पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
एतं मन्त्रं व्याचिख्यासुरादौ सोमविक्रियणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति — “ब्रह्मवादिनो वदन्ति। विचित्यः सोमा३ न विचित्या३ इति। सोमो वा ओषधीना राजा तस्मिन्यदापन्नं ग्रसितमेवास्य तद्यद्विचिनुयाद्यथाऽऽस्याद्ग्रसितं निष्खिदति तादृगेव तद्यन्न विचिनुयाद्यथाऽक्षन्नापन्नं विधावति तादृगेव तत्क्षोधुकोऽध्वर्युः स्यात्क्षोधुको यजमानः सोमविक्रयिन्त्सोम शोधयेत्येव ब्रूयाद्यदीतरं यदीतरमुभयेनैव सौमविक्रयिणमर्पयति तस्मात्सोमविक्रयी क्षोधुकः” [सं. का. ६ प्र. १ अ. ९] इति।
विचयो नाम सोमस्य तृणादेरपनयनम्। तस्मिन्नोषधीनां राज्ञि सोमे यत्तृणादिकमापन्नं पतितं तत्तृणादिकमस्य सोमस्य ग्रसितमेव ग्रास एव भवति। तथा सति यदि विचिनुयात्तृणादिकमपनयेत्तदानीं यथा लोके ग्रसितमन्नं निष्खिदति मक्षिकाद्युपद्रवेण वमति तत्तृणाद्यपनयनं तादृक्स्यात्। यदि न विचिनुयात्तदानीं यथा चक्षुषि पतितमितस्ततो विधावनेन व्यथां जनयति तदविवेचनं तादृक्स्यात्। ततो दोषद्वयपरिहाराय सोमविक्रयिन्नित्यादिप्रैषमन्त्रं ब्रूयात्। तस्मिन्नुक्ते सति यदीतरमितरो विचयदोषः, यदीतरं त्वविचयदोषस्तेनोभयेन दोषेण सोमविक्रयिणमेव योजयति। तस्मादसौ क्षोधुको न रक्षितो भवेत्।
यथोक्तं कर्म विधत्ते —
“अरुणो ह स्माऽऽहौपवेशिः सोमक्रयण एवाहं तृतीयसवनमव रुन्ध इति पशूनां चर्मन्मिमीते पशुनेवाव रुन्धे पशवो हि तृतीय सवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
अरुणनामकः कश्चिदुपवेशस्य पुत्रः पशुचर्मणि सोम मिमीते। अत्रैव हि तृतीयसवनं संपदयिष्यामिति तस्याभिप्रायः। सवनीयानुबन्ध्याख्ययोः पश्वोस्तृतीयसवने सद्भावात्पशवस्तृतीयसवम्। अतः पशुचर्मणा तत्प्राप्तिः सोमोन्मानं तत्र कुर्यादित्यर्थः।
चर्मण उत्तरलोमास्तरणं विधत्ते —
“यं कामयेतापशुः स्यादित्यृक्षतस्तस्य मिमीतर्क्षं वा अपशव्यमपशुरेव भवति यं कामयेत पशुमान्त्स्यादिति लोमतस्तस्य मिमीतैतद्वै पशूना रूप रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति” (सं. का. ६ प्र. १ अ. ९) इति।
ऋक्षतो रूक्षे परुषे निर्लोमभागे। लोमतः सलोमभागे।
उदकुम्भसंनिधिं विधत्ते —
“अपामन्ते क्रीणाति सरसमेवैनं क्रीणाति” (सं. का. ६ प्र. १ अ. ९) इति।
मन्त्रे दुर्बोधभागं व्याचष्टे —
“अमात्योऽसीत्याहामैवैनं कुरुते शुक्रस्ते ग्रह इत्याह शुक्रो ह्यस्य ग्रहः” (सं. का. ६ प्र. १ अ. ९) इति।
अमैव सहैव स्थित इत्यर्थः सोमस्वीकारः शुक्रो हि सुवर्णसाध्यो हीत्यर्थः।
शकटेन सह सोमं प्राप्तुं गच्छेदिति विधत्ते —
“अनसाऽच्छ याति महिमानमेवास्याच्छ याति” (सं. का. ६ प्र. १ अ. ९) इति।
