अनुवाकः 6 TS 6.1.6

(A6)

(निष्क्री॑णीष्व॒ - दक्षि॑णाभिश्च - वदन्ति॒ - मन्य॑न्ते-गन्ध॒र्वेभ्यो॑-ब॒हुत॑याः-पिङ्गा॒क्ष्या-दश॑ च )

अनुवाकः 6 - Complete Audio

TS 6.1.6 - स्वरानुगामी

0:00 0:00
PS1.1 क॒द्रूश्च॒ वै सु॑प॒र्णी चा᳚ऽऽ*त्मरू॒पयो॑रस्पर्द्धेताꣳ॒॒
PS1.2 सा क॒द्रूः सु॑प॒र्णीम॑जय॒थ् साऽब्र॑वीत्
PS1.3 तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒
PS1.4 तेना॒ऽऽ*त्मानं॒ निष्क्री॑णी॒ष्वेती॒यं ॅवै क॒द्रूर॒सौ
PS1.5 सु॑प॒र्णी छन्दाꣳ॑सि सौपर्णे॒याः साब्र॑वीद॒स्मै
PS1.6 वै पि॒तरौ॑ पु॒त्रान् बि॑भृत-स्तृ॒तीय॑स्यामि॒तो
PS1.7 दि॒वि सोम॒स्तमा ह॑र॒ तेना॒ऽऽ*त्मानं॒
PS1.8 निष्क्री॑णी॒ष्वे - [ ]
PS2.1 ति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒-च्चतु॑र्दशाक्षरा
PS2.2 स॒ती सा ऽप्रा᳚प्य॒ न्य॑वर्तत॒
PS2.3 तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताꣳ॒॒
PS2.4 सा प॒शुभि॑श्च दी॒क्षया॒ चाऽग॑च्छ॒त्
PS2.5 तस्मा॒ज्जग॑ती॒ छन्द॑सां पश॒व्य॑तमा॒ तस्मा᳚त्
PS2.6 पशु॒मन्तं॑ दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त्
PS2.7 त्रयो॑दशाक्षरा स॒ती सा ऽप्रा᳚प्य॒
PS2.8 न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑
PS2.9 अमीयेताꣳ॒॒ सा दक्षि॑णाभिश्च॒ -
PS2.10 [ ]
PS3.1 तप॑सा॒ चाऽग॑च्छ॒त् तस्मा᳚त् त्रि॒ष्टुभो॑
PS3.2 लो॒के माद्ध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा
PS3.3 नीयन्त ए॒तत् खलु॒ वाव
PS3.4 तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑
PS3.5 गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या
PS3.6 अ॒जाऽभ्य॑रुन्ध॒ तद॒जाया॑ अज॒त्वꣳ सा
PS3.7 सोमं॒ चाऽऽह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ साऽष्टाक्ष॑रा॒
PS3.8 सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति॒ -
PS3.9 [ ]
PS4.1 कस्मा᳚थ् स॒त्याद्-गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साꣳ
PS4.2 स॒ती य॑ज्ञ्मु॒खं परी॑या॒येति॒ यदे॒वादः
PS4.3 सोम॒माऽह॑र॒त् तस्मा᳚द्-यज्ञ्मु॒खं पर्यै॒त् तस्मा᳚त्
PS4.4 तेज॒स्विनी॑तमा प॒द्भ्यां द्वे सव॑ने
PS4.5 स॒मगृ॑ह्णा॒न् मुखे॒नैकं॒ ॅयन्मुखे॑न स॒मगृ॑ह्णा॒त्
PS4.6 तद॑धय॒त् तस्मा॒द् द्वे सव॑ने
PS4.7 शु॒क्र॑वती प्रातस्सव॒नं च॒ माद्ध्य॑न्दिनं
PS4.8 च॒ तस्मा᳚त् तृतीय सव॒न
PS4.9 ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि
PS4.10 मन्य॑न्त - [ ]
PS5.1 आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सं
PS5.2 भ॑रत्ये॒वैन॒त् तꣳ सोम॑-माह्रि॒यमा॑णं गन्ध॒र्वो
PS5.3 वि॒श्वाव॑सः॒ पर्य॑मुष्णा॒थ् स ति॒स्रो
PS5.4 रात्रीः॒ परि॑मुषितोऽवस॒त् तस्मा᳚त् ति॒स्रो
PS5.5 रात्रीः᳚ क्री॒तः सोमो॑ वसति॒
PS5.6 ते दे॒वा अ॑ब्रुव॒न्थ् स्त्रीका॑मा॒
PS5.7 वै ग॑न्ध॒र्वा स्स्त्रि॒या निष्क्री॑णा॒मेति॒
