अनुवाकः 9 TS 6.1.9

(A9)

(इत॑रं - पशु॒मान्थ् स्या᳚द् - या॒त्यन॑सो॒ - थ्सर्गं॑ - तू॒ष्णीꣳ - स॑र्वदेव॒त्यं॑ ॅवै - त्रय॑स्त्रिꣳशच्च)

अनुवाकः 9 - Complete Audio

TS 6.1.9 - स्वरानुगामी

0:00 0:00
PS1.1 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा(3)
PS1.2 न वि॒चित्या(3) इति॒ सोमो॒
PS1.3 वा ओष॑धीनाꣳ॒॒ राजा॒ तस्मि॒न॒.
PS1.4 यदाप॑न्नं ग्रसि॒तमे॒वास्य॒ तद्-यद्-वि॑चिनु॒याद्-यथा॒ ऽऽस्या᳚द्ग्रसि॒तं
PS1.5 नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्-यथा॒
PS1.6 ऽक्षन्नाप॑न्नं ॅवि॒धाव॑ति ता॒दृगे॒व तत्
PS1.7 क्षोधु॑को ऽद्ध्व॒र्युः स्यात् क्षोधु॑को॒
PS1.8 यज॑मानः॒ सोम॑विक्रयि॒न्थ् सोमꣳ॑ शोध॒येत्ये॒व
PS1.9 ब्रू॑या॒द् यदीत॑रं॒ - [
PS1.10 ]
PS2.1 ॅयदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑-मर्पयति॒ तस्मा᳚थ् सोमविक्र॒यी
PS2.2 क्षोधु॑को ऽरु॒णो ह॑ स्मा॒ऽऽ*हौप॑वेशिः
PS2.3 सोम॒क्रय॑ण ए॒वाहं तृ॑तीय सव॒नमव॑
PS2.4 रुन्ध॒ इति॑ पशू॒नां चर्म॑न्
PS2.5 मिमीते प॒शूने॒वाव॑ रुन्धे प॒शवो॒
PS2.6 हि तृ॒तीयꣳ॒॒ सव॑नं॒ ॅयं
PS2.7 का॒मये॑ताप॒शुः स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत॒र्क्षं ॅवा
PS2.8 अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यं का॒मये॑त
PS2.9 पशु॒मान्थ् स्या॒ - [
PS2.10 ]
PS3.1 -दिति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाꣳ
PS3.2 रू॒पꣳ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे
PS3.3 पशु॒माने॒व भ॑वत्य॒पामन्ते᳚ क्रीणाति॒ सर॑समे॒वैनं॑
PS3.4 क्रीणात्य॒-मात्यो॒ऽसीत्या॑हा॒मैवैनं॑ कुरुते शु॒क्रस्ते॒ ग्रह॒
PS3.5 इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहो
PS3.6 ऽन॒साऽच्छ॑ याति महि॒मान॑-मे॒वास्याच्छ॑ या॒त्यन॒सा
PS3.7 - [ ]
PS4.1 ऽच्छ॑ याति॒ तस्मा॑दनोवा॒ह्यꣳ॑ स॒मे
PS4.2 जीव॑नं॒ ॅयत्र॒ खलु॒ वा
PS4.3 ए॒तꣳ शी॒र्ष्णा हर॑न्ति॒ तस्मा᳚च्छीर्.षहा॒र्यं॑
PS4.4 गि॒रौ जीव॑नम॒भि त्यं दे॒वꣳ
PS4.5 स॑वि॒तार॒मित्यति॑-च्छन्दस॒र्चा मि॑मी॒ते ऽति॑च्छन्दा॒ वै
PS4.6 सर्वा॑णि॒ छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्मिमीते॒
PS4.7 वर्ष्म॒ वा ए॒षा छन्द॑सां॒
PS4.8 ॅयदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनꣳ॑
PS4.9 समा॒नानां᳚ करो॒त्येक॑यैकयो॒थ् सर्गं॑- [
PS4.10 ]
PS5.1 मिमी॒ते ऽया॑तयाम्नियायातयाम्नियै॒वैनं॑ मिमीते॒ तस्मा॒न्नाना॑वीर्या
PS5.2 अ॒ङ्गुल॑यः॒ सर्वा᳚स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒
PS5.3 तस्मा᳚थ् स॒माव॑द्वीर्यो॒ऽन्याभि॑-र॒ङ्गुलि॑भि॒स्तस्मा॒थ् सर्वा॒ अनु॒
PS5.4 सं च॑रति॒ यथ् स॒ह
PS5.5 सर्वा॑भि॒र्मिमी॑त॒ सꣳश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒-न्नेक॑यैकयो॒थ्
PS5.6 सर्गं॑ मिमीते॒ तस्मा॒द् विभ॑क्ता
PS5.7 जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा
PS5.8 मिमीते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑
PS5.9 य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे॒ पञ्च॒
PS5.10 कृत्व॑स्तू॒ष्णीं- [ ]
PS6.1 -दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा
PS6.2 वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒
PS6.3 यद् यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑
PS6.4 रुन्धे॒ यत् तू॒ष्णीं भ॑वि॒ष्यद्-यद्-वै
PS6.5 तावा॑ने॒व सोमः॒ स्याद् याव॑न्तं॒
PS6.6 मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नां
PS6.7 प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वा भ॑जति॒
PS6.8 वास॒सोप॑ नह्यति सर्वदे॒वत्यं॑ ॅवै
PS6.9 - [ ]
PS7.1 वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्द्धयति
PS7.2 प॒शवो॒ वै सोमः॑ प्रा॒णाय॒
PS7.3 त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑
PS7.4 दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति
PS7.5 व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा᳚थ्
PS7.6 स्व॒पन्तं॑ प्रा॒णा न ज॑हति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.9.1 TS 6.1.9.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा(3) न वि॒चित्या(3) इति॒ सोमो॒ वा ओष॑धीनाꣳ॒॒ राजा॒ तस्मि॒न॒. यदाप॑न्नं ग्रसि॒तमे॒वास्य॒ तद्-यद्-वि॑चिनु॒याद्-यथा॒ ऽऽस्या᳚द्ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्-यथा॒ ऽक्षन्नाप॑न्नं ॅवि॒धाव॑ति ता॒दृगे॒व तत् क्षोधु॑को ऽद्ध्व॒र्युः स्यात् क्षोधु॑को॒ यज॑मानः॒ सोम॑विक्रयि॒न्थ् सोमꣳ॑ शोध॒येत्ये॒व ब्रू॑या॒द् यदीत॑रं॒ - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । वि॒चित्य॒ इति॑ वि-चित्यः॑ । सोमा(3)ः । न । वि॒चित्या(3) इति वि - चित्या(3)ः । इति॑ । सोमः॑ । वै । ओष॑धीनाम् । राजा᳚ । तस्मिन्न्॑ । यत् । आप॑न्न॒मित्या - प॒न्न॒म् । ग्र॒सि॒तम् । ए॒व । अ॒स्य॒ । तत् । यत् । वि॒चि॒नु॒यादिति॑ वि - चि॒नु॒यात् । यथा᳚ । आ॒स्या᳚त् । ग्र॒सि॒तम् । नि॒ष्खि॒दतीति॑ निः - खि॒दति॑ । ता॒दृक् । ए॒व । तत् । यत् । न । वि॒चि॒नु॒यादिति॑ वि - चि॒नु॒यात् । यथा᳚ । अ॒क्षन्न् । आप॑न्न॒मित्या - प॒न्न॒म् । वि॒धाव॒तीति॑ वि - धाव॑ति । ता॒दृक् । ए॒व । तत् । क्षोधु॑कः । अ॒द्ध्व॒र्युः । स्यात् । क्षोधु॑कः । यज॑मानः । सोम॑विक्रयि॒न्निति॒ सोम॑ -वि॒क्र॒यि॒न्न् । सोम᳚म् । शो॒ध॒य॒ । इति॑ । ए॒व । ब्रू॒या॒त् । यदि॑ । इत॑रम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

