अनुवाकः 4 TS 6.1.4

(A4)

(भु॒ञ्ज॒ते॒ - ऽयं - छि॑न्द्याद् - रुन्धे॒ - ऽग्नि - रा॑ह दे॒व - इय॑द् - दे॒वता᳚भ्य॒ आ - त्रय॑स्त्रिꣳशच्च)

अनुवाकः 4 - Complete Audio

TS 6.1.4 - स्वरानुगामी

0:00 0:00
PS1.1 वाग्वै दे॒वेभ्यो ऽपा᳚क्रामद्-य॒ज्ञायाति॑ष्ठमाना॒ सा
PS1.2 वन॒स्पती॒न् प्रावि॑श॒थ् सैषा वाग्वन॒स्पति॑षु
PS1.3 वदति॒ या दु॑न्दु॒भौ या
PS1.4 तूण॑वे॒ या वीणा॑यां॒ ॅयद्-दी᳚क्षितद॒ण्डं
PS1.5 प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्ध॒ औदु॑बंरो
PS1.6 भव॒त्यूर्ग्वा उ॑दु॒बंर॒ ऊर्ज॑मे॒वाव॑ रुन्धे॒
PS1.7 मुखे॑न॒ संमि॑तो भवति मुख॒त
PS1.8 ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्
PS1.9 मुख॒त ऊ॒र्जा भु॑ञ्जते -
PS1.10 [ ]
PS2.1 क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डं
PS2.2 प्र य॑च्छति मैत्रावरु॒णो हि
PS2.3 पु॒रस्ता॑-दृ॒त्विग्भ्यो॒ वाचं॑ ॅवि॒भज॑ति॒ तामृ॒त्विजो॒
PS2.4 यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑
PS2.5 य॒ज्ञ्ं मन॒सेत्या॑ह॒ मन॑सा॒ हि
PS2.6 पुरु॑षो य॒ज्ञ्म॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒
PS2.7 -मित्या॑ह॒ द्यावा॑पृथि॒व्योर्.हि य॒ज्ञ्ः स्वाहो॒रोर॒-न्तरि॑क्षा॒
PS2.8 -दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञ्ः स्वाहा॑
PS2.9 य॒ज्ञ्ं ॅवाता॒दा र॑भ॒ इत्या॑हा॒यं
PS2.10 - [ ]
PS3.1 ॅवाव यः पव॑ते॒ स
PS3.2 य॒ज्ञ्स्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी
PS3.3 क॑रोति॒ वाचं॑ ॅयच्छति य॒ज्ञ्स्य॒
PS3.4 धृत्या॒ अदी᳚क्षिष्टा॒यं ब्रा᳚ह्म॒ण इति॒
PS3.5 त्रिरु॑पाꣳ॒॒श्वा॑ह दे॒वेभ्य॑ ए॒वैनं॒ प्राऽऽ*ह॒
PS3.6 त्रिरु॒च्चैरु॒भये᳚भ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒ प्राऽऽ*ह॒
PS3.7 न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒
PS3.8 ॅवि सृ॑जे॒द्-यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑
PS3.9 ॅविसृ॒जेद्- य॒ज्ञ्ं ॅविच्छि॑न्द्या॒ -
PS3.10 [ ]
PS4.1 -दुदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒
PS4.2 वाचं॒ ॅवि सृ॑जति य॒ज्ञ्व्र॑तो॒
PS4.3 वै दी᳚क्षि॒तो य॒ज्ञ्मे॒वाभि वाचं॒
PS4.4 ॅवि सृ॑जति॒ यदि॑ विसृ॒जेद्-वै᳚ष्ण॒वीमृच॒मनु॑
PS4.5 ब्रूयाद्-य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञ्ꣳ
PS4.6 सं त॑नोति॒ दैवीं॒ धियं॑
PS4.7 मनामह॒ इत्या॑ह य॒ज्ञ्मे॒व तन्म्र॑दयति
PS4.8 सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒
PS4.9 व्यु॑ष्टिमे॒वाव॑ रुन्धे - [
PS4.10 ]
PS5.1 ब्रह्मवा॒दिनो॑ वदन्ति होत॒व्यं॑ दीक्षि॒तस्य॑
PS5.2 गृ॒हा(3) इ न हो॑त॒व्या(3)मिति॑
PS5.3 ह॒विर्वै दी᳚क्षि॒तो यज्जु॑हु॒याद्-यज॑मानस्याव॒दाय॑ जुहुया॒द्-यन्न
PS5.4 जु॑हु॒याद्-य॑ज्ञ्प॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒
PS5.5 इत्या॑ह प्रा॒णा वै दे॒वा
PS5.6 मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोक्षं॑ जुहोति॒
PS5.7 तन्नेव॑ हु॒तं नेवाहु॑तꣳ स्व॒पन्तं॒
PS5.8 ॅवै दी᳚क्षि॒तꣳ रक्षाꣳ॑सि जिघाꣳसन्त्य॒ग्निः-
PS5.9 [ ]
PS6.1 खलु॒ वै र॑क्षो॒हाऽग्ने॒ त्वꣳ
PS6.2 सु जा॑गृहि व॒यꣳ सु
PS6.3 म॑न्दिषीम॒हीत्या॑हा॒ग्नि-मे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या
PS6.4 अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒
PS6.5 यो दी᳚क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने
PS6.6 व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां᳚ ॅव्र॒तप॑तिः॒
PS6.7 स ए॒वैनं॑ ॅव्र॒तमा ल॑भंयति
PS6.8 दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वो
PS6.9 - [ ]
PS7.1 ह्ये॑ष सन् मर्त्ये॑षु॒ त्वं
PS7.2 ॅय॒ज्ञेष्वीड्य॒ इत्या॑है॒तꣳ हि य॒ज्ञेष्वीड॒तेऽप॒
PS7.3 वै दी᳚क्षि॒ताथ् सु॑षु॒पुष॑ इन्द्रि॒यं
PS7.4 दे॒वताः᳚ क्रामन्ति॒ विश्वे॑ दे॒वा
PS7.5 अ॒भि मामाऽव॑वृत्र॒-न्नित्या॑-हेन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं
PS7.6 न॑यति॒ यदे॒तद्-यजु॒र्न ब्रू॒याद्-याव॑त ए॒व
PS7.7 प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑
PS7.8 स्यू॒ रास्वेय॑थ् - [
PS7.9 ]
PS8.1 सो॒माऽऽ* भूयो॑ भ॒रेत्या॒हा-प॑रिमिताने॒व प॒शूनव॑
PS8.2 रुन्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य
PS8.3 भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति
PS8.4 वा॒यवे᳚ त्वा॒ वरु॑णाय॒ त्वेति॒
PS8.5 यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवतं॒ दक्षि॑णा गमये॒दा
PS8.6 दे॒वता᳚भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑
PS8.7 यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न
PS8.8 दे॒वता᳚भ्य॒ आ - [
PS8.9 ]
PS9.1 वृ॑श्च्यते॒ देवी॑रापो अपां नपा॒दित्या॑ह॒
PS9.2 यद्वो॒ मेद्ध्यं॑ ॅय॒ज्ञियꣳ॒॒ सदे॑वं॒
PS9.3 तद्वो॒ माऽव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒
PS9.4 तन्तुं॑ पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒
PS9.5 सेतु॑मे॒व कृ॒त्वाऽत्ये॑ति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.4.1 TS 6.1.4.1
वाग्वै दे॒वेभ्यो ऽपा᳚क्रामद्-य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न् प्रावि॑श॒थ् सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑यां॒ ॅयद्-दी᳚क्षितद॒ण्डं प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुन्ध॒ औदु॑बंरो भव॒त्यूर्ग्वा उ॑दु॒बंर॒ ऊर्ज॑मे॒वाव॑ रुन्धे॒ मुखे॑न॒ संमि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न् मुख॒त ऊ॒र्जा भु॑ञ्जते - [ ]
पदपाठः (Word-by-word)
वाक् । वै । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । य॒ज्ञाय॑ । अति॑ष्ठमाना । सा । वन॒स्पतीन्॑ । प्रेति॑ । अ॒वि॒श॒त् । सा । ए॒षा । वाक् । वन॒स्पति॑षु । व॒द॒ति॒ । या । दु॒न्दु॒भौ । या । तूण॑वे । या । वीणा॑याम् । यत् । दी॒क्षि॒त॒द॒ण्डमिति॑ दीक्षित-द॒ण्डम् । प्र॒यच्छ॒तीति॑ प्र-यच्छ॑ति । वाच᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । औदु॑म्बरः । भ॒व॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । मुखे॑न । सम्मि॑त॒ इति॒ सं - मि॒तः॒ । भ॒व॒ति॒ । मु॒ख॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । मु॒ख॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