PS5.8 ते वाचꣳ॒॒ स्त्रिय॒मेक॑हायनीं कृ॒त्वा
PS5.9 तया॒ निर॑क्रीण॒न्थ् सा रो॒हिद्-रू॒पं
PS5.10 कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑- [ ]
PS6.1 ऽप॒क्रम्या॑तिष्ठ॒त् तद्-रो॒हितो॒ जन्म॒ ते
PS6.2 दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒-न्नास्मानु॒-पाव॑र्तते॒ वि
PS6.3 ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा
PS6.4 अव॑द॒न्नगा॑यन् दे॒वाः सा दे॒वान्
PS6.5 गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्-गाय॑न्तꣳ॒॒ स्त्रियः॑
PS6.6 कामयन्ते॒ कामु॑का एनꣳ॒॒ स्त्रियो॑
PS6.7 भवन्ति॒ य ए॒वं ॅवेदाथो॒
PS6.8 य ए॒वं ॅवि॒द्वानपि॒ जन्ये॑षु॒
PS6.9 भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त
PS6.10 यद्-ब॒हुत॑या॒ - [ ]
PS7.1 भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैनꣳ॒॒ सर्व॑या
PS7.2 क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑
PS7.3 ॅवद॒न्त्यकू॑ट॒या ऽक॑र्ण॒याऽ का॑ण॒याश्लो॑ण॒या ऽस॑प्तशफया
PS7.4 क्रीणाति॒ सर्व॑यै॒वैनं॑ क्रीणाति॒ यच्छ्वे॒तया᳚
PS7.5 क्रीणी॒याद्-दु॒श्चर्मा॒ यज॑मानः स्या॒द्यत् कृ॒ष्णया॑-ऽनु॒स्तर॑णी
PS7.6 स्यात् प्र॒मायु॑को॒ यज॑मानः स्या॒द्यद्
PS7.7 द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒थ् स
PS7.8 वा॒ऽन्यं जि॑नी॒यात् तं ॅवा॒ऽन्यो
PS7.9 जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या ( )
PS7.10 क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पꣳ स्वयै॒वैनं॑
PS7.11 दे॒वत॑या क्रीणाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.6.1 TS 6.1.6.1
क॒द्रूश्च॒ वै सु॑प॒र्णी चा᳚ऽऽ*त्मरू॒पयो॑रस्पर्द्धेताꣳ॒॒ सा क॒द्रूः सु॑प॒र्णीम॑जय॒थ् साऽब्र॑वीत् तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒ऽऽ*त्मानं॒ निष्क्री॑णी॒ष्वेती॒यं ॅवै क॒द्रूर॒सौ सु॑प॒र्णी छन्दाꣳ॑सि सौपर्णे॒याः साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान् बि॑भृत-स्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमा ह॑र॒ तेना॒ऽऽ*त्मानं॒ निष्क्री॑णी॒ष्वे - [ ]
पदपाठः (Word-by-word)
क॒द्रूः । च॒ । वै । सु॒प॒र्णीति॑ सु - प॒र्णी । च॒ । आ॒त्म॒रू॒पयो॒रित्या᳚त्म - रू॒पयोः᳚ । अ॒स्प॒द्‌र्धे॒ता॒म् । सा । क॒द्रूः । सु॒प॒र्णीमिति॑ सु-प॒र्णीम् । अ॒ज॒य॒त् । सा । अ॒ब्र॒वी॒त् । तृ॒तीय॑स्याम् । इ॒तः । दि॒वि । सोमः॑ । तम् । एति॑ । ह॒र॒ । तेन॑ । आ॒त्मान᳚म् । निरिति॑ । क्री॒णी॒ष्व॒ । इति॑ । इ॒यम् । वै । क॒द्रूः । अ॒सौ । सु॒प॒र्णीति॑ सु-प॒र्णी । छन्दाꣳ॑सि । सौ॒प॒र्णे॒याः । सा । अ॒ब्र॒वी॒त् । अ॒स्मै । वै । पि॒तरौ᳚ । पु॒त्रान् । बि॒भृ॒तः॒ । तृ॒तीय॑स्याम् । इ॒तः । दि॒वि । सोमः॑ । तम् । एति॑ । ह॒र॒ । तेन॑ । आ॒त्मान᳚म् । निरिति॑ । क्री॒णी॒ष्व॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