एतं मन्त्रं व्याचिख्यासुरादौ सोमविक्रियणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति — “ब्रह्मवादिनो वदन्ति। विचित्यः सोमा३ न विचित्या३ इति। सोमो वा ओषधीना राजा तस्मिन्यदापन्नं ग्रसितमेवास्य तद्यद्विचिनुयाद्यथाऽऽस्याद्ग्रसितं निष्खिदति तादृगेव तद्यन्न विचिनुयाद्यथाऽक्षन्नापन्नं विधावति तादृगेव तत्क्षोधुकोऽध्वर्युः स्यात्क्षोधुको यजमानः सोमविक्रयिन्त्सोम शोधयेत्येव ब्रूयाद्यदीतरं यदीतरमुभयेनैव सौमविक्रयिणमर्पयति तस्मात्सोमविक्रयी क्षोधुकः” [सं. का. ६ प्र. १ अ. ९] इति।

विचयो नाम सोमस्य तृणादेरपनयनम्। तस्मिन्नोषधीनां राज्ञि सोमे यत्तृणादिकमापन्नं पतितं तत्तृणादिकमस्य सोमस्य ग्रसितमेव ग्रास एव भवति। तथा सति यदि विचिनुयात्तृणादिकमपनयेत्तदानीं यथा लोके ग्रसितमन्नं निष्खिदति मक्षिकाद्युपद्रवेण वमति तत्तृणाद्यपनयनं तादृक्स्यात्। यदि न विचिनुयात्तदानीं यथा चक्षुषि पतितमितस्ततो विधावनेन व्यथां जनयति तदविवेचनं तादृक्स्यात्। ततो दोषद्वयपरिहाराय सोमविक्रयिन्नित्यादिप्रैषमन्त्रं ब्रूयात्। तस्मिन्नुक्ते सति यदीतरमितरो विचयदोषः, यदीतरं त्वविचयदोषस्तेनोभयेन दोषेण सोमविक्रयिणमेव योजयति। तस्मादसौ क्षोधुको न रक्षितो भवेत्।

