अनुवाकः 5 TS 6.1.5

(A5)

(प्रज्ञा᳚त्यै - पश्यत्य - नूया॒जव॒ - द्यज॑मा॒नोऽनु॑ - पुरोनुवा॒क्या᳚स्ता - अ॒ष्टौ च॑)

अनुवाकः 5 - Complete Audio

TS 6.1.5 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा वै दे॑व॒यज॑न-मद्ध्यव॒साय॒ दिशो॒
PS1.2 न प्राजा॑न॒न् ते᳚(1॒)ऽन्यो᳚-ऽन्यमुपा॑धाव॒न् त्वया॒
PS1.3 प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्याꣳ॒॒
PS1.4 सम॒॑द्ध्रयन्त॒ त्वया॒ प्र जा॑ना॒मेति॒
PS1.5 साऽब्र॑वी॒द्-वरं॑ ॅवृणै॒ मत्प्रा॑यणा ए॒व
PS1.6 वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒
PS1.7 तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः॒
PS1.8 पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒
PS1.9 दिशो॑ दि॒शां प्रज्ञा᳚त्या॒ -
PS1.10 [ ]
PS2.1 अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑
PS2.2 य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे॒ पथ्याꣳ॑
PS2.3 स्व॒स्तिम॑यज॒न् प्राची॑मे॒व तया॒ दिशं॒
PS2.4 प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीꣳ॑
PS2.5 सवि॒त्रोदी॑ची॒-मदि॑त्यो॒र्द्ध्वां पथ्याꣳ॑ स्व॒स्तिं ॅय॑जति॒
PS2.6 प्राची॑मे॒व तया॒ दिशं॒ प्र
PS2.7 जा॑नाति॒ पथ्याꣳ॑ स्व॒स्तिमि॒ष्ट्वाऽग्नीषोमौ॑ यजति॒
PS2.8 चक्षु॑षी॒ वा ए॒ते य॒ज्ञ्स्य॒
PS2.9 यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्य -
PS2.10 [ ]
PS3.1 -त्य॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ ॅयजति सवि॒तृप्र॑सूत
PS3.2 ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वाऽदि॑तिं ॅयजती॒यं
PS3.3 ॅवा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा
PS3.4 मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानां॒
PS3.5 ॅविशो॑ देववि॒शां खलु॒ वै
PS3.6 कल्प॑मानं मनुष्यवि॒शमनु॑ कल्पते॒ यन्
PS3.7 मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां क्लृप्त्यै᳚ ब्रह्मवा॒दिनो॑
PS3.8 वदन्ति प्रया॒जव॑दननूया॒जं प्रा॑य॒णीयं॑ का॒र्य॑-मनूया॒जव॑
PS3.9 - [ ]
PS4.1 दप्रया॒ज-मु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी
PS4.2 अ॑नूया॒जाः सैव सा य॒ज्ञ्स्य॒
PS4.3 सन्त॑ति॒स्तत् तथा॒ न का॒र्य॑मा॒त्मा
PS4.4 वै प्र॑या॒जाः प्र॒जाऽनू॑या॒जा यत्
PS4.5 प्र॑या॒जा-न॑न्तरि॒यादा॒त्मान॑म॒-न्तरि॑या॒द्-यद॑नूया॒जा-न॑न्तरि॒यात् प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै
PS4.6 य॒ज्ञ्स्य॒ वित॑तस्य॒ न क्रि॒यते॒
PS4.7 तदनु॑ य॒ज्ञ्ः परा॑ भवति
PS4.8 य॒ज्ञ्ं प॑रा॒भव॑न्तं॒ ॅयज॑मा॒नोऽनु॒ -
PS4.9 [ ]
PS5.1 परा॑ भवति प्रया॒जव॑दे॒वा-नू॑या॒जव॑त् प्राय॒णीयं॑
PS5.2 का॒र्यं॑ प्रया॒जव॑दनूया॒जव॑-दुदय॒नीयं॒ नाऽऽ*त्मान॑मन्त॒रेति॒ न
PS5.3 प्र॒जां न य॒ज्ञ्ः प॑रा॒भव॑ति॒
PS5.4 न यज॑मानः प्राय॒णीय॑स्य निष्का॒स
PS5.5 उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा
PS5.6 य॒ज्ञ्स्य॒ सन्त॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑
PS5.7 यत् ता उ॑दय॒नीय॑स्य या॒ज्याः᳚
PS5.8 कु॒र्यात् परा॑ङ॒मुं ॅलो॒कमा रो॑हेत्
PS5.9 प्र॒मायु॑कः स्या॒द्याः प्रा॑य॒णीय॑स्य पुरोऽनुवा॒क्या᳚स्ता
PS5.10 ( ) उ॑दय॒नीय॑स्य या॒ज्याः᳚
PS5.11 करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.5.1 TS 6.1.5.1
दे॒वा वै दे॑व॒यज॑न-मद्ध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न् ते᳚(1॒)ऽन्यो᳚-ऽन्यमुपा॑धाव॒न् त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्याꣳ॒॒ सम॒॑द्ध्रयन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ साऽब्र॑वी॒द्-वरं॑ ॅवृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः॒ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शां प्रज्ञा᳚त्या॒ - [ ]
पदपाठः (Word-by-word)
दे॒वाः । वै । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । अ॒द्ध्य॒व॒सायेत्य॑धि - अ॒व॒साय॑ । दिशः॑ । न । प्रेति॑ । अ॒जा॒न॒न्न् । ते । अ॒न्यः । अ॒न्यम् । उपेति॑ । अ॒धा॒व॒न्न् । त्वया᳚ । प्रेति॑ । जा॒ना॒म॒ । त्वया᳚ । इति॑ । ते । अदि॑त्याम् । समिति॑ । अ॒द्ध्र॒य॒न्त॒ । त्वया᳚ । प्रेति॑ । जा॒ना॒म॒ । इति॑ । सा । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । मत्प्रा॑यणा॒ इति॒ मत् - प्रा॒य॒णाः॒ । ए॒व । वः॒ । य॒ज्ञाः । मदु॑दयना॒ इति॒ मत्-उ॒द॒य॒नाः॒ । अ॒स॒न्न् । इति॑ । तस्मा᳚त् । आ॒दि॒त्यः । प्रा॒य॒णीय॒ इति॑ प्र-अ॒य॒नीयः॑ । य॒ज्ञाना᳚म् । आ॒दि॒त्यः । उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीयः॑ । पञ्च॑ । दे॒वताः᳚ । य॒ज॒ति॒ । पञ्च॑ । दिशः॑ । दि॒शाम् । प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

“देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्तेऽन्योन्यमुपाधावन्त्वया प्रजानाम त्वयेति तेऽदित्याँ समध्रियन्त त्वया प्रजानामेति साऽब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्निति तस्मादादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः” (सं. का. ६ प्र. १ अ. ५) इति।

देवयजनार्थमयं प्रदेशः समीचीनो न त्वितर इति निश्चेतुं परिभ्रम्य तं प्रदेशं निश्चित्य परिभ्रमणेन दिग्भ्रमं प्राप्य प्राचीनवंशादावसमर्थाः संपन्नाः। ततस्त्वमेव दिशं ज्ञापयेत्येवं परस्परं वदन्तो दिग्बोधकशक्तिमदित्यां निश्चितवन्तः। सो चादितिः सोमयागारम्भसमाप्त्योरहमेव देवता भूयासमिति वरमयाचत। प्रयन्ति प्रारभन्तेऽनेन देवतारूपेणेति प्रायणम्। उद्यन्त्युत्तिष्ठन्ति समापयन्त्यनेनेति उदयनम्। अहमेव प्रायणमारम्भदेवता येषां यज्ञानां ते मत्प्रायणाः। अहमेवोदयनं समाप्तिदेवता येषां यज्ञानां ते मदुदयनाः।

तस्मादेवं वृतत्वाददितिदेवताकः प्रायणीययागः कर्तव्यः। तत्प्रसङ्गादुदयनयागोऽपि विधीयते।

अदितिरेका प्रधानदेवता चतस्रस्त्वङ्गदेवता इत्यभिप्रेत्य संख्यां विधत्ते —

“पञ्च देवता यजति पञ्च दिशो दिशां प्रज्ञात्या अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ५) इति।

दिग्विशेषेषु देवताविशेषान्विधातुं प्रस्तौति —

“पथ्या स्वस्तिमयजन्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा सोमेन प्रतीची सवित्रोदीचीमदित्योर्ध्वाम्” (सं. का. ६ प्र. १ अ. ५) इति।

स्वस्तिसंज्ञा देवता पथ्या पथि साधुः।

दिग्विशेषबोधनरूपे मार्गे कुशलान्विधत्ते —

“पथ्या स्वस्तिं यजति प्राचीमेव तया दिशं प्रजानाति पथ्या स्वस्तिमिष्ट्वाऽग्नीषोमौ यजति चक्षुषी वा एते यज्ञस्य यदग्नीषोमौ ताभ्यामेवानुपश्यत्यग्नीषोमाविष्ट्वा सवितारं यजति सवितृप्रसूत एवानुपश्यति सवितारमिष्ट्वाऽदितिं यजतीयं वा अदितिरस्यामेव प्रतिष्ठायानुपश्यति” (सं. का. ६ प्र. १ अ. ५) इति।