इत्थं प्रायणीयेष्टिगुक्त्वा सोमक्रयाणीं वक्तुं सोमाहरणं सोपाख्यानमाह —

“कद्रूश्च वै सुपर्णी चाऽऽत्मरूपयोरस्पर्धेताँ सा कद्रूः सुपर्णीमजयत्साऽब्रवीत्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति” (सं. का. ६ प्र. १ अ. ६) इति।

कद्रूः सुपर्णी चोमे सपत्न्यौ पराजये दासीत्वमभ्युपेत्य ममैव सौन्दर्यं ममैवेत्यस्पर्धेताम्। तत्र मध्यस्थाः कद्र्वा जयमूचिरे। सा च कद्रूः सपत्नीं दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेवोपदिदेश। इतोऽस्माल्लोकादारभ्य गणनायां तृतीया द्यौः स्वर्गलोकस्तस्मिन्सोमो वर्तते। महर्जनस्तपः सत्यमित्येतेऽपि लोका द्युशब्दाभिधेयास्तस्मादितस्तृतीयस्यामिति विशेष्यते। सोम आहृत्य दत्ते सति त्वां मुञ्चामीति।

सोमाहरणं संभावयितुं श्रुतिराह —

“इयं वै कद्रूरसौ सुपर्णी छन्दासि सौपर्णेयाः” (सं. का. ६ प्र. १ अ. ६) इति।

भूलोकरूपत्वात्कद्रूः स्वयमाहर्तुं न शक्नोति। सुपर्णी तु द्युलोकरूपत्वादुत्पतनसमर्थानां गायत्र्यादिरूपाणामपत्यानां सद्भावाच्च शक्नोति।

अथ सा सुपर्णी स्वपुत्राणां गायत्र्यादीनामग्रे स्ववृत्तान्तं स्पष्टी करोतीत्याह —

“साऽब्रवीदस्मै वै पितरौ पुत्रान्विभृतस्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति मा कद्रूरवोचदिति” (सं. का. ६ प्र. १ अ. ६) इति।

पुंनामनरकोपलक्षितादशेषाद्दुःखात्त्रायन्त इति पुत्रास्तास्तान्पुत्रानस्यमा एतादृशोपद्रवपरित्राणाय मातापितरौ पुष्णीतः। हे गायत्र्यादिपुत्राः कद्रूवचनमवगत्य यदुचितं तत्कुरुध्वम्। गायत्र्यादीनामैच्छिकशरीरधारित्वात्पुत्रत्वमविरुद्धम्।

तत्र प्रौढत्वादादौ जगती प्रववृत इत्याह —

“जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगती छन्दसां पशव्यतमा तस्मात्पशुमन्तं दीक्षोपनमति” (सं. का. ६ प्र. १ अ. ६) इति।

पुरा जगतीपादस्य चतुर्दशाक्षराण्यासन्। तादृशी जगती द्युलोकं गत्वास्वानभ्राजादिसोमरक्षकैः सह युद्ध्वा सोममप्राप्याग्नीषोमीयसवनीयानूबन्ध्याख्यपशूनिष्टिसाध्यां दीक्षां च गृहीत्वा स्वकीये चाक्षरद्वये स्वानादिभिर्गृहीते सति पराजित्य समागता। यस्माज्जगती पशूनानयत्तस्मात्सैवात्यन्तं पशुप्रदा। यतः पशुभिः सह दीक्षाऽऽनीता ततः स्वाधीनसंपत्तौ सत्यां दीक्षायां प्रवर्तते।