यजमानाय दण्डप्रदानं विधत्ते —

‘वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना सा वनस्पतीन्प्राविशत्सैषा वाग्वनस्पतिषु वदति या दुंदुभौ या तूष्णवे या वीणायां यद्दीक्षितदण्डं प्रयच्छति वाचमेवावरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।

तूणवो वेणुः।

क्रमेण गुणौ विधत्ते —

‘औदुम्बरो भवत्यूर्ग्वा उदुम्बर ऊर्जमेवावरुन्धे मुखेन संमितो भवति मुखत एवास्मा ऊर्जं दधाति तस्मान्मुखत ऊर्जा भुञ्जते’ (सं. का. ६ प्र. १ अ. ४) इति।

यजमानस्य दण्डत्यागं विधत्ते —

‘क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति मैत्रावरुणो हि पुरस्तादृत्विग्भ्यो वाचं विभजति तामृत्विजो यजमाने प्रतिष्ठापयन्ति’ (सं. का. ६ प्र. १ अ. ४) इति।

मैत्रावरुणस्तत्र तत्र प्रैषैस्तेभ्य ऋत्विग्भ्यो मन्त्रान्विभजति। ते च ऋत्विजो यजमानार्थं तान्मन्त्रन्पठन्ति। अतो मैत्रावरुणस्य वाग्रूपो दण्डो युक्तः।

तदेतद्दर्शयति —

‘स्वाहा यज्ञं मनसेत्याह मनसा हि पुरुषो यज्ञमभिगच्छति। स्वाहा द्यावापृथिवीभ्यामित्याह द्यावापृथिव्यार्हि यज्ञः स्वाहोरोरन्तरिक्षादित्याहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं वातादा रभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते’ (सं. का. ६ प्र. १ अ. ४) इति।

वातस्य क्रियाहेतुत्वाद्यज्ञरूपत्वम्।

अत्र द्वयोर्हस्तयोः कनिष्ठिकामारभ्य चतसृणामङ्गुलीनां चतुभिर्मन्त्रैर्न्यग्भावः। पञ्चमेन मन्त्रेणाङ्गुष्ठाभ्यां दृढमुष्टिबन्धौ वाङ्नियमश्च।

तदेतद्विधत्ते —

‘मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै’ (सं. का. ६ प्र. १ अ. ४) इति।

अप्रमत्तत्वं यज्ञधृतिः।

अध्वर्योः कंचिन्मन्त्रमुत्पाद्य विनियुङ्क्ते —

‘अदीक्षिष्टायं ब्राह्मण इति त्रिरुपाश्चाह देवेभ्य एवैनं प्राह त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह’ (सं. का. ६ प्र. १ अ. ४) इति।

स्वीकृतवाङ्नियमस्य नक्षत्रोदयात्पुरा विमोकं निषेधति —

‘न पुरा नक्षत्रेभ्यो वाचं विसृजेद्यत्पुरा नक्षत्रेभ्यो वाचं विसृजेद्यज्ञं विच्छिन्द्यात्’ (सं. का. ६ प्र. १ अ. ४) इति।

कालविशेषे वाग्विमोकं विधत्ते, विमोककाले च वक्तव्यं कंचित्प्रैषमन्त्रमुत्पादयति —

‘उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं विसृजति यज्ञव्रतो वै दीक्षितो यज्ञमेवाभि वाचं विसृजति’ (सं. का. ६ प्र. १ अ. ४) इति।

यज्ञार्थं स्वीकृतं वाङ्नियमादिरूपं व्रतं यस्यासौ यज्ञव्रतः। तथा सत्यस्य क्षीरसंपादनप्रैषस्यापि यज्ञार्थत्वान्नायं वाग्विमोको दोषकारी।

नक्षत्रोदयात्पुरा लौकिकवागुच्चारणे प्रायश्चित्तमाह —

‘यदि विसृजेद्वैष्णविमृचमनुब्रूयाद्यज्ञो वै विष्णुर्यज्ञेनैव यज्ञ संतनोति’ (सं. का. ६ प्र. १ अ. ४) इति।