अर्थानुसारेण होमविशेषा दिग्विशेषून्नेयाः। चक्षुर्द्वयरूपेण प्रशंसितुमग्नीषोमयोः सह निर्देशः। होमस्तु तयोः क्रमभावी दिग्भेदाद्याज्यानुवाक्याभेदाच्च। ततोऽग्निमिष्ट्वा सोमं यजतीत्यपि वाक्यं द्रष्टव्यम्। तयोश्चक्षुष्ट्वं दार्शिकाज्यभागाब्राह्मणे प्रपञ्चितम्। अत्रादितेश्चरुहोमः। “आदित्यः प्रायणीयः। पयसि चरुः” इति शाखान्तरे समाम्नानात्। आज्येन तु देवतान्तराणाम्। तथा च सूत्रम् — “चतुर आज्यभागान्प्रतिदिशं यजति” इति।

ऋगनुवचनमध्वर्योर्विधत्ते —

“अदितिमिष्ट्वा मारुतीमृचमन्वाह मरुतो वै देवानां विशो देवविशं खलु वै कल्पमानं मनुष्याविशमनुकल्पते यन्मारुतीमृचमन्वाह विशां कॢप्त्यै” [सं. का. ६ प्र. १ अ. ५] इति।

मरुतो यद्धव इत्येषा मारुती। तथा च सूत्रम् — “मारुतीमृचमन्वाह मरुतो यद्धवो दिव इति” इति। एकोनपञ्चाशत्संख्याकाः सप्तगणरूपा मरुतो मनुष्यवैश्यवद्देवानां धनसंपादकाः प्रजाः। अनेन मन्त्रानुवचनेन देवविशां समूहः स्वव्यपारे कॢप्तो भवति। तं च कल्पमानमनुसृत्य मनुष्यप्रजासंघः कल्पते। अतो मन्त्रानुवचनं प्रजानां कॢप्त्यै भवति।

पूर्वपक्षत्वेन चोदकप्राप्तं किं चिदङ्गमपवदति —

“ब्रह्मवादिनो वदन्ति प्रयाजवदननूयाजं प्रायणीयं कार्यमनुयाजवदप्रयाजमुदयनीयमितीमे वै प्रयाजा अमी अनूयाजाः सैव सा यज्ञस्य संततिः” [सं. का. ६ प्र. १ अ. ५] इति।

प्रमुखे यष्टव्याः समिदादिनामकाः पञ्च प्रयाजा अनु पश्चात्समाप्तौ यष्टव्या बर्हिरादिनामकास्त्रयोऽनूयाजाः। तदुभयं प्रायणीयोदयनीययोरिष्ट्योरतिदेशतः प्राप्तम्। तत्र प्रायणीमेष्ट्यामनुयाजानुष्ठाने यागः समाप्येत तद्वदुदयनीयायां प्रयाजानुष्ठाने यागान्तरं प्रारभ्येत। तथा सति सोमयागो मध्ये विच्छिद्येत। उभयवर्जने तु सोमयागस्य प्रारम्भरूपायां प्रायणीयेष्टाविदानीमनुष्ठीयमाना इमे प्रत्यक्षाः प्रयाजाः समाप्तिरूपायामुदयनीयेष्टावनुष्ठीयमाना अमी परोक्षा अनुयाजाः। तथा सति प्रयाजानूयाजद्वयेन दर्शयागस्य या संततिः सैवास्य सोमयागस्य मध्ये विच्छेदराहित्यलक्षणा सा संततिः संपद्यते।

पूर्वपक्षं दूषयति —

“तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजाऽनूयाजा यत्प्रयाजानन्तरियादात्मानमन्तरियाद्यदनूयाजान्तरियात्प्रजामन्तरियाद्यतः खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञः पराभवति यज्ञं पराभवन्तं यजमानोऽनु पराभवति” (सं. का. ६ प्र. १ अ. ५) इति।

आत्मनो वा पुत्रादेर्वा नान्तरायः सोढुं शक्यते यतो द्वयं तदङ्गमित्यर्थः सिद्धान्तमाह —

“प्रयाजवदेवानुयाजवत्प्रायणीयं कार्य प्रयाजवदनूयाजवदुदयनीयं नाऽऽत्मानमन्तरेति न प्रजां न यज्ञः पराभवति न यजमानः” (सं. का. ६ प्र. १ अ. ५) इति।

विच्छेदपरिहाराय विधत्ते –

“प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य संततिः” (सं. का. ६ प्र. १ अ. ५) इति।

प्रायणीययागसंबन्धि चरुपात्रमप्रक्षाल्य निष्कासे पात्रलिप्तेऽन्ने निर्वापान्नलेपस्य या संततिः सैव सोमयागस्याविच्छेदरूपा सा संततिर्भवति।

प्रायणीयोदयनीययोर्दैवतैक्येन याज्याया अप्येकत्वप्राप्तौ व्यत्यासं विधत्ते –

“याः प्रायणीयस्य याज्या यत्ता उदयनीयस्य याज्याः कुर्यात्पराङमुं लोकमारोहेत्प्रमायुकः स्याद्याः प्रायणीयस्य पुरोनुवाक्यस्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति” ( सं. का. ६ प्र. १ अ. ५) इति।