तथैव त्रिष्टुभो युद्धं दर्शयति —

“त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा दक्षिणाभिश्च तपसा चाऽऽगच्छत्” (सं. का. ६ प्र. १ अ. ६) इति।

गौश्चाश्वश्चेत्यादयो दक्षिणाः। अशनपरित्यागमुष्टिबन्धवाग्यमनवनीताभ्यङ्गकृष्णाजिनप्रावरणादिक्लेशसहिष्णुत्वं तपः। प्राणवत्प्रियस्य गवाश्वादेर्दानमधिकं तपः।

त्रिष्टुभा तदानयनमुपपादयति —

“तस्मात्त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति” (सं. का. ६ प्र. १ अ. ६) इति।

माध्यंदिनसवनस्य त्रिष्टुगभिमानिनी देवता। ततस्तदेतत्त्रिप्टुभो लोकः स्थानं, शरीरप्रयासादपि धनहानिकृतस्य मानसप्रयासस्याधिकत्वाद्दत्तेन धनेन परोपजीवनाच्च दानमेव महत्तप इत्यभिज्ञानां मतम्।

गायत्र्या युद्धे जयं दर्शयति —

“गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्ध तद जाया अजत्व सा सोमं चाऽहरच्चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत” ( सं. का. ६ प्र. १ अ. ६) इति।

सहायरहितयोः पूर्वयोः पराजयं दृष्ट्वा गायत्री स्वयमजया सहोदपतत्। सा त्वजा गायत्र्यर्थं स्वकीयेन तेजसा तं सोममभितो रुरोध। तस्माद्रोधनपर्यायक्षेपणार्थादजधातोरजेति नाम निष्पन्नम्।

प्रश्नोत्तराभ्यां गायत्रीं प्रशंसति —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसा सती यज्ञमुखं परीयायेति यदेवादः सोममाहरत्तस्माद्यज्ञमुखं पर्यैत्तस्मात्तेजस्विनीतमा” (सं. का. ६ प्र. १ अ. ६) इति।

सत्यात्कारणात्। कनिष्ठा न्यूनाक्षरा। यज्ञमुखं प्रातःसवनम्। तत्र बहिष्पवमाननाम्नि प्रथमस्तोत्र उपास्मै गायता नर इत्याद्या ऋचो गायत्र्यः। सेयं यज्ञमुखप्राप्तिः। ब्रह्मवादिष्वेव बुद्धिमन्तो यदेवेत्याद्युत्तरमाहुः। यस्मादियमदोऽमुष्माल्लोकात्सोममाहरत्तस्मादस्या मुखप्राप्तिर्युक्ता। मुखत्वादेवास्यास्तेजोबाहुल्यम्।

आहरणप्रकारं दर्शयति —

“पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधयत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” (सं. का. ६ प्र. १ अ. ६) इति।

पक्षिरूपा गायत्री सवनद्वयपर्याप्तौ सोमभागो पद्भ्यां संगृह्य तृतीयसवनपर्याप्तं सोमभागं चञ्चुपुटाभ्यां संदश्य तदीयं रसं पपौ। यस्मात्पद्भ्यां धृतौ सोमभागौ न पीतौ तस्मात्प्रातःसवनमाध्यंदिनसवने शुक्रशब्दाभिधेयेन सोमरसेनोपेते।

यस्मात्तृतीये भागः पीतस्तस्मात्पीतत्वं मन्यमानास्तत्सादृश्यार्थमृजीषमभिषुणुयुरिति प्रासङ्गिके किंचिद्विधाय तत्रापरं

विशेषं विधत्ते —

“आशिरमवनयति सशुक्रत्वायाथो संभरत्येवैनत्” [सं. का. ६ प्र. १ अ. ६] इति।

आशिरं क्षीरम्। सशुकत्वं सरसत्वम्। किंच क्षीरसेचनादृजीषगतसोमरसरूपहविः संभरति सम्यक्पोषयत्येव।