यथोक्तं कर्म विधत्ते —

“अरुणो ह स्माऽऽहौपवेशिः सोमक्रयण एवाहं तृतीयसवनमव रुन्ध इति पशूनां चर्मन्मिमीते पशुनेवाव रुन्धे पशवो हि तृतीय सवनम्” (सं. का. ६ प्र. १ अ. ९) इति।

अरुणनामकः कश्चिदुपवेशस्य पुत्रः पशुचर्मणि सोम मिमीते। अत्रैव हि तृतीयसवनं संपदयिष्यामिति तस्याभिप्रायः। सवनीयानुबन्ध्याख्ययोः पश्वोस्तृतीयसवने सद्भावात्पशवस्तृतीयसवम्। अतः पशुचर्मणा तत्प्राप्तिः सोमोन्मानं तत्र कुर्यादित्यर्थः।

चर्मण उत्तरलोमास्तरणं विधत्ते —

“यं कामयेतापशुः स्यादित्यृक्षतस्तस्य मिमीतर्क्षं वा अपशव्यमपशुरेव भवति यं कामयेत पशुमान्त्स्यादिति लोमतस्तस्य मिमीतैतद्वै पशूना रूप रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति” (सं. का. ६ प्र. १ अ. ९) इति।

ऋक्षतो रूक्षे परुषे निर्लोमभागे। लोमतः सलोमभागे।

उदकुम्भसंनिधिं विधत्ते —

“अपामन्ते क्रीणाति सरसमेवैनं क्रीणाति” (सं. का. ६ प्र. १ अ. ९) इति।

मन्त्रे दुर्बोधभागं व्याचष्टे —

“अमात्योऽसीत्याहामैवैनं कुरुते शुक्रस्ते ग्रह इत्याह शुक्रो ह्यस्य ग्रहः” (सं. का. ६ प्र. १ अ. ९) इति।

अमैव सहैव स्थित इत्यर्थः सोमस्वीकारः शुक्रो हि सुवर्णसाध्यो हीत्यर्थः।

शकटेन सह सोमं प्राप्तुं गच्छेदिति विधत्ते —

“अनसाऽच्छ याति महिमानमेवास्याच्छ याति” (सं. का. ६ प्र. १ अ. ९) इति।

शकटरूपेण बहुमानेन सोमस्य महिमा प्रकाशितो भवति।

तमेव विधिमनूद्य प्रशंसति —

“अनसाऽच्छ याति तस्मादनोवाह्य समे जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।

समे प्रदेशे जीवनसाधनं धान्यं शकटवाह्यं तद्वत्सोमः।

विषमे तु प्रदेशे शिरसा सोमवाहनं विधत्ते —

“यत्र खलु वा एत शीर्ष्णा हरन्ति तस्माच्छीर्षहार्यं गिरौ जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।

यत्र यदा पर्वते सोमलतोत्पत्तिप्रदेशे सोमं क्रीणन्ति तदेति शेषः। लोकेऽपि दुर्गमे गिरौ धान्यं शिरसा वहन्ति।

एतस्यामृचि वर्तमानं छन्दः प्रशंसति —

“अभित्यं देव सवितारमित्यतिच्छन्दसर्चा मिमीतेऽतिच्छन्दा वै सर्वाणि छन्दासि सर्वेभिरेवैनं छन्दोभिर्मिमीते वर्ष्म वा एषा छन्दसां यदतिच्छन्दा यदतिच्छन्दसर्चा मिमीते वर्ष्मैवैन समानानां करोति” (सं. का. ६ प्र. १ अ. ९) इति।

अक्षराधिक्येन गायत्र्यादीनि च्छन्दांस्यतिक्रम्य वर्तत इत्यतिच्छन्दाः वर्ष्म शरीरम्।

अङ्गुलीषु प्रकारविशेर्ष विधत्ते —

“एकयैकयोत्सर्गं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते तस्मान्नानावीर्या अङ्गुलयः” [सं. का. ६ प्र. १ अ. ९] इति।

उत्सर्गमुत्सृज्योत्सृज्य कनिष्ठिकैव प्रथमपर्यायेऽनामिकैव द्वितीये मध्यमैव तृतीये तर्जन्येव चतुर्थे। एवं सति सकृत्प्रवृत्ताया अङ्गुल्याः पुनः प्रवृत्त्यभावाद्यातयामत्वं गतरसत्वं न भविष्यति। यस्मात्पर्यायेण प्रवृत्तास्तस्मात्प्रत्येकमङ्गुष्ठेन संयोक्तुं पृथक्सामर्थ्येऽर्पिताः।

अङ्गुष्ठस्य पर्यायो नास्तीत्यमुमर्थं विधत्ते —

“सर्वास्वङ्गुष्ठमुप निगृह्णाति तस्मात्समावद्वीर्योऽन्याभिरङ्गुलिभिस्तस्मात्सर्वा अनु सं चरति” (सं. का. ६ प्र. १ अ. ९) इति।

कनिष्ठिकादिषु सर्वास्वङ्गुलीषु प्रत्येकमङ्गुष्ठं संयोजयेत्। समावद्वीर्यस्तुल्यसामार्थ्यः। तस्माल्लोकव्यवहारेऽपि प्रत्येकं सर्वा अङ्गुलीरनुसंचरति।