स्वस्तिरिद्धि प्रपथे श्रेष्ठेत्याद्याः प्रायणीयस्य याज्या उदयनीयस्यपि तथेत्येवं केचिदाहुः। तथा सति प्रतिनिवृत्तेरभावद्यजमानोऽस्माल्लोकात्पराङ्मुखः स्वर्गमारोढुं सहसा म्रियेत। तस्मात्तेषां पक्षो न युक्तः। यास्तु स्वस्ति नः पथ्येत्याद्याः प्रायणीयस्य पुरोनुवाक्यास्तासां याज्यत्वे सति स्वस्तिरिद्धीत्यादीनां पूर्वोक्तानां पुरोनुवाक्यत्वाय प्रतिनिवृत्तेर्यजमानोऽप्यस्मिँल्लोके प्रतितिष्ठत्येव।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अत्र 'भद्रादभि श्रेयः' इत्यादीनां दीक्षितवादानां ब्राह्मणमौपानुवाक्यस्य प्रथमानुवाके द्रष्टव्यम् । अथ प्रायणीयोदयनीययोः कांश्चिद्विशेषान्विधातुमाह - देवा वै देवयजनमित्यादि ।। देवा इज्यन्तेऽस्मिन्निति देवयजनम्; कृदुत्तरपदप्रकृतिस्वरत्वेन लित्स्वरः । देवा वै देवयजनमध्यवसाय 'अत्र देवा यष्टव्याः' इति स्थानविशेषाध्यवसायानन्तरं दिशः प्रागादिकाः न प्राजानन् इयं प्राचीयं दक्षिणेत्यादि निश्चेतुं नाशकुवन् । ततश्च व्यामुग्धचित्ताः दिग्विशेषापरिज्ञानेन प्राग्वंशादिकरणासमर्थाः अभवन् । ततस्ते अन्योन्यमुपाधावन् अन्यमन्योऽन्यं चान्य इत्येवं परस्परस्य समीपमगच्छन् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः समासवच्च बहुलम् । यदा समासवत्तदा पूर्वस्य प्रथमैकवचनम्' इति रूपसिद्धिः ।।
2 केनाभिप्रायेणोपाधावन्नित्याह - त्वया प्र जानाम दिशः त्वं नो दिशः प्रज्ञापयेति वदन्तो देवास्मंभूय एकमुपाधावन्निति । उपगन्तव्यस्य वीप्स्यमानत्वाद्द्विर्वचनं - त्वया त्वया च [त्वयेति] । वीप्सायाश्च सुब्विषयत्वादाख्यातं न द्विरुच्यते । यथा - 'पुरुष इष्टकामुपादधात्पुरुष इष्टकाम्' इति । अथ देवा अन्यतोनुत्पन्नदिग्ज्ञानाः अदित्यां समघ्रियन्त अदितिसकाशे संभूयातिष्ठन्त त्वया प्र जानामेति । धृङ् अवस्थाने, तौदादिकः, 'रिङ्शयग्लिङ्क्षु' ।।
3 अधुना अदितिः दिशः प्रज्ञापयितुमना अब्रवीत् - वरं वृणै युष्मत्तः युष्माकं दिशः प्रज्ञापयिष्यामि यूयमिदमनुज्ञातुमर्हथ । कः पुनर्वर इत्याह - मत्वप्रायण इति ।। प्रासंगिकमुदयनीयविषयं देवताविधानं, समानन्यायत्वात् । प्रयन्ति प्रारभंन्तेऽनेनेति प्रायणं प्रारम्भः देवता । उद्यन्ति उत्तिष्ठन्ति संस्थापयन्त्यनेनेति उदयनं समाप्तिः देवता । उभत्रापि करणे ल्युट्, सामान्यविवक्षया नपुंसकत्वम् । अहं प्रायणं येषामहमुदयनं येषामिति बहुव्रीहिः, 'त्वमावेकवचने' इति मादेशः । युष्माकं यज्ञाः मत्प्रायणा मदुदयना असन् सन्त्विति साऽब्रवीत्, वरं च देवेभ्यो लब्धवती । तस्मात् यज्ञानां प्रायणीय उदयनीयश्च आदित्यः अदितिदेवत्यः । 'दित्यदिति' इति ण्यः । प्रायणीयः प्रारम्भयागः, उदयनीयस्समाप्तियागः । उभयत्रापि 'कृत्यल्युटो बहुलम्' इति करणे अनीयर्, 'उपोत्तमं रिति' इत्युपोत्तमस्योदात्तत्वम् । यद्वा - प्रायणं प्रारम्भः, उदयनं समाप्तिः, तत्र भवो याग इति ग्रहादित्वाच्छप्रत्ययः, प्रत्ययाद्युदात्तत्वम् ।।