पुनरप्यन्यद्विधत्ते —

‘त सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्त्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति’ (सं. का. ६ प्र. १ अ. ६) इति।

उपसद्दिवसेषु त्रिष्वभिषवमकृत्वा सोमं निवासयेदित्यर्थः।

इत्थं सोमाहरणं निरूप्य सोमक्रयणीं निरूपयितुमारभते —

‘ते देवा अब्रुवनस्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाच स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्’ (सं. का. ६ प्र. १ अ. ६) इति।

एकसंवत्सरवयस्कया स्त्रीरूपया वाग्देवतया सोमस्य निष्क्रयः कृतः।

गन्धर्वेष्वपरक्तायास्तस्याः स्त्रिया रोहितगोरूपतां दर्शयति —

‘सा रोहिद्रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्यातिष्ठत्तद्रोहितो जन्म’ (सं. का. ६ प्र. १ अ. ६) इति।

देवेष्वनुरक्तायाः पुनर्देवताप्राप्तिं दर्शयति –

‘ते देवा अब्रुवन्नप युष्मदक्रमीन्नास्मानुपावर्तते विह्वयामहा इति ब्रह्म गन्धर्वा अवदन्नगायन्देवाः सा देवान्गायत उपावर्तत तस्माद्गायन्त स्त्रियः कामयन्ते’ (सं. का. ६ प्र. १ अ. ६) इति।

विह्वयामहै विलक्षणं यथा भवति तथैवाऽऽकारयामः। ब्रह्म वेदः।

एतद्वृत्तान्तवेदनं प्रशंसति —

‘कामुका एन स्त्रियो भवन्ति य एवं वेदाथो य एवंविद्वानपि जन्येषु भवति तेभ्य एव ददत्युत यद्बहुतया भवन्ति’ (सं. का. ६ प्र. १ अ. ६) इति।

वरस्य स्निग्धा वरार्थं कन्यामन्वेष्टुं प्रवृत्ता बान्धवा जन्याः। तादृशानां जन्यानां द्वौ वर्गौ। तत्रैकस्मिन्वर्गे यथोक्तवेदनरहिता अनेकगुणान्तरोपेता बहवोवरा यद्यपि सन्ति तथाऽपि तं वर्गमुपेक्ष्य येषु जन्येष्वेकोऽप्येवं विद्वान्वरो भवति तेभ्य एव जन्येभ्यः कन्यां तत्पितरो ददति।

सोमक्रयण्यां गुणं विधत्ते —

“एकहायन्या क्रीणाति वाचैवैन सर्वया क्रीणाति तस्मादेकहायना मनुष्या वाचं वदन्ति” (सं. का. ६ प्र. १ अ. ६) इति।

वाग्देवतायाः सोमक्रयणीरूपस्वीकारात्सर्वया वाचा क्रय उपपद्यते। एकसंवत्सरस्वीकारश्च तस्मिन्वयसि सति वदनव्यवहारोपक्रमात्।

वर्ज्यदोषान्विशदयति —

‘अकूटयाऽकर्णयाऽकाणयाऽश्लोणयाऽसप्तशफया क्रीणाति” (सं. का. ६ प्र. १ अ. ६) इति।

कूटा कुटिलशृङ्गी। कर्णा छिन्नकर्णोपेता। काणा त्वेकाक्षी। श्लोणा कुष्ठादिदूषिता। सप्तशफा न्यूनाङ्गी। एता वर्ज्याः।

उपादेयां दर्शयति —

‘सर्वयैवैनं क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।

सर्वाऽवयवसंपूर्णेत्यर्थः।

विपक्षबाधपुरःसरं स्वपक्षं विधत्ते —

‘यच्छ्वेतया क्रीणीयाद्दुश्चर्मा यजमानः स्याद्यत्कृष्णयाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यद्द्विरूपया वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयादरुणया पिङ्गाक्ष्या क्रीणात्येतद्वै सोमस्य रूप स्वयैवैनं देवतया क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।

