए॒न॒या॒ । क्री॒णा॒ति॒ । सा । दे॒वि॒ । दे॒वम् । अच्छ॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । दे॒वी । हि । ए॒षा । दे॒वः । सोमः॑ । इन्द्रा॑य । सोम᳚म् । इति॑ । आ॒ह॒ । इन्द्रा॑य । हि । सोमः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् । परा॑ची । ए॒व । सो॒म॒क्रय॒णीति॑ सोम - क्रय॑णी । इ॒या॒त् । रु॒द्रः । त्वा॒ । एति॑ । व॒र्त॒य॒तु॒ । इति॑ । आ॒ह॒ । रु॒द्रः । वै । क्रू॒रः ।
पदसंख्या: 50
पञ्चशत् 8 #
TS 6.1.7.8 TS 6.1.7.8
दे॒वानां॒ तमे॒वास्यै॑ प॒रस्ता᳚द्-दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यद्-रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन् वाचं॑ ध॒त्तेऽनु॑पदासुकाऽस्य॒ वाग्भ॑वति॒ य ए॒वं ॅवेद॑ ( ) ॥
पदपाठः (Word-by-word)
दे॒वाना᳚म् । तम् । ए॒व । अ॒स्यै॒ । प॒रस्ता᳚त् । द॒धा॒ति॒ । आवृ॑त्त्या॒ इत्या - वृ॒त्त्यै॒ । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । रु॒द्रस्य॑ । की॒र्तय॑ति । मि॒त्रस्य॑ । प॒था । इति॑ । आ॒ह॒ । शान्त्यै᳚ । वा॒चा । वै । ए॒षः । वीति॑ । क्री॒णी॒ते॒ । यः । सो॒म॒क्रय॒ण्येति॑ सोम - क्रय॑ण्या । स्व॒स्ति । सोम॑स॒खेति॒ सोम॑ - स॒खा॒ । पुनः॑ । एति॑ । इ॒हि॒ । स॒ह । र॒य्या । इति॑ । आ॒ह॒ । वा॒चा । ए॒व । वि॒क्रीयेति॑ वि - क्रीय॑ । पुनः॑ । आ॒त्मन् । वाच᳚म् । ध॒त्ते॒ । अनु॑पदासु॒केत्यनु॑प - दा॒सु॒का॒ । अ॒स्य॒ । वाक् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ( ) ॥
पदसंख्या: 50