4 पञ्चेत्यादिविधिः ।। ताश्च वक्ष्यमाणाः पथ्यास्वस्त्यादयो वेदितव्याः । दिशाम् । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । प्रज्ञात्यै प्रज्ञानाय भवति देवतायागः । 'तादौ च' इति गतेः प्रत्कृतिस्वरत्वम् । अथो इति । अपि चेत्यर्थः । पाङ्क्तत्वं यज्ञस्योक्तम् । पङ्क्तिशब्द उत्सादिः । पञ्चानां योगो यज्ञावरुद्ध्यै च भवति । काः पुनस्ता देवता इत्याह - पथ्यामित्यादि । पथि साधु पथ्या प्रजानां हितंकरः आदित्य इति केचित् । उषा इत्यन्ये । प्रजापतिरित्यपरे । अस्तेः 'क्तिचूक्तौ च संज्ञायाम्' इति क्तिच्, छान्दसो भूभावाभावः । 'छन्दस्युभयथा' इति सार्वधातुकत्वाद्वा । असतेर्वा क्तिचि 'तितुत्र' इतीट्प्रतिषेधः । तया देवतया प्राचीं प्राजानन् । प्राच्यादयश्शब्दा व्युत्पादिताः । अग्निनेत्यादि । अग्निमयजन् तेन दक्षिणामजानन् । एवं सर्वत्र । दक्षिणशब्दाद्द्वितीयैकवचनस्याजादेशः । यस्मादेवं पथ्यास्वस्त्यादीनां यागेन देवाः प्राच्याद्याः प्राजानन् तस्मात्पथ्यां स्वस्तिं यजति यजेत् इत्यादयो विधयः ।।
5 प्राचीमेवेत्यादीनि फलानि ।। अग्नीषोमौ । 'ईदग्नेः' इतीत्वम्, 'अग्नेस्तुत्स्तोमसोमाः' इति षत्वम्; 'देवताद्वन्द्वे च' इति द्वयोर्युगपत्प्रकृतिस्वरत्वम् । चक्षुषी इत्यादि । यज्ञचक्षुर्भूताभ्यां ताभ्यामनुपश्यति अनुक्रमेण जानाति, अनन्तरे दिशौ दक्षिणां प्रतीचीं च जानाति । सवितृप्रसूतः सवित्रा प्रेरितः अनुज्ञातो षा अनन्तरामुदींची दिशं जानाति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । इयमित्यादि । अस्यां पृथिव्यां प्रतिष्ठाय प्रतिष्ठितो भूत्वा अनन्तरामूर्ध्वां दिशं जानाति । अत्र सर्वत्रेष्ट्वेति क्त्वाप्रत्ययेन यष्टव्यानां देवतानां क्रमं दर्शयति ॥
6 अदितिमिष्ट्वेत्यादि ॥ मारुत्या अनुवचनविधिः । यां कांचिन्मरुद्देवत्यामन्वाह । विशः प्रजाः प्रकृतयः । देवविशमित्यादि । देवानां विशो देवविशम् । मनुष्याणां विशो मनुष्यविशम् । जातावेकवचनम्, 'अच्' इति योगाविभागात्समासान्तः । यथोक्तम् - 'अन्यत्रापि दृश्यते' इति । लिङ्गस्वाभाव्यान्नपुंसकत्वम्, यथोक्तं - 'लिङ्गमशिष्यम्' इति । अयमर्थः - यदा देवानां विशः कल्पन्ते संपद्यन्ते तदा तेनैव हेतुना लक्षणेन वा मनुष्याणां विशः कल्पन्ते संपन्ना भवन्ति । लक्षणेनोः कर्मप्रवचनीयत्वम् । तस्मान्मारुत्या अनुवचनं विशां कॢप्त्यै भवति ।।
7 ब्रह्मवादिन इत्यादि ।। प्रारम्भे यष्टव्याः प्रयाजाः । अनु पश्चात् समाप्तौ यष्टव्याः अनूयाजाः । 'प्रयाजानूयाजौ यज्ञाङ्गे' इति कुत्वाभावो निपात्यते, थाथादिनोत्तरपदान्तोदात्तत्वम् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इत्यनोर्दीर्घत्वम् । प्रयाजयुक्तमविद्यमानानूयाजं प्रायणीयं कार्यं अनूयाजयुक्तमविद्यमानप्रयाजमुदयनीयं कार्यमिति ब्रह्मवादिन आहुः । अत्र पूर्वयोः 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । प्रायणीयोदयनीयशब्दौ अर्धर्चादिद्रष्टव्यौ ।।
8 अथ ब्रह्मवादिन उक्तेऽर्थे कारणं वदन्ति - इमे इत्यादि ।। सन्निहितपुरोवर्तिविषय इदंशब्दः, विपरीतविषयोदश्शब्दः । अयमर्थः - इमे प्रयाजाः अस्मिन् यागारम्भकाले सन्निहिताः प्रयाजाः । अमी अनूयाजाः उत्तरस्मिन् यागसमाप्तिकाले भविष्यन्त्यनूयाजाः । तस्मात्सैव प्रायणीये प्रयाजप्रभृति प्रवृत्ता सा यज्ञस्य सन्ततिः । या उदयनीयानूयाजकाले सन्तन्यते । एतावन्तं कालमेकैकाविच्छेदेन यज्ञस्य सन्ततिः संपन्ना भवति । अन्यथा यदि प्रायणीये अनूयाजास्स्युः, तेषां यज्ञसमाप्तिविषयत्वात् यज्ञसन्ततिः प्रस्तुता विच्छिन्ना स्यात् । अथ यद्युदयनीये प्रयाजास्स्युः तेषां यज्ञारम्भविषयत्वात् प्रस्तुतयज्ञसन्ततिविच्छिदोनेनानुमीयते । तस्मादुभयाभावात् सैव सा यज्ञस्य सन्ततिर्भवति । यद्वा - इमे वै प्रयाजा आरम्भयागाः खलु प्रयाजाः, तस्मात्त एवारम्भयागे प्रायणीये स्युरिति युज्यते । अथामी अनूयाजाः समाप्तियागाः, त एव समाप्तियागाः उदयनीये भवितुमर्हन्तीत्यर्थः । एतदेव समर्थयते - सैवेति । सैव हि यज्ञस्य प्रायणनीयस्य सैवोदयनीयस्य च सन्ततिरिति । यद्वा - इमे इदंरूपाः भूलोकात्मानः प्रयाजाः । अमी अदोरूपाः स्वर्लोकात्मानोनूयाजाः । सैव सा उदयनीयसमाप्तिः एतल्लोकसंबन्धिन्येव यज्ञस्य सन्ततिर्भवति, तथा यजमानोस्मिन् लोके प्रतिष्ठितो भवतीति ।।
9 एवं देवतासाम्येनानयोर्यागयोरैक्यं मन्यमानैः ब्रह्मवादिभिरुक्ते एतद्दूषयति - तत्तथेति ।। अयमभिप्रायः - भिन्नावेतौ यागौ भिन्नकालौ व्यवहितौ च । न च देवताया अभेदमात्रेणैकत्वं भवति अध्वरकल्पवदिति । यथोक्तं ब्रह्मवादिभिस्तथा न कर्तव्यं; कुत इत्याह - आत्मेत्यादि । प्रथमजातत्वादात्मत्वम्, पश्चाज्जातत्वात्प्रजात्वम् । अन्तरियात् विनाशयेत् । तस्मादन्यतरान्तरयेऽन्यतरान्तरयस्स्यात् । यच्चोक्तं यज्ञसन्ततिस्संपन्ना भवतीति तदपि नेत्याह - यतः खल्विति । यज्ञस्य विततस्य अप्रतिषिद्धप्रसरस्य यतः प्रदेशात्प्रभृति न क्रियते तदनु यज्ञः पराभवति । यज्ञं पराभवन्तं यजमानोनुपराभवति । तस्मादसमीचीनं ब्रह्मवादिवचनमिति ।।
10 कथं तर्हि कर्तव्यमित्याह - प्रयाजवदेवेत्यादि ।। उभयमुभयवदेव कर्तव्यमिति नात्मानं न च प्रजामन्तरेति, न यज्ञो न च यजमानः पराभवति ।।
11 यज्ञसन्ततिमपि दर्शयाम इत्याह - प्रायणीयस्य निष्कास इति विधिः ।। प्रायणीयस्य निष्कासे स्थाल्यां मेक्षणे च लग्नं यदन्नकल्पमन्नं तस्योपर्युदयनीयं निर्वपति । एतेन प्रायणीयोदयनीययोरेका यज्ञस्य सन्ततिः कृता भवति ।।
12 अत्र तैर्ब्रह्मवादिभिर्यदुक्तं 'याः प्रायणीयस्य याज्यास्ता एवोदयनीयस्य याज्याः कार्याः' इति तदपि दूषयति - यत् यदि तथा कुर्यात् पराङपुनरावृत्त एव एनं लोकं मुक्त्वा अमुमूर्ध्वलोकमारोहेत्; ततश्च प्रमायुकः परागतासुः स्यात् । यजत्याभिरिति याज्याः, 'कृत्यल्युटो बहुलम्' इति करणे ल्युट्, 'यजयाचरुचप्रवचर्चश्च' इति कुत्वाभावः । पराऽञ्चतीति पराङ्, ऋत्विगादिना क्विनि अनुनासिकलोपे संयोगान्तलोपे च 'क्विन्प्रत्ययस्य कुः' इति कुत्वम्, 'अनिगन्तोञ्चतावप्रत्यये' इति गतेः प्रकृतिस्वरत्वम् । मीयतेः छान्दस उकञ्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।।
13 एवं परोक्तं दूषयित्वा स्वसिद्धिमाह - याः प्रायणीयस्य पुरोनुवाक्या इत्यादिविधिः ।। पुरस्तादनूच्यन्ते इति पुरोनुवाक्याः पथ्यास्वस्त्यादीनाम् । ण्यति कृदुत्तरपदप्रकृतिस्वरत्वम् । याः प्रायणीयस्य याज्याः ता उदयनीयस्य पुरोनुवाक्याः कुर्यादित्ययमपि गम्यते । उक्तदोषाभावमिदानीमाह - अस्मिन्नित्यादि । यागान्ते न्यायप्राप्तयाज्यां मुक्त्वा प्रायणीयपुरोनुवाक्यास्वीकारेणामुष्माल्लोकादिमं लोकमागत इवायं भवतीति पुनरावृत्तोस्मिन्नेव लोके प्रतितिष्ठतीति; दीर्घायुर्भवतीति यावत् । 'ऊडिदम्' इत्यादिना इदमो विभक्तेरुदात्तत्वम् ।।