वैष्णवी विष्णो त्वं नो अन्तम इति केचित्। इदं विष्णुरित्यन्ये।

सुमृडीकामिति पदस्याभिप्रायमाह —

“दैवीं धियं मनामह इत्याह यज्ञमेव तन्म्रदयति” (सं. का. ६ प्र. १ अ. ४) इति।

मृदू करोतीत्यर्थः।

सुपारेति पदेन यत्सूचितं तदाह —

“सुपारा नो असद्वश इत्याह व्युष्टिमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ४) इति।

व्युष्टिः सुप्रभातं कृत्स्नयज्ञप्रकाशनमित्यर्थः।

विचारपुरःसरं व्रतं विधत्ते —

“ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा३इ न होतव्या३मिति हविर्वै दीक्षितो यज्जुहुयाद्यजमानस्यावदाय जुहुयाद्यन्न जुहुयाद्यज्ञपरुरनन्तरियाद्ये देवा मनोजाता मनोयुज इत्याह प्राणा वै देवा मनोजाता मनोयुजस्तेष्वेव परोक्षं जुहोति तन्नेव हुतं नेवाहुतम्” (सं. का. ६ प्र. १ अ. ४) इति।

भयप्रसक्तिं दर्शयन्मन्त्रं व्याचष्टे —

“स्वपन्तं वै दीक्षित रक्षासि जिघासन्त्यग्निः खलु वै रक्षोहाऽग्ने त्वसु जागृहि वयसु मन्दिषीमहीत्याहाग्निमेवाधिपां कृत्वा स्वपिति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ४) इति।

व्रतभ्रंशप्रसक्तिं दर्शयन्प्रथमं पादं व्याचष्टे —

‘अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति त्वमग्ने व्रतपा असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमालम्भयति’ (सं. का. ६ प्र. १ अ. ४) इति।

अविकलं करोतीत्यर्थः।

मनुष्येषु च्छिन्नं व्रतं मनुष्यावतारेण पालयतीति शङ्का वारयन्द्वितीयपादं व्याचष्टे —

‘देव आ मर्त्येष्वेत्याह देवो ह्येष सन्मर्त्येषु’ (सं. का. ६ प्र. १ अ. ४) इति।

अतो व्रतं समाधातुं शक्नोति।

अग्निर्मूर्धा दिवः ककुदित्यादियाज्यापुरोनुवाक्यादिमन्त्रेष्वाग्नेः स्तूयत इत्यभिप्रायं तृतीयपादे स्वयं दर्शयति —

‘त्वं यज्ञेष्वीड्य इत्याहैत हि यज्ञेष्वीडते’ (सं. का. ६ प्र. १ अ. ४) इति।

प्रबुद्धो जपेदित्येतद्व्याचष्टे —

“अप वै दीक्षितात्सुषुपुष इन्द्रियं देवताः क्रामन्ति विश्वे देवा अभि मामाऽववृत्रन्नित्याहेन्द्रियेणैवैनं देवताभिः संनयति” (सं. का. ६ प्र. १ अ. ४) इति।

सुषुपुषः सुप्तात्। अतीन्द्रियसामर्थ्येन तदभिमानिदेवताभिश्चायं मन्त्रः संयोजयति।

विपक्षबाधपुरःसरमाऽऽभूयो भरेत्यमुं मन्त्रभागं व्याचष्टे —

‘यदेतद्यजुर्न ब्रूयाद्यावत एव पशूनभिदीक्षेत तावन्तोऽस्य पशवः स्यू रास्वेयत्सोमाऽऽभूयो भरेत्याहापरिमितानेव पशूनवरुन्धे’ (सं. का. ६ प्र. १ अ. ४) इति।

‘दीक्षाकाले विद्यमानान्यावतः पशूनभिप्राप्य दीक्षेत मन्त्रानुक्तौ तावन्त एव स्युः। मन्त्रोक्तौ तु तत्सामर्थ्यादपरिमिताः परलोके भवन्ति। पशुभिर्द्रव्यान्तराण्युपलक्ष्यन्ते। चन्द्रमसि मम भोगाय भव वस्त्रमसि मम भोगाय भवोस्राऽसि मम भोगाय भव हयोऽसि मम भोगाय भव च्छागोऽसि मम भोगाय भव मेषोऽसि मम भोगाय भवेत्येभिर्मन्त्रैर्यथालिङ्गं वसु स्वीकर्तव्यम्। चन्द्रं हिरण्यम्। उस्रा गौः।

तेन तेन मन्त्रेण तत्तद्द्रव्याभिमानिदेवतास्तुष्यन्तीत्याह —

‘चन्द्रमसि मम भोगाय भवेत्याह यथादेवतमेवैनाः प्रतिगृह्णाति’ (सं. का. ६ प्र. १ अ. ४) इति।

एना हिरण्यादिरूपा दित्सिता दक्षिणाः।

विपक्षस्वपक्षयोर्दूषणभूषणे दर्शयति —

“वायवे त्वा वरुणाय त्वेति यदेवमेता नानुदिशेदयथादेवतं दक्षिणा गमयेदा देवताभ्यो वृश्च्येत यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा गमयति न देवेताभ्य आ वृश्च्यते” (सं. का. ६ प्र. १ अ. ४) इति।

हविष्यशब्दाभिप्रायमाह —

“देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञिय सदेवं तद्वो माऽव क्रमिषमिति वावैतदाह” (सं. का. ६ प्र. १ अ. ४) इति।