शकटरूपेण बहुमानेन सोमस्य महिमा प्रकाशितो भवति।
तमेव विधिमनूद्य प्रशंसति —
“अनसाऽच्छ याति तस्मादनोवाह्य समे जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
समे प्रदेशे जीवनसाधनं धान्यं शकटवाह्यं तद्वत्सोमः।
विषमे तु प्रदेशे शिरसा सोमवाहनं विधत्ते —
“यत्र खलु वा एत शीर्ष्णा हरन्ति तस्माच्छीर्षहार्यं गिरौ जीवनम्” (सं. का. ६ प्र. १ अ. ९) इति।
यत्र यदा पर्वते सोमलतोत्पत्तिप्रदेशे सोमं क्रीणन्ति तदेति शेषः। लोकेऽपि दुर्गमे गिरौ धान्यं शिरसा वहन्ति।
एतस्यामृचि वर्तमानं छन्दः प्रशंसति —
“अभित्यं देव सवितारमित्यतिच्छन्दसर्चा मिमीतेऽतिच्छन्दा वै सर्वाणि छन्दासि सर्वेभिरेवैनं छन्दोभिर्मिमीते वर्ष्म वा एषा छन्दसां यदतिच्छन्दा यदतिच्छन्दसर्चा मिमीते वर्ष्मैवैन समानानां करोति” (सं. का. ६ प्र. १ अ. ९) इति।
अक्षराधिक्येन गायत्र्यादीनि च्छन्दांस्यतिक्रम्य वर्तत इत्यतिच्छन्दाः वर्ष्म शरीरम्।
अङ्गुलीषु प्रकारविशेर्ष विधत्ते —
“एकयैकयोत्सर्गं मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते तस्मान्नानावीर्या अङ्गुलयः” [सं. का. ६ प्र. १ अ. ९] इति।
उत्सर्गमुत्सृज्योत्सृज्य कनिष्ठिकैव प्रथमपर्यायेऽनामिकैव द्वितीये मध्यमैव तृतीये तर्जन्येव चतुर्थे। एवं सति सकृत्प्रवृत्ताया अङ्गुल्याः पुनः प्रवृत्त्यभावाद्यातयामत्वं गतरसत्वं न भविष्यति। यस्मात्पर्यायेण प्रवृत्तास्तस्मात्प्रत्येकमङ्गुष्ठेन संयोक्तुं पृथक्सामर्थ्येऽर्पिताः।
अङ्गुष्ठस्य पर्यायो नास्तीत्यमुमर्थं विधत्ते —
“सर्वास्वङ्गुष्ठमुप निगृह्णाति तस्मात्समावद्वीर्योऽन्याभिरङ्गुलिभिस्तस्मात्सर्वा अनु सं चरति” (सं. का. ६ प्र. १ अ. ९) इति।
कनिष्ठिकादिषु सर्वास्वङ्गुलीषु प्रत्येकमङ्गुष्ठं संयोजयेत्। समावद्वीर्यस्तुल्यसामार्थ्यः। तस्माल्लोकव्यवहारेऽपि प्रत्येकं सर्वा अङ्गुलीरनुसंचरति।
विपक्षबाधकपूर्वकं पूर्वोक्तं स्वपक्षमुपसंहरति —
“यत्सह सर्वाभिर्मिमीत सश्लिष्टा अङ्गुलयो जायेरन्नेकयैकयोत्सर्गं मिमीते तस्माद्विभक्ता जायन्ते” (सं. का. ६ प्र. १ अ. ९) इति।
समन्त्रकामन्त्रकयोः सोमोन्मानयोरावृत्तिसंख्यां विधत्ते —
“पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे यद्यजुषा मिमीते भूतमेवाव रुन्धे यत्तूष्णीं भविष्यत्” (सं. का. ६ प्र. १ अ. ९) इति।
यद्यपि अतिच्छन्दसर्चेत्याम्नानात्पदार्थरूपस्य लक्षणस्य सद्भावाच्चाभित्यमित्येषर्गेव तथाऽपि युज्यते प्रयुज्यत इति व्युत्पत्तिमभिप्रेत्य यजुषेत्युक्तम्। अङ्गुष्ठस्य क्रमेण कनिष्ठिकादिभिः सह चत्वारः पर्यायाः। समन्त्रके प्रयोगे
कनिष्ठिकाव्यतिरिक्तया कयाचित्सह पञ्चमः पर्यायः अमन्त्रके तु कनिष्ठिकयैव सह।
अवशेषणे बाधं ब्रुवन्यथोक्तं समूहनादिकं विधत्ते —
“यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां प्रजाभ्यस्त्वेत्युप समूहति सदस्यानेवान्वाभजति वाससोप नह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्थयति पशवो वै सोमः प्राणाय त्वेत्युपनह्यति प्राणमेव पशुषु दधाति व्यानाय त्वेत्यनु शृन्थति व्यानमेव पशुषु दधाति तस्मात्स्वपन्तं प्राणा न जहति” (सं. का. ६ प्र. १ अ. ९) इति।
दशकृत्वोङ्गुलिभिर्मितात्सोमस्यानाधिक्ये सत्येतस्मिन्सदस्यवस्थितानामपि सोमो न स्यान्मन्त्रेण समूहने तु यजमानमनु सदस्यान्सोमं प्रापयति। प्राणव्यानयोः पशुषु स्थापितत्वात्स्वापेऽपि नास्ति प्राणपरित्यागः।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
'ब्रह्मवादिन इत्यादि ।। विचित्य विवेचनीयः तृणादिभ्यः सोमः; किं वा न विचित्यः; इति विचारं वदन्ति ब्रह्मवादिनः । विपूर्वाच्चिनोतेः छान्दसः क्यप्, कृदुत्तरप्रकृतिस्वरत्वेन धातुस्वरः । सोमशब्दो मन्प्रत्ययान्त आद्युदात्तः । तस्य टेः 'विचार्यमाणानाम्' इत्युदात्तः प्लुतः, तस्यासिद्धत्वाद्वर्ज्यमानस्वरप्रवृत्तिः । एवं न विचित्यः इत्यत्रापि । कुतः पुनस्संशय इत्याह - सोमो वा इति । आपन्नं प्रविष्टं सोमव्यतिरिक्तं तदस्य प्रसितमेव अनेनौषधिराजेन भुक्तमेव तत् । सबन्धसामान्यविवक्षया षष्ठी । 'ग्रसितस्कभित' इति निपात्यते । आपन्नशब्दे अकर्मण्यपि क्ते व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । एवं स्थिते यदि विचिनुयात्, यया आस्याद्ग्रसितं निष्खिदति निष्कर्षति भुक्तं तादृगेव तत् । खिद दैन्ये, तौदादिकः । अथैष दोषो मा भूदिति यदि न विचिनुयात, ययाऽक्षन् अक्षणि आपन्नं प्रविष्टं तूलादिकं विधावति अक्षिणी विविधमाकलयति पीडयति तादृगेव तत् । अक्ष्णस्सप्तम्याः 'सुपां सुलुक्' इति लुक्, 'न डिसंबुद्ध्योः' इति नलोपप्रतिषेधः । तस्मादवश्यं विचेतव्य एव । ततश्च क्षोधुकः क्षुच्छील अध्वर्युर्यजमानश्च स्यात् । छान्दस उकञ् । तस्माद्भवति संशय इति ।।
भवति । पूर्ववद्द्विर्वचनादि । यद्यनुत्सृज्य मिमीते पुनरुक्ता गतसारैव स्यात् पूर्वेण मानेन । तस्मात् नानावीर्याः पृथग्वीर्या अङ्गुलयः; पृथङ्मानसाधनत्वात् । सर्वास्वङ्गुळीषु अङ्गुष्ठमुपनिगृह्णाति समीपे नियमेन प्रापयति । तस्मादङ्गुष्ठोऽन्याभिरङ्गुलीभिः समावद्वीर्यस्तुल्यवीर्यः । समादावतुप्प्रत्ययः । तस्मात्सर्वाभिस्तुल्यवीर्यत्वात् सर्वा अङ्गलीः अनुसंचरति तत्कार्यकरणायानुक्रमेण सञ्चरति । अथ यदि सर्वाभिस्सहभूताभिः लौकिककार्यवत्तस्य मानं कुर्यात् संश्लिष्टाः परस्परं लग्नाः अङ्गुलयो जायेरन् प्रजानाम् । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । तस्मात् - एकयेत्यादि । गतम् ।।