इति षष्ठे प्रथमे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.5.2 TS 6.1.5.2
अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे॒ पथ्याꣳ॑ स्व॒स्तिम॑यज॒न् प्राची॑मे॒व तया॒ दिशं॒ प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीꣳ॑ सवि॒त्रोदी॑ची॒-मदि॑त्यो॒र्द्ध्वां पथ्याꣳ॑ स्व॒स्तिं ॅय॑जति॒ प्राची॑मे॒व तया॒ दिशं॒ प्र जा॑नाति॒ पथ्याꣳ॑ स्व॒स्तिमि॒ष्ट्वाऽग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञ्स्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्य - [ ]
पदपाठः (Word-by-word)
अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । पथ्या᳚म् । स्व॒स्तिम् । अ॒य॒ज॒न्न् । प्राची᳚म् । ए॒व । तया᳚ । दिश᳚म् । प्रेति॑ । अ॒जा॒न॒न्न् । अ॒ग्निना᳚ । द॒क्षि॒णा । सोमे॑न । प्र॒तीची᳚म् । स॒वि॒त्रा । उदी॑चीम् । अदि॑त्या । ऊ॒द्‌र्ध्वाम् । पथ्या᳚म् । स्व॒स्तिम् । य॒ज॒ति॒ । प्राची᳚म् । ए॒व । तया᳚ । दिश᳚म् । प्रेति॑ । जा॒ना॒ति॒ । पथ्या᳚म् । स्व॒स्तिम् । इ॒ष्ट्वा । अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ᳚ । य॒ज॒ति॒ । चक्षु॑षी॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । ताभ्या᳚म् । ए॒व । अन्विति॑ । प॒श्य॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.5.3 TS 6.1.5.3
-त्य॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ ॅयजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वाऽदि॑तिं ॅयजती॒यं ॅवा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानां॒ ॅविशो॑ देववि॒शां खलु॒ वै कल्प॑मानं मनुष्यवि॒शमनु॑ कल्पते॒ यन् मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां क्लृप्त्यै᳚ ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒जं प्रा॑य॒णीयं॑ का॒र्य॑-मनूया॒जव॑ - [ ]
पदपाठः (Word-by-word)
अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । इ॒ष्ट्वा । स॒वि॒तार᳚म् । य॒ज॒ति॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । अन्विति॑ । प॒श्य॒ति॒ । स॒वि॒तार᳚म् । इ॒ष्ट्वा । अदि॑तिम् । य॒ज॒ति॒ । इ॒यम् । वै । अदि॑तिः । अ॒स्याम् । ए॒व । प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ । अन्विति॑ । प॒श्य॒ति॒ । अदि॑तिम् । इ॒ष्ट्वा । मा॒रु॒तीम् । ऋच᳚म् । अन्विति॑ । आ॒ह॒ । म॒रुतः॑ । वै । दे॒वाना᳚म् । विशः॑ । दे॒व॒वि॒शमिति॑ देव - वि॒शम् । खलु॑ । वै । कल्प॑मानम् । म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य-वि॒शम् । अन्विति॑ । क॒ल्प॒ते॒ । यत् । मा॒रु॒तीम् । ऋच᳚म् । अ॒न्वाहेत्य॑नु-आह॑ । वि॒शाम् । क्लृप्त्यै᳚ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । प्र॒या॒जव॒दिति॑ प्रया॒ज - व॒त् । अ॒न॒नू॒या॒जमित्य॑ननु - या॒जम् । प्रा॒य॒णीय॒मिति॑ प्र - अ॒य॒णीय᳚म् । का॒र्य᳚म् । अ॒नू॒या॒जव॒दित्य॑नूया॒ज - व॒त् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.5.4 TS 6.1.5.4