इति वाव, इत्येव।

तन्तुशब्दाभिप्रायमाह —

“अच्छिन्नं तन्तुं पृथिव्या अनुगेषमित्याह सेतुमेव कृत्वाऽत्येति” (सं. का. ६ प्र. १ अ. ४) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 दीक्षितदण्डप्रदानं विधास्यन् आह - वाग्वा इत्यादि ।। यज्ञार्थं देवेभ्योऽतिष्ठमाना अप्रकाशमाना अप्रकाशनहेतोः वाग्देवेभ्योऽपाक्रामत् । पूर्ववत्संप्रदानत्वमात्मनेपदत्वं च । ततस्सा वनस्पतीन्प्राविशत् । उक्तं पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्, सुडागमश्च । ततः प्रभृति सैषा वाग्वनस्पतिषु स्थिता वदति व्यक्तमुच्चरति । या दुन्दुभौ वदति, या च तूणवे वदति, या च वीणायां वदति । तस्माद्यद्दीक्षितदण्डं प्रददाति वाचमेवावरुन्धे यजमानः, तस्माद्दीक्षितदण्डं प्रयच्छतीति विधिरनुमीयते ।।
2 औदुम्बरो भवतीति विधिः ।। स दीक्षितदण्डः औदुम्बरः कार्यः । उदुम्बरस्य विकार औदुम्बरः, 'अनुदात्तादेश्च' इत्यञ् । ऊर्ग्वा इत्यादि । ऊर्गन्नं तद्धेतुत्वादौदुम्बरस्य तत्प्रकृतेस्ताच्छब्द्यम् ।।
3 मुखेन सम्मितो भवतीति विधिः ।। स दण्डो मुखेनास्येन सम्मितस्तुल्यः सुखप्रमाणः कर्तव्यः । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । मुखत एव अस्मै अन्नं दधाति, तस्मान्मुखे सेर्वेऽप्यन्नेन भुञ्जते भुजिक्रियां निर्वर्तयन्ति अन्नं भुञ्जते इति । विभक्तिव्यत्ययो वा । 'आद्यादिभ्यस्तसिः' ।।
4 क्रीते सोमे इत्यादि विधिः ।। मैत्रावरुणः पुरस्तात् । स हि प्रथमं सर्वर्त्विग्भ्यो वाचं विसृजति प्रैषेषु ऋतुग्रहप्रस्थितयाज्यासु होतृकेभ्यः । तामृत्विजो वाचं यजमाने प्रतिष्ठापयन्ति ... न[तदधीन]त्वात् ।।
5 अथ मुष्टीकरणात्पूर्णं यजमानं वाचयति यान्मन्त्रान् तान्व्याचष्टे - स्वाहा यज्ञमित्यादि ।। अभिगच्छति आभिमुख्येन प्राप्नोति । द्यावापृथिव्योर्हि यज्ञ इति । तदधीनत्वात्तस्य । तद्विषयत्वाद्वा यज्ञफलस्य । अन्तरिक्षे हि यज्ञ इति । अन्तरिक्षेऽपि हि यज्ञ इत्यर्थः । स एव हेतुः । सर्वस्य स्थितिहेतुर्यज्ञ इति भावः । अयं वावेति । योयं पवते वातनामा अन्तरिक्षे वर्तमानः विश्वं पुनाति । स यज्ञः व्यापारात्मा, सर्वपरिस्पन्दानां तदधीनत्वात् । किं च - तत्र प्रतिष्ठितत्वात्ताच्छब्द्यम् । वाते हि यज्ञः प्रतिष्ठितः आत्मसमवेतक्रियाशक्तिरूपः प्रारिस्पन्दात्मा प्राणो वातः । कस्मात्? यस्मादाह यज्ञं वातादारभे इति तस्मात्तं यज्ञं साक्षादव्यवधानेन आरभते वातेन यज्ञं गृह्णाति तदेव साक्षद्ग्रहणमभिनयन्ति च ।।
6 मुष्टी करोति, वाचं यच्छतीति विधिद्वयम् ।। फलम् - यज्ञस्य धृत्यै धारणार्थम् । अनन्यमनस्कत्वापादनेन यज्ञधारणार्थम् ।।
7 अदीक्षिष्ठेति विधिः ।। ब्राह्मणग्रहणं त्रयाणामपि प्रदर्शनार्थम् । प्राधान्यादस्योपादानम्, एवं यथावर्णं ब्रूयादिति । अन्य आहुः - सर्वोपि दीक्षितो ब्राह्मण एव भवति, न चोहो न्याय्य इति सर्वेषां ब्राह्मण इत्येवावेदनमिति । एतावदेवावेदनवाक्यमिति केचित् । प्रतीकं गृह्यते शाखान्तरीयस्येत्यन्ये । उपांशु नातिव्यक्तम् । 'उपाद्व्यजजिनम्' इत्युत्तरपदान्तोदात्तत्वम् । देवेभ्य एवेति । उपांशूक्तं देवा एव जानन्ति । उभयेभ्य इति । उच्चैरुक्तं हि सर्व एव जानते ।।
8 न पुरेति प्रतिषेधः । नक्षत्रेभ्यः नक्षत्रोदयादित्यर्थः । तस्य तदुदयवृत्तित्वात् । विपर्यये दोषमाह - यदित्यादि । विच्छिन्द्यात् विच्छिन्नं कुर्यात् । तस्मादुदितेष्वित्यादिविधिः । ऊर्ध्वमितान्युदितानीति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनेन नक्षत्रोदयकाले व्रतकरणमिति; यदुक्तं व्रतं कृणुतेति वाचं विसृजतीति । तत्र कारणमाह - यज्ञव्रत इति । यज्ञविषयं व्रतं व्यापारस्सर्वः यस्य स यज्ञव्रतः, तस्मादस्य न केन चिदपि व्यापारेणायज्ञविषयेण भवितव्यम् । तस्माद्व्रतं कृणुतेति वाचं विसृजति । एवं यज्ञमेवाभिवाचं विसृजतीति यज्ञमेव लक्षीकृत्येति वाग्विसर्जनमपि यज्ञार्थमेव भविष्यतीत्यर्थः ॥
9 यदुक्तं पुरा नक्षत्रेभ्यः इति, तदतिक्रमे समाधिमाह - यदीति ।। सामर्थ्याद्वाग्यमनकाले यदि वाचं विसृजेत् वैष्णवीमृचं 'विष्णो त्वं नो अन्तमः' इति अनु ब्रूयात् । केचित् - 'इदं विष्णुः' इति । यज्ञो वै विष्णुरिति । व्यापकत्वसाम्यात् । यज्ञेनैव यज्ञं सन्तनोति अविच्छिन्नं करोति विच्छेददोषः समाहितो भवति ।।
10 अथ मध्यरात्रे प्रबुद्धस्य यजमानस्याचमनमन्त्रः - दैवीं धियमिति ।। तत्र यदाह 'मनामहे' इति तेन यज्ञं म्रदयति । मृद मर्दने, मर्दनं क्षोदः पुनःपुनरभ्यासः । मना अभ्यासे । पुनःपुनरभ्यासं प्रार्थयते इति प्रतिपादयति । यद्वा - मृदु करोति सुखहेतुं यज्ञं करोति । अनेन 'सुमृडीकां'13 इति यदुक्तं तत्प्रयोजनं प्रदर्शितम् । मृदुं करोतीति णिचि 'रऋतो हलादेर्लघोः' इति रत्वम् । 'सुपारा नः' इति यदुक्तम्, अनेन व्युष्टिं सुप्रभातमवरूधे । यद्वा - व्युष्टिः अविच्छेदेन कर्मसमाप्तिः, तामवरुन्धे । सुपारा शोभनकर्मसमाप्तिः । पार तीरकर्मसमाप्तौ, इत्यतो घञि बहुव्रीहौ 'नञ्सुम्याम्' इत्युत्तरपदान्तोदात्तत्वं मन्यन्ते । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोर्यणः' इति ततः परस्स्वर्यते ।।
11 अथ व्रतमन्त्रः 'ये देवा मनोजाताः'14 इति । तत्रार्थविशेषप्रदर्शनेन व्रतं संविधास्यन् तद्धेतुभूतं विचारं ब्रह्मवादिभिरुत्थापयति ।। ब्रह्म देवः, तदर्थं वदितुं संशयपर्यनुयोगादिना याथातथ्येन जिज्ञासितुं शीलं येषां ते ब्रह्मवादिनः । 'ब्रह्मणि वदः' इति णिनिः । ते वदन्ति विचारयन्त आहुः । अद्यापि विचारहेतोरनुपरतत्वात् वर्तमानप्रत्ययः । विचारस्वरूपं प्रदर्श्यते - होतव्यमिति । दीक्षितस्य गृहे किमग्निहोत्रहोमः कर्तव्यः? उत न? इति विचारणा । उभयत्रापि 'विचार्यमाणानाम्' इत्युदात्तः प्लुतः, पूर्वत्र 'एचोप्रगृह्यस्य' इति पूर्वार्धस्याकारः, उत्तरार्धस्येकारः । गृहशब्दः कप्रत्ययान्तोन्तोदात्तः । तत्र यदि होतव्यं, तदा प्राणाग्निहोत्ररूपत्वात् व्रतं न कर्तव्यम्, अन्यदा नेति फलभेदः ।।
12 कुतः पुनस्संशय इत्याह - हविरित्यादि ।। 'सर्वाभ्यो वा एष देवताभ्य आत्मानमा लभते यो दीक्षितो यदस्याङ्गानां मीयते जुहोत्येव तत्' इत्यादिदर्शनाद्दीक्ष्नितस्य हविष्ट्वम् । तत्र यदि जुहुयात् यजमानमेवावदाय जुहुयात् हविष्ट्वाविशेषात् । कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । तस्मान्न होतव्यम् । अथ यदि न जुहुयाद् यज्ञपरुः यज्ञपर्व अन्तरियान्नाशयेत् । यावज्जीवमनेन हि होतव्यमिदानीं विच्छिद्यते इति तद्धोतव्यमिति च प्रतिभाति ।