मृतं पुरुषमनु हन्यमाना गौरनुस्तरणी। कृष्णायास्तादृक्त्वेन यजमानो म्नियेत। वर्णद्वयोपेता यद्यापि विरोधिघातिनी तथाऽपि यजमानतद्वैरिणोरन्योन्यविरोधित्वात्को हन्ति को वा हन्यत इति न ज्ञायते। अरुणत्वं पिङ्गाक्षत्वं च सोमदेवतायाः स्वरूपम्। अतस्तादृशी गौः सोमक्रयाय सदृशी भवति।

इत्थं चतुर्थानुवाकोक्तमन्त्रव्याख्यानस्योपोद्घातत्वेन ब्राह्मणेन प्रायणीयासोमक्रयण्यावनुवाकभ्यामभिहिते। अथ मन्त्रा व्याख्यातव्याः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ सवनगुणान्विधास्यन् तदर्थं गायत्रीं स्तोतुमाह - कद्रूरित्यादि ।। दिव्यमातरावेते आत्मरूपयोर्निजसौन्दर्यनिमित्तमहं दर्शनीयाऽहं दर्शनीयेति सपत्नीत्वादस्पर्धेतां स्पर्धमाने विप्रतिपत्तिमकुरुताम् । 'कद्रुकमण्डल्वोः' इति कद्रुशब्दादूङ्प्रत्ययः । 'पाककर्ण' इत्यादिना सुपर्णशब्दात् ङीष् । ततस्सा कद्रूस्सुपर्णीमजयत् रूपवत्तया तां जित्वा दासीं जग्राह । ततस्सा कद्रूस्सुपर्णीमब्रवीत् । इतस्तृतीयस्यां दिवि सोमो यागात्मा वर्तते, तदानयनेन हेतुना आत्मानं निष्क्रीणीष्व त्वां दासीभावान्मोचयेति । देवनशीलत्वात्त्रयोपि लोका दिव इत्युच्यन्ते, तत्र भूमिष्ठा कद्रूराह - इतस्तृतीयस्यां दिवीति । यद्वा - द्यौरेव त्रिखण्डा, तत्र दिविष्ठैवाह - इतस्तृतीयस्मिन् द्युखण्डे सोमो वर्तते इति । 'तीयस्य वा ङित्सूपसंख्यानम्' इति स्याभावः । 'ऊडिदम्' इतीदमो विभक्तेरुदात्तत्वम् । इयं वा इत्यादि । दिवः पुत्रत्वेन प्रसिद्धानि छन्दांसि, तानि सौपर्णेयाः सुपर्णीपुत्राः केचन दिव्यजनाः, त एव छन्दांसि गायत्र्यादीनि । यद्वा - लिङ्गव्यत्ययः । छन्दांसि सुपर्णापत्यानीत्यर्थः । स्त्रीभ्यो ढकि 'कितः' इत्यन्तोदात्तत्वम् ।।
2 अथ सा कद्र्वा तथोक्ता सा सुपर्णी पुत्रानब्रवीत् अस्मै ईदृशाय प्रयोजनाय आर्तिपरित्राणाय पितरौ माता च पिता च पुत्रान् दुःखात्त्रायकस्वभावान् सुतान् बिभृतः उत्पाद्य पोषयतः । 'पिता मात्रा' इत्येकशेषः, पूर्ववदिदमो विभक्तेरुदात्तत्वम् । किं तवागमनमिति चेत्? श्रूयतां पुत्रकाः - तृतीयस्यामिता दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्वेति मां कद्रूरवोचत् निजरूपवत्तया गर्विता दासीमिव मां मन्यमाना इत्थमवमन्यते । ततोस्मिन् व्यसनसंकटे नियग्नामितो मां त्रायध्वमिति ।।