दप्रया॒ज-मु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जाः सैव सा य॒ज्ञ्स्य॒ सन्त॑ति॒स्तत् तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒जाऽनू॑या॒जा यत् प्र॑या॒जा-न॑न्तरि॒यादा॒त्मान॑म॒-न्तरि॑या॒द्-यद॑नूया॒जा-न॑न्तरि॒यात् प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै य॒ज्ञ्स्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञ्ः परा॑ भवति य॒ज्ञ्ं प॑रा॒भव॑न्तं॒ ॅयज॑मा॒नोऽनु॒ - [ ]
पदपाठः (Word-by-word)
अ॒प्र॒या॒जमित्य॑प्र - या॒जम् । उ॒द॒य॒नीय॒मित्यु॑त् - अ॒य॒नीय᳚म् । इति॑ । इ॒मे । वै । प्र॒या॒जा इति॑ प्र - या॒जाः । अ॒मी इति॑ । अ॒नू॒या॒जा इत्य॑नु - या॒जाः । सा । ए॒व । सा । य॒ज्ञ्स्य॑ । सन्त॑ति॒रिति॒ सं - त॒तिः॒ । तत् । तथा᳚ । न । का॒र्य᳚म् । आ॒त्मा । वै । प्र॒या॒जा इति॑ प्र - या॒जाः । प्र॒जेति॑ प्र - जा । अ॒नू॒या॒जा इत्य॑नु-या॒जाः । यत् । प्र॒या॒जानिति॑ प्र-या॒जान् । अ॒न्त॒रि॒यादित्य॑न्तः - इ॒यात् । आ॒त्मान᳚म् । अ॒न्तः । इ॒या॒त् । यत् । अ॒नू॒या॒जानित्य॑नु - या॒जान् । अ॒न्त॒रि॒यादित्य॑न्तः - इ॒यात् । प्र॒जामिति॑ प्र-जाम् । अ॒न्तः । इ॒या॒त् । यतः॑ । खलु॑ । वै । य॒ज्ञ्स्य॑ । वित॑त॒स्येति॒ वि-त॒त॒स्य॒ । न । क्रि॒यते᳚ । तत् । अन्विति॑ । य॒ज्ञ्ः । परेति॑ । भ॒व॒ति॒ । य॒ज्ञ्म् । प॒रा॒भव॑न्त॒मिति॑ परा - भव॑न्तम् । यज॑मानः । अनु॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.5.5 TS 6.1.5.5
परा॑ भवति प्रया॒जव॑दे॒वा-नू॑या॒जव॑त् प्राय॒णीयं॑ का॒र्यं॑ प्रया॒जव॑दनूया॒जव॑-दुदय॒नीयं॒ नाऽऽ*त्मान॑मन्त॒रेति॒ न प्र॒जां न य॒ज्ञ्ः प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञ्स्य॒ सन्त॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत् ता उ॑दय॒नीय॑स्य या॒ज्याः᳚ कु॒र्यात् परा॑ङ॒मुं ॅलो॒कमा रो॑हेत् प्र॒मायु॑कः स्या॒द्याः प्रा॑य॒णीय॑स्य पुरोऽनुवा॒क्या᳚स्ता ( ) उ॑दय॒नीय॑स्य या॒ज्याः᳚ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ॥
पदपाठः (Word-by-word)
परेति॑ । भ॒व॒ति॒ । प्र॒या॒जव॒दिति॑ प्रया॒ज - व॒त् । ए॒व । अ॒नू॒या॒जव॒दित्य॑नूया॒ज - व॒त् । प्रा॒य॒णीय॒मिति॑ प्र - अ॒य॒नीय᳚म् । का॒र्य᳚म् । प्र॒या॒जव॒दिति॑ प्रया॒ज - व॒त् । अ॒नू॒या॒जव॒दित्य॑नूया॒ज-व॒त् । उ॒द॒य॒नीय॒मित्यु॑त्-अ॒य॒नीय᳚म् । न । आ॒त्मान᳚म् । अ॒न्त॒रेतीत्य॑न्तः-एति॑ । न । प्र॒जामिति॑ प्र - जाम् । न । य॒ज्ञ्ः । प॒रा॒भव॒तीति॑ परा - भव॑ति । न । यज॑मानः । प्रा॒य॒णीय॒स्येति॑ प्र - अ॒य॒नीय॑स्य । नि॒ष्का॒से । उ॒द॒य॒नीय॒मित्यु॑त् - अ॒य॒नीय᳚म् । अ॒भि । निरिति॑ । व॒प॒ति॒ । सा । ए॒व । सा । य॒ज्ञ्स्य॑ । सन्त॑ति॒रिति॒ सं - त॒तिः॒ । याः । प्रा॒य॒णीय॒स्येति॑ प्र - अ॒य॒नीय॑स्य । या॒ज्याः᳚ । यत् । ताः । उ॒द॒य॒नीय॒स्येत्यु॑त्-अ॒य॒नीय॑स्य । या॒ज्याः᳚ । कु॒र्यात् । पराङ्॑ । अ॒मुम् । लो॒कम् । एति॑ । रो॒हे॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । याः । प्रा॒य॒णीय॒स्येति॑ प्र - अ॒य॒नीय॑स्य । पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः - अ॒नु॒वा॒क्याः᳚ । ताः ( ) । उ॒द॒य॒नीय॒स्येत्यु॑त् - अ॒य॒नीय॑स्य । या॒ज्याः᳚ । क॒रो॒ति॒ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 58