अतो भवति विचारणा ।।

13 एवं ब्रह्मवादिभिः विचारे उपक्षिप्ते समाधत्ते - ये देवा इति ।। अग्निहोत्रप्रत्याम्नायतया व्रतनविधिरनुमीयते । चक्षुरादयः प्राणा देवाः देवनशीलाः मनोजाता, जातमनसः, मनोव्यापारमन्तरेण स्वकार्यकरणासंभवात् । 'निष्ठायाः पूर्वनिपातः' इत्यादिना जातशब्दस्य परवचनम्, 'वाजाते' इत्युत्तरपदान्तोदात्तत्वाभावे बहुव्रीहिस्वरः पर्वूपदप्रकृतिस्वरत्वम् । मनोयुजः विषयावधारणलक्षणमनेन युज्यन्ते इति मनोयुजः । यस्मादनेन मन्त्रेण तेभ्यस्स्वाहेति प्राणेभ्यो हूयते, तस्मात् तेषु प्राणेषु परोक्षं प्रच्छन्नं हुतं भवत्यग्रिहोत्रम् । परमक्ष्णः परोक्षम्, अक्षाण्यतीत्य वर्तते इति 'अव्ययं विभक्ति' इत्यादिना अत्यये अव्ययीभावः; 'परो भावः परस्याक्ष्णाः' इत्यादिना रूपसिद्धिः, 'कूलतीरतूल' इत्यादिनोत्तरपदाद्युदात्तत्वम् ।।
14 इदानीमुक्तयोर्दोषयोरभावं प्रतिपादयति - तन्नेति ।। हुतमिव च न भवति, परोक्षत्वात् । परोक्षं हि कृत्वा वक्तारो भवीन्त न किंचिदत्र कृतमिति । यजुषा अहुतत्वाच्च हुतमिव न भवति, यदुक्तं यजमानस्यावदाय जुहुयात् इति, तस्य दोषस्याप्रसङ्गः । अहुतमिव च न भवति, परोक्षं हुतत्वात् । तेन यज्ञपरुरन्तरियादित्यस्य दोषस्याप्रसङ्गः ।।
15 अथ 'अग्रे त्वं सु जागृहि' इति संवेशनमन्त्रं व्याख्यातुमाह - स्वपन्तमित्यादि ।। दीक्षितग्रहणमन्यस्याप्रसंगार्थम् । रक्षोहेति । 'बहुलं छन्दसि' इति क्विप् । अग्निमधिपामधिकं पातारं गोप्तारं कृत्वा स्वपिति । 'आतो मनिन्क्वनिप्' इति विच् । निर्भयं स्वपितीति भावः; यदाह मु मन्दिषीमहीति । मदि स्तुतिमोदमदस्वप्नगतिषु । अपहत्यै । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
16 अथ प्रबुद्ध्य 'त्वमग्ने व्रतपा असि' इति यजमान आह । तद्व्याचष्टे - अव्रत्यमिति ।। व्रते साधु न भवतीति यत्, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । अत्रापि दीक्षितग्रहणमन्यस्याप्रसंगार्थम् । व्रतं पातीति व्रतपाः, पर्वूवद्विच् । यस्मादेवं मन्त्र आह, यतश्च देवानां मध्ये अग्निरेव व्रतपतिः व्रतस्य पाता । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात्सोग्निरेनं व्रतमालम्भयति स्वापनिमित्तव्रतलोपदोषापनोदनेन अधिकं व्रतमालम्भयति । यद्वा - व्रतमेवालम्भयति स्वापमिति [समपि] व्रतमेव करोति । शक्यते हि व्रतपतिना तथा कर्तुम् ।।
17 देव इत्यादि ।। मन्त्रे द्वावप्याकारौ समुच्चये । देव इति सप्तमीबहुवचनस्य 'सुपां सुलुक्' इति स्वादेशात् देवेषु च मर्त्येपु चेत्यर्थः । अत्र कि देवस्सन् व्रतपतित्वेन वर्तते? उत मर्त्यस्सन् देवेष्विति मन्त्रार्थे सन्दिग्धे ब्राह्मणेन विशेषः प्रतिपाद्यते - देवो ह्येष सन्मर्त्येष्विति । यस्मादेवं तस्मात् मर्त्येपु वर्तते इत्याहेत्यर्थः ।।
18 त्वमित्यादि ।। यस्मादेतं यज्ञेष्वीडते स्तुवन्ति याचन्ते वर्तयन्ति वा, तस्मात् यज्ञेष्वीड्य इत्याह । 'ईडवन्द' इत्याद्युदात्तत्वम् ।।
19 अप वा इत्यादि ।। सुषुपुषः सुप्तवतो दीक्षितात् इन्द्रियं देवताश्च अपक्रामन्ति, तस्मात् 'विश्वे देवाः' इति प्रबुद्ध्य जपति । पूषा सन्येति सनिहारान् संशास्तीत्यके । अपरे तु - 'विश्वे देवाः'17 इत्यादिना सर्वेण सनिहारान् संशास्तीति ब्रुवते । तत्र 'वै' इत्यालस्यमुच्यते । द्रव्याभावेन सनिहारप्रेषणम् । स्वपेर्लिट; क्वसुरादेशः, 'वचि स्वपि' इति संप्रसारणं, 'लिट्यभ्यासस्य' इत्यभ्यासस्य पञ्चम्येकवचने वसोस्संप्रसारणम्, 'शासिवसिघसीनां च' इति षत्वम् । इन्द्रियेण देवताभिश्चैनं संनयति संयोजयति ।।
20 यदेतदित्यादि ।। 'पूषा सन्या' इत्यादिकं 'विश्वे देवाः'18 इत्यादिकं वा यजुर्यदि न ब्रूयात् यद्यनेन सनिहारान्प्रेषयेत् तदा आगमाभावात् यावत एव पशूनभिदीक्षेत दीक्षाकाले यावद्भिः पशुभिरुपलक्षितो भवति तावन्त एवास्य पशवत्स्युः । नाधिका सनिरित्याहुः । तदेतदनन्तरं वक्ष्यमाणं यजुः 'रास्व' इत्यादिकं यत्र 'भूयो भर'19 इति श्रूयते । यदि तन्न ब्रूयात् आहरन्तं दृष्ट्वा तन्न जपेत् यथोक्तदोषप्रसङ्ग इति । तस्मादस्य वचनात् अपरिमितान् पशुनूवरुन्धे, भूयोप्याहरेति पूर्वपरिमाणाभावस्याशास्यत्वात् ।।