विपक्षबाधकपूर्वकं पूर्वोक्तं स्वपक्षमुपसंहरति —

“यत्सह सर्वाभिर्मिमीत सश्लिष्टा अङ्गुलयो जायेरन्नेकयैकयोत्सर्गं मिमीते तस्माद्विभक्ता जायन्ते” (सं. का. ६ प्र. १ अ. ९) इति।

समन्त्रकामन्त्रकयोः सोमोन्मानयोरावृत्तिसंख्यां विधत्ते —

“पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे यद्यजुषा मिमीते भूतमेवाव रुन्धे यत्तूष्णीं भविष्यत्” (सं. का. ६ प्र. १ अ. ९) इति।

यद्यपि अतिच्छन्दसर्चेत्याम्नानात्पदार्थरूपस्य लक्षणस्य सद्भावाच्चाभित्यमित्येषर्गेव तथाऽपि युज्यते प्रयुज्यत इति व्युत्पत्तिमभिप्रेत्य यजुषेत्युक्तम्। अङ्गुष्ठस्य क्रमेण कनिष्ठिकादिभिः सह चत्वारः पर्यायाः। समन्त्रके प्रयोगे

कनिष्ठिकाव्यतिरिक्तया कयाचित्सह पञ्चमः पर्यायः अमन्त्रके तु कनिष्ठिकयैव सह।

अवशेषणे बाधं ब्रुवन्यथोक्तं समूहनादिकं विधत्ते —

“यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाभ्यस्त्वेत्युप समूहति सदस्यानेवान्वाभजति वाससोप नह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्थयति पशवो वै सोमः प्राणाय त्वेत्युपनह्यति प्राणमेव पशुषु दधाति व्यानाय त्वेत्यनु शृन्थति व्यानमेव पशुषु दधाति तस्मात्स्वपन्तं प्राणा न जहति” (सं. का. ६ प्र. १ अ. ९) इति।

दशकृत्वोङ्गुलिभिर्मितात्सोमस्यानाधिक्ये सत्येतस्मिन्सदस्यवस्थितानामपि सोमो न स्यान्मन्त्रेण समूहने तु यजमानमनु सदस्यान्सोमं प्रापयति। प्राणव्यानयोः पशुषु स्थापितत्वात्स्वापेऽपि नास्ति प्राणपरित्यागः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

'ब्रह्मवादिन इत्यादि ।। विचित्य विवेचनीयः तृणादिभ्यः सोमः; किं वा न विचित्यः; इति विचारं वदन्ति ब्रह्मवादिनः । विपूर्वाच्चिनोतेः छान्दसः क्यप्, कृदुत्तरप्रकृतिस्वरत्वेन धातुस्वरः । सोमशब्दो मन्प्रत्ययान्त आद्युदात्तः । तस्य टेः 'विचार्यमाणानाम्' इत्युदात्तः प्लुतः, तस्यासिद्धत्वाद्वर्ज्यमानस्वरप्रवृत्तिः । एवं न विचित्यः इत्यत्रापि । कुतः पुनस्संशय इत्याह - सोमो वा इति । आपन्नं प्रविष्टं सोमव्यतिरिक्तं तदस्य प्रसितमेव अनेनौषधिराजेन भुक्तमेव तत् । सबन्धसामान्यविवक्षया षष्ठी । 'ग्रसितस्कभित' इति निपात्यते । आपन्नशब्दे अकर्मण्यपि क्ते व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । एवं स्थिते यदि विचिनुयात्, यया आस्याद्ग्रसितं निष्खिदति निष्कर्षति भुक्तं तादृगेव तत् । खिद दैन्ये, तौदादिकः । अथैष दोषो मा भूदिति यदि न विचिनुयात, ययाऽक्षन् अक्षणि आपन्नं प्रविष्टं तूलादिकं विधावति अक्षिणी विविधमाकलयति पीडयति तादृगेव तत् । अक्ष्णस्सप्तम्याः 'सुपां सुलुक्' इति लुक्, 'न डिसंबुद्ध्योः' इति नलोपप्रतिषेधः । तस्मादवश्यं विचेतव्य एव । ततश्च क्षोधुकः क्षुच्छील अध्वर्युर्यजमानश्च स्यात् । छान्दस उकञ् । तस्माद्भवति संशय इति ।।