3 अथ तछ्रुत्वा छन्दसां ज्येष्ठभूता जगती उदपतत् ऊर्ध्वं गता । सा चतुर्दशाक्षराऽपि सता सोममप्राप्य अलब्ध्वा न्यवर्तत तत्सकाशात्प्रतिनिवृत्ता । 'शतुरनुमः' इति नद्या उदात्तत्वम् । तस्यै तस्याः सोमेन रहितायाः द्वे अक्षरे अमीयेतामहीयेताम् । अशेस्सरप्रत्यये अक्षरम् । ततस्सा जगती तत्र तृतीयस्यां दिवि स्थितान् पशून् दीक्षां च दृष्ट्वा उपादाय तेनोभयेन सहिताऽऽगच्छत् । अन्य आहुः - चतुर्दशाक्षराऽपि सती सा अप्राप्य सोमसकाशमपि गन्तुमसमर्था न्यवर्तत । ततस्तस्याश्श्रान्तायाः द्वे अक्षरे अमीयेतां विशीर्णे अभवताम् । सा तादृशी तत्र स्थि- तान् पशून् दीक्षां च गृहीत्वा आगच्छदिति । तस्माच्छन्दसां मध्ये जगती पशव्यतमा अतिशयेन पशुभ्यो हिता । हितार्थे 'उगवादिभ्यो यत्' । यस्मादेवं पशुभिस्सह दीक्षा आगता, तस्मात्पशुमन्तं दीक्षोपनमति उपतिष्ठते दक्षिणा क्षीरादिसंपत्तेश्च । 'ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् ।।
4 त्रिष्टुगुदपतदित्यादि ।। गतम् । सा दक्षिणाभिश्च तपसा च दानलक्षणेन आगच्छत् । तस्मात्त्रिष्टुभो लोके स्थाने माध्यान्दिनसवने दक्षिणा नीयन्ते । उत्सादिर्मध्यन्दिनशब्दः । अधुना माध्यन्दिने सवने, दानमेव तप इत्याह - यत् स्वं ददाति एतदेव खलु तप इत्याहुः । ददातीति 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।।
5 ततो गायत्र्युदपतत् चतुरक्षरैव सता अजया सहायभूतया अजामपि सहायभूतां गृहीत्वा ऊर्ध्वं गता, ततस्सा अजा ज्योतिषा आत्मीयया दीप्त्या तं सोमं गायत्र्यर्थमभ्यरुन्ध अभिरुद्धवती अभिगतवती । तदित्यादि । अज गतिक्षेपाणयोः, 'ङ्यापोस्मंज्ञाछन्दसोर्बहुलम्' 'त्वे च' इति ह्रस्वत्वम् । ततस्सा गायत्री सोमं चाजया वशीकृतमाहरत्, चत्वारि चाक्षराणि यानि त्रिष्टुब्जगत्योः तत्राहीयन्त तान्येव स्वयमाहरत् । ततः प्रभृति साऽष्टाक्षरा समपद्यत, पादाभिप्रायमिदम् । यथोक्तं 'गायत्र्यष्टकैः' इति । त्रयश्चास्याः पादाः, यथा वक्ष्यति - 'पद्भ्यां द्वे सवने समगृह्नान्मुखेनैकम्' इति । तेन चतुर्विंशत्यक्षरा गायत्री । त्रिष्टुब्जगत्यौ च ततः प्रभृत्येकादशद्वादशाक्षरपादे, द्वयोर्द्वयोर्हीनत्वात् । तेन चतुश्चत्वारिंशदक्षरा त्रिष्टुम्, अष्टाचत्वारिंशदक्षरा जगती ।।
6 ब्रह्यवादिन इति ।। सदर्हतीति सत्यं कारणमुच्यते । दण्डादिभ्यो यः । कस्मात्कारणाद्रायत्री छन्दसां प्रकृतानां त्रयाणां कनिष्ठा अल्पतमा सती यज्ञमुखं प्रातस्सवनं परीयाय परिगच्छतीति । 'छन्दसि लुङ्लङ्लिटः' इति लिट् । 'युवाल्पयोः कनन्यतरस्याम्' इति कन् ।।