21 'चन्द्रमसि' 'वस्त्रमसि' इत्यादिहिरण्यादिप्रतिग्रहमन्त्राः - तत्र यस्माद्धिरण्यवस्त्रादीनि यथालिङ्गं प्रतिगृह्णाति, तस्माद्यथादेवतं या यस्या देवताया दक्षिणा 'अग्नये हिरण्यम्, सोमाय वासः' इति प्रसिद्धं तस्यैतस्यै देवतायै दक्षिणाभूतां गृह्णाति ।।
22 वायवे त्वेत्यादयः नष्टानुदेशमन्त्राः ।। यद्येवमेता एतैर्मन्त्रैर्नानुदिशेत् अयथास्वंग्राहिदेवताकं यथातथा दक्षिणामागमयेत्, देवताभ्यश्चावृश्च्येत सर्वतश्छिद्येत । यदेवमित्यादि । एवं यथोक्तानुदेशकरणात् न कश्चिद्द्वोष इति ।।
23 अथ 'देवीरापः' इति दीक्षितस्यापामुत्तरणे मन्त्रः । तस्यार्थमाह - यद्वो मेध्यमित्यादिना ।। यत् वो युष्माकं मेध्यं मेधे साधु यज्ञियं यज्ञार्हं सदेवं देवैस्सहितं देवयोग्यं च रूपं, तद्वो युष्माकं संबन्धि युष्मास्वेव विद्यमानं माऽवक्रमिषमवक्रम्य मागाम्, इति खल्वेतदाहायं मन्त्रः । तस्मादपामुत्तरणकाले 'वः' इत्यादिकं मन्त्रमाह - ब्रूयात् ।।
24 ननु क्रियमाणमेवापक्रमणं कथमपह्नियते माऽवक्रमिषमिति? तत्राह - अच्छिन्नं तन्तुं यज्ञाख्यमहमनुगेषमनुगतो भूयासमित्यनेनाभिप्रायेण हि युष्मान् अपक्रामामि, को हि हविष्यत्वादिगुणं युष्मदीयमूर्मिं वृथाऽवक्रामेत्, तस्माद्यज्ञ एवायं मया युष्मदपक्रमणरूपोनुष्ठीयते । पृथिव्यास्तन्तुं पृथिव्यां तायमानं, अन्यत्र हि दीक्षते अन्यत्र देवान् यजते अन्यत्रावभृथमवयन्तीति तस्माद्यज्ञरूपत्वाद्युष्माभिः अपक्रमणं सोढव्यमिति भावः । यस्मादेवमाह तस्मात् सेतुमेव कृत्वाऽत्येति सेतुं कृत्वाऽपक्रामन्निव भवत्यपक्रमणदोषाभावात्; सेतुनाऽभिगच्छन् अतिक्रामन्नपि अपो नातिक्रामन्भवतीति । यद्वा - सेतुमेव यज्ञं कृत्वाऽत्येति । अपक्रमणदोषाभावहेतुत्वसाम्याद्यज्ञस्य सेतुत्वम् ।।
इति षष्ठे प्रथमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.4.2 TS 6.1.4.2
क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डं प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑-दृ॒त्विग्भ्यो॒ वाचं॑ ॅवि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञ्ं मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञ्म॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ -मित्या॑ह॒ द्यावा॑पृथि॒व्योर्.हि य॒ज्ञ्ः स्वाहो॒रोर॒-न्तरि॑क्षा॒ -दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञ्ः स्वाहा॑ य॒ज्ञ्ं ॅवाता॒दा र॑भ॒ इत्या॑हा॒यं - [ ]
पदपाठः (Word-by-word)
क्री॒ते । सोमे᳚ । मै॒त्रा॒व॒रु॒णायेति॑ मैत्रा - व॒रु॒णाय॑ । द॒ण्डम् । प्रेति॑ । य॒च्छ॒ति॒ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । हि । पु॒रस्ता᳚त् । ऋ॒त्विग्भ्य॒ इत्यृ॒त्विक् - भ्यः॒ । वाच᳚म् । वि॒भज॒तीति॑ वि - भज॑ति । ताम् । ऋ॒त्विजः॑ । यज॑माने । प्रतीति॑ । स्था॒प॒य॒न्ति॒ । स्वाहा᳚ । य॒ज्ञ्म् । मन॑सा । इति॑ । आ॒ह॒ । मन॑सा । हि । पुरु॑षः । य॒ज्ञ्म् । अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । स्वाहा᳚ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚-पृ॒थि॒व्योः । हि । य॒ज्ञ्ः । स्वाहा᳚ । उ॒रोः । अ॒न्तरि॑क्षात् । इति॑ । आ॒ह॒ । अ॒न्तरि॑क्षे । हि । य॒ज्ञ्ः । स्वाहा᳚ । य॒ज्ञ्म् । वाता᳚त् । एति॑ । र॒भे॒ । इति॑ । आ॒ह॒ । अ॒यम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.4.3 TS 6.1.4.3
ॅवाव यः पव॑ते॒ स य॒ज्ञ्स्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचं॑ ॅयच्छति य॒ज्ञ्स्य॒ धृत्या॒ अदी᳚क्षिष्टा॒यं ब्रा᳚ह्म॒ण इति॒ त्रिरु॑पाꣳ॒॒श्वा॑ह दे॒वेभ्य॑ ए॒वैनं॒ प्राऽऽ*ह॒ त्रिरु॒च्चैरु॒भये᳚भ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒ प्राऽऽ*ह॒ न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒ ॅवि सृ॑जे॒द्-यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑ ॅविसृ॒जेद्- य॒ज्ञ्ं ॅविच्छि॑न्द्या॒ - [ ]