2 उत्तरमाह - सोमविक्रयिन्निति ।। हे सोमविक्रयिन् सोमं शोधय विचिनुयास्त्वमित्येवमेनं ब्रूयात् । 'कर्मणीनिविक्रयः' इति इनिप्रत्ययः । न तु स्वयं विचिनुयात् । एवमुक्ते स यदि विचिनुयात्, यदि वा न विचिनुयात्, उभयथाऽपि यावेवान्यतरपक्षे संभावितौ दोषावुक्तौ ताम्यामुभाभ्यां सोमविक्रयिणमर्पयति प्रापयति । व्यावर्तयतीत्यन्ये । तेन च अवश्यं शोधयेति वचनाद्विचेतव्यम् । तस्मात्सोमविक्रयी क्षोधुको भवति । 'नेतराच्छन्दसि' इत्यडादेशाभावः । अर्तेर्णिचि 'अर्तिह्रि' इत्यादिना पुगागमः ।।
3 इदानीं कांश्चिद्गुणान् विधास्यन् प्रवर्तयिष्यन् तदर्थमाह - अरुणो ह स्मेति ।। उपवेशस्यापत्यमौपवेशिः । अत इञ् । उपवेशपुत्रोरुणो नाम आह स्म अब्रवीत् । 'लट् स्मे' इति लट् । कथमाह स्म? सोमक्रयण एव यदा सोमो विक्रीयते तदानीमेवाहं तृतीयसवनमवरुन्धे समापयामि । स एवमुपायमाह । पशूनामित्यादिविधिः । पशूनां चर्मणि सोमो मीयते पशनूवरुन्ध एव । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । चर्मन्निति । लुगादि पूर्ववत् । ननु तृतीयसवनावरोधः प्रतिज्ञातः, तत्किमुच्यते पशूनवरुन्धे इत्यत आह - पशवो हि तृतीयसवनम्; पशुसाधनत्वात् । ततश्च पश्ववरोधेन तृतीयसवनमवरुद्धं भवतीति प्रतिज्ञातसिद्धः ।।
4 यमित्यादि ।। नास्य पशवस्सन्तीत्यपशुः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ऋक्षतः ऋक्षलोमान्ते चर्मणोवकाशे तस्य सोमं मिमीत । सीयुटो यकारस्य वलिलोपः । ऋक्षशब्दात् 'आद्यादिभ्यस्तसिः' इति तसिप्रत्ययः । अपशव्यं पशुभ्यो हितं न भवतीति 'उगवादिभ्यो यत्' 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । पशुमान् बहुपशुः । 'ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । लोमतः लोम्नि । पूर्ववत्तसिः । एतद्वा इत्यादि । अस्मै यजमानाय पशूनवरुन्धे; ततः पशुमान् भवति यजमानः ।।
5 अपामित्यादिविधिः ।। अन्ते समीपे क्रीणाति, तथा सति सरसं सरसः क्रीतो भवति । 'अमात्यः' इत्यादिकः सोमाभिमर्शनमन्त्रैकदेशः । अमैव सहैव एनं सोमम् यजमानेन । अमा भवतीत्यमात्यः इति कृत्वा । शुक्र इति । शुक्रो हिरण्यं यस्मादस्य सोमस्य ग्रहः ग्रहणसाधनं तस्मादुच्यते शुक्रस्ते ग्रह इति ।।
6 अनसेत्यादिविधिः ।। अनसा शकटेन सोममच्छ याति आभिमुख्येन याति महिमानं महत्त्वमेवास्य सोमस्याभिमुख्येन याति, महत्त्वस्याविक्रियमाणत्वात् । अनसेत्यादिद्वितीयविघानमर्थान्तरप्रतिपादनार्थम् । तस्मादित्यादि । अनसोह्यते इष्टदेशः प्राप्यते इत्यनोवाह्यम् । समे अविषमे जीवनं जीवनसाधनं धान्यादिकं यस्मादस्मिन् समे देशे यजेतेति विहिते अनसा वोढुं सोममच्छ याति, तस्मादनोवाह्यं समे धान्यादिकम् । अनेनैव न्यायेन, यत्र खल्वेतं सोमं विक्रेतारः क्रयस्थानप्राप्तेः पूर्वं शिरसा तत्र गिरौ पर्वतादौ गृहीत्वा विषमे स्थाने तस्मादेव कारणात् शीर्षहार्यं जीवनहेतुद्रव्यम् । कस्मात्? यस्मात्तत्र शिरसा हरन्ति सोमं विक्रेतार इति । यद्वा - व्यत्ययेन पञ्चम्यर्थे त्रल् । यतः खल्वेतं सोमं पर्वतादौ गृहीत्वा विक्रेतारश्शीर्ष्णा हरन्ति क्रयस्थानं प्रापयन्ति; तस्मात्पर्वतादौ धान्यादिकं शिरसा ह्रियते । यस्माच्च क्रयस्थानमानीतं अनसाऽच्छ याति, तस्मादनोवाह्यं समे धान्यादिकमिति ।।
7 अभि त्यं देवमिति अतिच्छन्दसो विधिः ।। जगत्या पराण्यतिच्छन्दांसि । तत्रेयमष्टिष्षोडशाक्षरपदा । सर्वाणि छन्दांसीति । सर्वेषां व्यापकत्वात् । सर्वेभिः । 'बहुलं छन्दसि' इत्यैसभावः । वर्ष्मेत्युच्छ्रयः, समानानामेनं यजमानमुच्छ्रितं करोति ।।
8 एकयेति विधिः ।। एकया अङ्गुळ्या उत्सृज्योत्सृज्य मिमीते । 'नित्यवीप्सयोः' इति द्विर्वचनम्, 'अनुदात्तं च' इति परस्यानुदात्तत्वम् । एकयैकयेति एकत्वविधिः, उत्सर्गमित्यङ्गुळ्युत्सर्गविधिः । आभीक्ष्ण्ये छान्दसो णमुल्, तेनैव गतत्वादाभीक्ष्ण्यस्य द्विर्वचनं न क्रियते । एवमयातयाम्न्या अगतसारया अङ्गुल्या सोमो मितो

भवति । पूर्ववद्द्विर्वचनादि । यद्यनुत्सृज्य मिमीते पुनरुक्ता गतसारैव स्यात् पूर्वेण मानेन । तस्मात् नानावीर्याः पृथग्वीर्या अङ्गुलयः; पृथङ्मानसाधनत्वात् । सर्वास्वङ्गुळीषु अङ्गुष्ठमुपनिगृह्णाति समीपे नियमेन प्रापयति । तस्मादङ्गुष्ठोऽन्याभिरङ्गुलीभिः समावद्वीर्यस्तुल्यवीर्यः । समादावतुप्प्रत्ययः । तस्मात्सर्वाभिस्तुल्यवीर्यत्वात् सर्वा अङ्गलीः अनुसंचरति तत्कार्यकरणायानुक्रमेण सञ्चरति । अथ यदि सर्वाभिस्सहभूताभिः लौकिककार्यवत्तस्य मानं कुर्यात् संश्लिष्टाः परस्परं लग्नाः अङ्गुलयो जायेरन् प्रजानाम् । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । तस्मात् - एकयेत्यादि । गतम् ।।

9 पञ्च कृत्व इत्यादिविधिः ।। क्रियाभ्यावृत्तिगणने शब्दान्तरमेवेदमाद्युदात्तं न तु प्रत्ययः । यजुषा 'अभि त्यम्' इत्यादिना । अनवसानत्वाद्यजुष्ट्वम् । पञ्चत्वसंख्यान्वयात्पाङ्क्तो यज्ञः अवरुद्धो भवति । पङ्क्ति शब्दे उत्सादित्वादञि ङित्त्वादाद्युदात्तत्वम् ।।
10 पञ्च कृत्वस्तूष्णीमिति ।। मिमीते इत्येव । दश दशमुष्टयस्संपद्यन्ते । ततश्च दशसंख्यान्वयात् दशाक्षरा विराट्परिगृहीता भवति । सा च छन्दोलक्षणा विराट्परिगृहीता अन्नात्मिकामपि विराजं प्रतिलम्भयतीति । तथा अन्नाद्यमवरुन्धे । यद्वा - अन्नं विराट् अन्नहेतुर्विराडित्यर्थः । तस्माद्विराजा अन्नाद्यमवरुन्धे । विविधं राजतीति विराट् । 'सत्सूद्विष' इति क्विप्, व्रश्चादिना षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । अन्नस्यादनमन्नाद्यम्, अन्नादनसामर्थ्यम् । छान्दसो भावे क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यदित्यादि । यस्माद्यजुषा मिमीते तस्माद्भूतमुत्पन्नमवरुन्धे व्यपदेश्यम् । यस्मात्तूष्णीं मिमीते इत्येतस्माद्भविष्यदवरुन्धे अव्यपदेश्यम्, उत्पत्स्यमानमव्यपदेश्यम् ।।
11 अथोपसमूहनं विधास्यन् आह - यद्वा इति ।। यदि तावन्मात्र एव सोमस्स्यात्, यावन्तं दशमुष्टिमात्रं मिमीते । 'यत्तदेतेभ्यः' इति वतुप्, 'आ सर्वनाम्नः' इत्यात्वम् । तथा सति यजमानस्यैव स्यात्, न सदस्यानामपि । तस्मात् 'प्रजाभ्यस्त्वा' इत्युपसमूहति तमतिरिक्तं चैकराशीकरोतीति विधिः । सदस्यानन्वाभजाति तानप्यत्रान्वाशिनः करोति ।।
12 वाससोपनह्यति बध्नातीति विधिः ।। सर्वदेवत्यमित्यादि विधिः । 'अग्नेस्तूषाधानम्' इत्यत्र सर्वदेवत्यत्वमस्योक्तम् । सर्वाभिर्देवताभिरेनं समृद्धं करोति ।।
13 पशवो वा इति ।। पशूनां कारणत्वात् । प्राणाय त्वेति । वाससोपनह्यतीति विधिः । प्राणः पशुष्वेव स्थापितो भवति । व्यानाय त्वेत्यनुशृन्थति श्लथयति बन्धमिति विधिः । श्रथि शैथिल्ये, छान्दसं संप्रसारणम्, शृन्थिर्वा द्रष्टव्यः, सर्वथा व्यत्ययेन परस्मैपदम् । व्यानमेव पशुषु दधाति । ननु श्लथने क्रियमाणे कथं व्यानस्य स्थापनं भवति? प्रत्युत च्युतिर्व्यानस्य स्यात् । अयं भावः - मध्यमा खल्वियमवस्थाऽनेन विधीयते । न दृढं बध्नाति, न च सर्वथा मुञ्चति, किन्तु बद्धाबद्धं स्थापयति मध्यमश्च व्यानः प्राणापानयोः । तस्मात् व्यानं पशुषु दधातीत्युक्तम् । तस्मात्स्वपन्तं प्राणा न जहति न त्यजन्ति । यदि हि दृढं बध्नीयात् निरुच्छ्वासः प्राणी म्रियते, सर्वात्मना मोक्षे निर्गच्छेयुरेव सर्वात्मना प्राणाः । बद्धस्थानीयश्चायं सुप्त इति स्वपन्तमित्युक्तम् ।।
इति षष्ठे प्रथमे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.9.2 TS 6.1.9.2
ॅयदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑-मर्पयति॒ तस्मा᳚थ् सोमविक्र॒यी क्षोधु॑को ऽरु॒णो ह॑ स्मा॒ऽऽ*हौप॑वेशिः सोम॒क्रय॑ण ए॒वाहं तृ॑तीय सव॒नमव॑ रुन्ध॒ इति॑ पशू॒नां चर्म॑न् मिमीते प॒शूने॒वाव॑ रुन्धे प॒शवो॒ हि तृ॒तीयꣳ॒॒ सव॑नं॒ ॅयं का॒मये॑ताप॒शुः स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत॒र्क्षं ॅवा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ् स्या॒ - [ ]
पदपाठः (Word-by-word)
यदि॑ । इत॑रम् । उ॒भये॑न । ए॒व । सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम - वि॒क्र॒यिण᳚म् । अ॒र्प॒य॒ति॒ । तस्मा᳚त् । सो॒म॒वि॒क्र॒यीति॑ सोम - वि॒क्र॒यी । क्षोधु॑कः । अ॒रु॒णः । ह॒ । स्म॒ । आ॒ह॒ । औप॑वेशि॒रित्यौप॑-वे॒शिः॒ । सो॒म॒क्रय॑ण॒ इति॑ सोम - क्रय॑णे । ए॒व । अ॒हम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । अवेति॑ । रु॒न्धे॒ । इति॑ । प॒शू॒नाम् । चर्मन्न्॑ । मि॒मी॒ते॒ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । प॒शवः॑ । हि । तृ॒तीय᳚म् । सव॑नम् । यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ । ऋ॒क्ष॒तः । तस्य॑ । मि॒मी॒त॒ । ऋ॒क्षम् । वै । अ॒प॒श॒व्यम् । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.9.3 TS 6.1.9.3
-दिति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे पशु॒माने॒व भ॑वत्य॒पामन्ते᳚ क्रीणाति॒ सर॑समे॒वैनं॑ क्रीणात्य॒-मात्यो॒ऽसीत्या॑हा॒मैवैनं॑ कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहो ऽन॒साऽच्छ॑ याति महि॒मान॑-मे॒वास्याच्छ॑ या॒त्यन॒सा - [ ]
पदपाठः (Word-by-word)
इति॑ । लो॒म॒तः । तस्य॑ । मि॒मी॒त॒ । ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् । रू॒पेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । अ॒पाम् । अन्ते᳚ । क्री॒णा॒ति॒ । सर॑स॒मिति॒ स-र॒स॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । अ॒मात्यः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒मा । ए॒व । ए॒न॒म् । कु॒रु॒ते॒ । शु॒क्रः । ते॒ । ग्रहः॑ । इति॑ । आ॒ह॒ । शु॒क्रः । हि । अ॒स्य॒ । ग्रहः॑ । अन॑सा । अच्छ॑ । या॒ति॒ । म॒हि॒मान᳚म् । ए॒व । अ॒स्य॒ । अच्छ॑ । या॒ति॒ । अन॑सा ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.9.4 TS 6.1.9.4
ऽच्छ॑ याति॒ तस्मा॑दनोवा॒ह्यꣳ॑ स॒मे जीव॑नं॒ ॅयत्र॒ खलु॒ वा ए॒तꣳ शी॒र्ष्णा हर॑न्ति॒ तस्मा᳚च्छीर्.षहा॒र्यं॑ गि॒रौ जीव॑नम॒भि त्यं दे॒वꣳ स॑वि॒तार॒मित्यति॑-च्छन्दस॒र्चा मि॑मी॒ते ऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्मिमीते॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ ॅयदति॑च्छन्दा॒ यदति॑च्छन्दस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करो॒त्येक॑यैकयो॒थ् सर्गं॑- [ ]
पदपाठः (Word-by-word)
अच्छ॑ । या॒ति॒ । तस्मा᳚त् । अ॒नो॒वा॒ह्य॑मित्य॑नः - वा॒ह्य᳚म् । स॒मे । जीव॑नम् । यत्र॑ । खलु॑ । वै । ए॒तम् । शी॒र्ष्णा । हर॑न्ति । तस्मा᳚त् । शी॒र्॒.ष॒हा॒र्य॑मिति॑ शीर्.ष-हा॒र्य᳚म् । गि॒रौ । जीव॑नम् । अ॒भीति॑ । त्यम् । दे॒वम् । स॒वि॒तार᳚म् । इति॑ । अति॑च्छन्द॒सेत्यति॑ - छ॒न्द॒सा॒ । ऋ॒चा । मि॒मी॒त॒ । अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । वै । सर्वा॑णि । छन्दाꣳ॑सि । सर्वे॑भिः । ए॒व । ए॒न॒म् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । मि॒मी॒ते॒ । वर्ष्म॑ । वै । ए॒षा । छन्द॑साम् । यत् । अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । यत् । अति॑च्छन्द॒सेत्यति॑-छ॒न्द॒सा॒ । ऋ॒चा । मिमी॑ते । वर्ष्म॑ । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । एक॑यैक॒येत्येक॑या - ए॒क॒या॒ । उ॒थ्सर्ग॒मित्यु॑त् - सर्ग᳚म् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.9.5 TS 6.1.9.5