पदपाठः (Word-by-word)
वाव । यः । पव॑ते । सः । य॒ज्ञ्ः । तम् । ए॒व । सा॒क्षादिति॑ स-अ॒क्षात् । एति॑ । र॒भ॒ते॒ । मु॒ष्टी इति॑ । क॒रो॒ति॒ । वाच᳚म् । य॒च्छ॒ति॒ । य॒ज्ञ्स्य॑ । धृत्यै᳚ । अदी᳚क्षिष्ट । अ॒यम् । ब्रा॒ह्म॒णः । इति॑ । त्रिः । उ॒पाꣳ॒॒श्वित्यु॑प - अꣳ॒॒शु । आ॒ह॒ । दे॒वेभ्यः॑ । ए॒व । ए॒न॒म् । प्रेति॑ । आ॒ह॒ । त्रिः । उ॒च्चैः । उ॒भये᳚भ्यः । ए॒व । ए॒न॒म् । दे॒व॒म॒नु॒ष्येभ्य॒ इति॑ देव - म॒नु॒ष्येभ्यः॑ । प्रेति॑ । आ॒ह॒ । न । पु॒रा । नक्ष॑त्रेभ्यः । वाच᳚म् । वीति॑ । सृ॒जे॒त् । यत् । पु॒रा । नक्ष॑त्रेभ्यः । वाच᳚म् । वि॒सृ॒जेदिति॑ वि - सृ॒जेत् । य॒ज्ञ्म् । वीति॑ । छि॒न्द्या॒त् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.4.4 TS 6.1.4.4
-दुदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ ॅवि सृ॑जति य॒ज्ञ्व्र॑तो॒ वै दी᳚क्षि॒तो य॒ज्ञ्मे॒वाभि वाचं॒ ॅवि सृ॑जति॒ यदि॑ विसृ॒जेद्-वै᳚ष्ण॒वीमृच॒मनु॑ ब्रूयाद्-य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञ्ꣳ सं त॑नोति॒ दैवीं॒ धियं॑ मनामह॒ इत्या॑ह य॒ज्ञ्मे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुन्धे - [ ]
पदपाठः (Word-by-word)
उदि॑ते॒ष्वित्युत् - इ॒ते॒षु॒ । नक्ष॑त्रेषु । व्र॒तम् । कृ॒णु॒त॒ । इति॑ । वाच᳚म् । वीति॑ । सृ॒ज॒ति॒ । य॒ज्ञ्व्र॑त॒ इति॑ य॒ज्ञ्-व्र॒तः॒ । वै । दी॒क्षि॒तः । य॒ज्ञ्म् । ए॒व । अ॒भीति॑ । वाच᳚म् । वीति॑ । सृ॒ज॒ति॒ । यदि॑ । वि॒सृ॒जेदिति॑ वि - सृ॒जेत् । वै॒ष्ण॒वीम् । ऋच᳚म् । अन्विति॑ । ब्रू॒या॒त् । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञेन॑ । ए॒व । य॒ज्ञ्म् । समिति॑ । त॒नो॒ति॒ । दैवी᳚म् । धिय᳚म् । म॒ना॒म॒हे॒ । इति॑ । आ॒ह॒ । य॒ज्ञ्म् । ए॒व । तत् । म्र॒द॒य॒ति॒ । सु॒पा॒रेति॑ सु - पा॒रा । नः॒ । अ॒स॒त् । वशे᳚ । इति॑ । आ॒ह॒ । व्यु॑ष्टि॒मिति॒ वि - उ॒ष्टि॒म् । ए॒व । अवेति॑ । रु॒न्धे॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.4.5 TS 6.1.4.5
ब्रह्मवा॒दिनो॑ वदन्ति होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा(3) इ न हो॑त॒व्या(3)मिति॑ ह॒विर्वै दी᳚क्षि॒तो यज्जु॑हु॒याद्-यज॑मानस्याव॒दाय॑ जुहुया॒द्-यन्न जु॑हु॒याद्-य॑ज्ञ्प॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोक्षं॑ जुहोति॒ तन्नेव॑ हु॒तं नेवाहु॑तꣳ स्व॒पन्तं॒ ॅवै दी᳚क्षि॒तꣳ रक्षाꣳ॑सि जिघाꣳसन्त्य॒ग्निः- [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । हो॒त॒व्य᳚म् । दी॒क्षि॒तस्य॑ । गृ॒हा(3) इ । न । हो॒त॒व्या(3)म् । इति॑ । ह॒विः । वै । दी॒क्षि॒तः । यत् । जु॒हु॒यात् । यज॑मानस्य । अ॒व॒दायेत्य॑व - दाय॑ । जु॒हु॒या॒त् । यत् । न । जु॒हु॒यात् । य॒ज्ञ्॒प॒रुरिति॑ यज्ञ् - प॒रुः । अ॒न्तः । इ॒या॒त् । ये । दे॒वाः । मनो॑जाता॒ इति॒ मनः॑ - जा॒ताः॒ । म॒नो॒युज॒ इति॑ मनः-युजः॑ । इति॑ । आ॒ह॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । दे॒वाः । मनो॑जाता॒ इति॒ मनः॑ - जा॒ताः॒ । म॒नो॒युज॒ इति॑ मनः - युजः॑ । तेषु॑ । ए॒व । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । जु॒हो॒ति॒ । तत् । न । इ॒व॒ । हु॒तम् । न । इ॒व॒ । अहु॑तम् । स्व॒पन्त᳚म् । वै । दी॒क्षि॒तम् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । अ॒ग्निः ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.1.4.6 TS 6.1.4.6
खलु॒ वै र॑क्षो॒हाऽग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीम॒हीत्या॑हा॒ग्नि-मे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी᳚क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां᳚ ॅव्र॒तप॑तिः॒ स ए॒वैनं॑ ॅव्र॒तमा ल॑भंयति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वो - [ ]