मिमी॒ते ऽया॑तयाम्नियायातयाम्नियै॒वैनं॑ मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑यः॒ सर्वा᳚स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मा᳚थ् स॒माव॑द्वीर्यो॒ऽन्याभि॑-र॒ङ्गुलि॑भि॒स्तस्मा॒थ् सर्वा॒ अनु॒ सं च॑रति॒ यथ् स॒ह सर्वा॑भि॒र्मिमी॑त॒ सꣳश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒-न्नेक॑यैकयो॒थ् सर्गं॑ मिमीते॒ तस्मा॒द् विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीं- [ ]
पदपाठः (Word-by-word)
मि॒मी॒ते॒ । अया॑तयाम्नियायातयाम्नि॒येत्यया॑तयाम्निया-अ॒या॒त॒या॒म्नि॒या॒ । ए॒व । ए॒न॒म् । मि॒मी॒ते॒ । तस्मा᳚त् । नाना॑वीर्या॒ इति॒ नाना᳚ - वी॒र्याः॒ । अ॒ङ्गुल॑यः । सर्वा॑सु । अ॒ङ्गु॒ष्ठम् । उप॑ । नीति॑ । गृ॒ह्णा॒ति॒ । तस्मा᳚त् । स॒माव॑द्वीर्य॒ इति॑ स॒माव॑त् - वी॒र्यः॒ । अ॒न्याभिः॑ । अ॒ङ्गुलि॑भि॒रित्य॒ङ्गुलि॑ - भिः॒ । तस्मा᳚त् । सर्वाः᳚ । अनु॑ । समिति॑ । च॒र॒ति॒ । यत् । स॒ह । सर्वा॑भिः । मिमी॑त । सꣳश्लि॑ष्टा॒ इति॒ सं - श्लि॒ष्टाः॒ । अ॒ङ्गुल॑यः । जा॒ये॒र॒न्न् । एक॑यैक॒येत्येक॑या-ए॒क॒या॒ । उ॒थ्सर्ग॒मित्यु॑त् - सर्ग᳚म् । मि॒मी॒ते॒ । तस्मा᳚त् । विभ॑क्ता॒ इति॒ वि - भ॒क्ताः॒ । जा॒य॒न्ते॒ । पञ्च॑ । कृत्वः॑ । यजु॑षा । मि॒मी॒ते॒ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । पञ्च॑ । कृत्वः॑ । तू॒ष्णीम् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.1.9.6 TS 6.1.9.6
-दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒ यद् यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुन्धे॒ यत् तू॒ष्णीं भ॑वि॒ष्यद्-यद्-वै तावा॑ने॒व सोमः॒ स्याद् याव॑न्तं॒ मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नां प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वा भ॑जति॒ वास॒सोप॑ नह्यति सर्वदे॒वत्यं॑ ॅवै - [ ]
पदपाठः (Word-by-word)
दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । अवेति॑ । रु॒न्धे॒ । यत् । यजु॑षा । मिमी॑ते । भू॒तम् । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । तू॒ष्णीम् । भ॒वि॒ष्यत् । यत् । वै । तावान्॑ । ए॒व । सोमः॑ । स्यात् । याव॑न्तम् । मिमी॑ते । यज॑मानस्य । ए॒व । स्या॒त् । न । अपीति॑ । स॒द॒स्या॑नाम् । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । त्वा॒ । इति॑ । उप॑ । समिति॑ । ऊ॒ह॒ति॒ । स॒द॒स्यान्॑ । ए॒व । अ॒न्वाभ॑ज॒तीत्य॑नु-आभ॑जति । वास॑सा । उपेति॑ । न॒ह्य॒ति॒ । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । वै ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.1.9.7 TS 6.1.9.7
वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्द्धयति प॒शवो॒ वै सोमः॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा᳚थ् स्व॒पन्तं॑ प्रा॒णा न ज॑हति ॥
पदपाठः (Word-by-word)
वासः॑ । सर्वा॑भिः । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । प॒शवः॑ । वै । सोमः॑ । प्रा॒णायेति॑ प्र - अ॒नाय॑ । त्वा॒ । इति॑ । उपेति॑ । न॒ह्य॒ति॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । व्या॒नायेति॑ वि - अ॒नाय॑ । त्वा॒ । इति॑ । अन्विति॑ । शृ॒न्थ॒ति॒ । व्या॒नमिति॑ वि - अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । तस्मा᳚त् । स्व॒पन्त᳚म् । प्रा॒णा इति॑ प्र - अ॒नाः । न । ज॒ह॒ति॒ ॥
पदसंख्या: 33