पदपाठः (Word-by-word)
खलु॑ । वै । र॒क्षो॒हेति॑ रक्षः - हा । अग्ने᳚ । त्वम् । स्विति॑ । जा॒गृ॒हि॒ । व॒यम् । स्विति॑ । म॒न्दि॒षी॒म॒हि॒ । इति॑ । आ॒ह॒ । अ॒ग्निम् । ए॒व । अ॒धि॒पामित्य॑धि - पाम् । कृ॒त्वा । स्व॒पि॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । अ॒व्र॒त्यम् । इ॒व॒ । वै । ए॒षः । क॒रो॒ति॒ । यः । दी॒क्षि॒तः । स्वपि॑ति । त्वम् । अ॒ग्ने॒ । व्र॒त॒पा इति॑ व्रत-पाः । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒ग्निः । वै । दे॒वाना᳚म् । व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । सः । ए॒व । ए॒न॒म् । व्र॒तम् । एति॑ । ल॒म्भ॒य॒ति॒ । दे॒वः । एति॑ । मर्त्ये॑षु । एति॑ । इति॑ । आ॒ह॒ । दे॒वः ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.1.4.7 TS 6.1.4.7
ह्ये॑ष सन् मर्त्ये॑षु॒ त्वं ॅय॒ज्ञेष्वीड्य॒ इत्या॑है॒तꣳ हि य॒ज्ञेष्वीड॒तेऽप॒ वै दी᳚क्षि॒ताथ् सु॑षु॒पुष॑ इन्द्रि॒यं दे॒वताः᳚ क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामाऽव॑वृत्र॒-न्नित्या॑-हेन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं न॑यति॒ यदे॒तद्-यजु॒र्न ब्रू॒याद्-याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑ स्यू॒ रास्वेय॑थ् - [ ]
पदपाठः (Word-by-word)
हि । ए॒षः । सन्न् । मर्त्ये॑षु । त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ । इति॑ । आ॒ह॒ । ए॒तम् । हि । य॒ज्ञेषु॑ । ईड॑ते । अपेति॑ । वै । दी॒क्षि॒तात् । सु॒षु॒पुषः॑ । इ॒न्द्रि॒यम् । दे॒वताः᳚ । क्रा॒म॒न्ति॒ । विश्वे᳚ । दे॒वाः । अ॒भीति॑ । माम् । एति॑ । अ॒व॒वृ॒त्र॒न्न् । इति॑ । आ॒ह॒ । इ॒न्द्रि॒येण॑ । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । न॒य॒ति॒ । यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् । याव॑तः । ए॒व । प॒शून् । अ॒भीति॑ । दीक्षे॑त । ताव॑न्तः । अ॒स्य॒ । प॒शवः॑ । स्युः॒ । रास्व॑ । इय॑त् ।
पदसंख्या: 50
पञ्चशत् 8 #
TS 6.1.4.8 TS 6.1.4.8
सो॒माऽऽ* भूयो॑ भ॒रेत्या॒हा-प॑रिमिताने॒व प॒शूनव॑ रुन्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति वा॒यवे᳚ त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवतं॒ दक्षि॑णा गमये॒दा दे॒वता᳚भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वता᳚भ्य॒ आ - [ ]
पदपाठः (Word-by-word)
सो॒म॒ । एति॑ । भूयः॑ । भ॒र॒ । इति॑ । आ॒ह॒ । अप॑रिमिता॒नित्यप॑रि-मि॒ता॒न् । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । च॒न्द्रम् । अ॒सि॒ । मम॑ । भोगा॑य । भ॒व॒ । इति॑ । आ॒ह॒ । य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । ए॒व । ए॒नाः॒ । प्रतीति॑ । गृ॒ह्णा॒ति॒ । वा॒यवे᳚ । त्वा॒ । वरु॑णाय । त्वा॒ । इति॑ । यत् । ए॒वम् । ए॒ताः । न । अ॒नु॒दि॒शेदित्य॑नु - दि॒शेत् । अय॑थादेवत॒मित्यय॑था - दे॒व॒त॒म् । दक्षि॑णाः । ग॒म॒ये॒त् । एति॑ । दे॒वता᳚भ्यः । वृ॒श्च्ये॒त॒ । यत् । ए॒वम् । ए॒ताः । अ॒नु॒दि॒शतीत्य॑नु - दि॒शति॑ । य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । ए॒व । दक्षि॑णाः । ग॒म॒य॒ति॒ । न । दे॒वता᳚भ्यः । एति॑ ।
पदसंख्या: 50
पञ्चशत् 9 #
TS 6.1.4.9 TS 6.1.4.9
वृ॑श्च्यते॒ देवी॑रापो अपां नपा॒दित्या॑ह॒ यद्वो॒ मेद्ध्यं॑ ॅय॒ज्ञियꣳ॒॒ सदे॑वं॒ तद्वो॒ माऽव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वाऽत्ये॑ति ॥
पदपाठः (Word-by-word)
वृ॒श्च्य॒ते॒ । देवीः᳚ । आ॒पः॒ । अ॒पा॒म् । न॒पा॒त् । इति॑ । आ॒ह॒ । यत् । वः॒ । मेद्ध्य᳚म् । य॒ज्ञिय᳚म् । सदे॑व॒मिति॒ स - दे॒व॒म् । तत् । वः॒ । मा । अवेति॑ । क्र॒मि॒ष॒म् । इति॑ । वाव । ए॒तत् । आ॒ह॒ । अच्छि॑न्नम् । तन्तु᳚म् । पृ॒थि॒व्याः । अन्विति॑ । गे॒ष॒म् । इति॑ । आ॒ह॒ । सेतु᳚म् । ए॒व । कृ॒त्वा । अतीति॑ । ए॒ति॒ ॥
पदसंख्या: 33