7 इत्थं ब्रह्मवादिभिः पृष्टे उत्तरमाह कश्चिद्व्रह्मवादी - यदेवेति ।। यदेवेदं कारणं सोममियमाहरत्, अदः एतस्मात् यज्ञमुखं परिगता । यद्वा - अदश्शब्दात्परस्याः पञ्चम्याः 'सुपां सुलुक्' इति लुक् । अमुष्माल्लोकादित्यर्थः । एतेर्लिङि इतश्च लोपे अडागमे 'आटश्च' इति वृद्धौ एदिति भवति । तस्मादेव कारणात् तेजस्विनीतमा अतिशयेन तेजस्विनी गायत्री बभूव । सा सोममाहरन्ती पद्भ्यां द्वे सवने प्रातस्सवनमाध्यन्दिने समगृह्णात् संगृहीतवती । मुखेन मुखस्थानीयेन पादेन एकं सवनं तृतीयं समगृह्णात् । छन्दसां पक्षिरूपत्वादेवमुक्तम् । द्वौ पादावस्य, तृतीयः पादो मुखमिति । यत् मुखेन सवनं समगृह्णात् तत् अधयत् अपिबत् । तस्मादित्यादि । शुक्रवती रसवती पद्भ्यां गृहीतत्वात् । 'नपुंसकाच्च' इति शीभावः । तस्मादित्यादि । यस्मात् घीतं पीतमिव तृतीयसवनं मन्यन्ते तस्मात्तृतीयसवने ऋजीषं किम्भूतं सोममभिषुण्वन्ति, तस्य पीतसारत्वात् एता- दृशस्यापीतत्वात् ।।
8 आशिरमित्यादिविधिः ।। ऋजीषे आशिरं सोममवनयति सरसत्वार्थम् । अथो अपि च एतत्तृतीयसवनं संभरत्येव संपुष्टमेव करोतीति । एनादेशोऽनुदात्तः ।।
9 तमित्यादि ।। तमानीयमानं सोमं विश्वावसुर्नाम गन्धर्वः पर्यमुष्णात् प्रतिरोधक इव भूत्वा आनयनविघ्नमाचरत् । स च परिमुषितः तिस्रो रात्रीः तत्रैव न्यवसत् । तस्मादित्यादि । अत्र त्रित्वसंख्याप्रयुक्तो निवासः दीक्षासमाप्तेः यावत्सुत्यादिवसं वसतीत्यर्थः । अत्रान्तराळदिवसानां त्रित्वात्तिस्र इत्युक्तम् । तेन त्रित्वाभावेऽपि वासो भवत्येव ।।
10 एकहायन्या क्रीणातीति विधास्यन् तदर्थमाह - ते देवा इत्यादि ।। ते देवाः गन्धर्वेण परिमुषितसोमाः तन्निष्क्रयोपायं विमृशन्तः इत्थमब्रुवन् - गन्धर्वा नाम स्त्रीकामा भवन्ति, तस्मात् स्त्रिया निष्क्रयणभूतया कया चित् सोमं निष्क्रीणामेति । पञ्चमषष्ठयोरन्यतरस्मिन् लकारे आडागमः । स्त्रीं कामयन्त इति स्त्रीकामाः, 'शालिकामिभिक्षाचरिभ्यो णः', 'पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' इति णः । ते वाचमित्यादि । ते तथाकृताध्यवसाया देवाः वाचं वाङ्मयाभिमानिनीं एकहायनीमेकवर्षां स्त्रियं कृत्वा तया सोमं निरक्रीणन् निष्क्रीतवन्तः । 'दामहायनान्ताच्च' इति ङीप् ।।
11 इदानीं वाचा सोमं निष्क्रीयतामपि देवा वाचं गन्धर्वेभ्यः आहूतवन्त इति दर्शयितुमाह - सेत्यादि ।। सा वागपाक्रमीत् अपक्रान्ता । 'नेटि' इति वृद्ध्यिप्रतिषेधः । अस्मांश्च नोपावर्तते अस्मत्समीपं च न गच्छति मध्ये तिष्ठति, तस्मात् यूयं च वयं च इमां विह्वयामहे विविधमाह्वयामः । 'त्यदादीनां यत्परं तच्छिष्यते' इत्यस्मदः शेषः, 'निसमुपविभ्यो ह्रः' इत्यात्मनेपदम् । ततो ब्रह्म मन्त्रमाह्वानसाधनं गन्धर्वा अवदन्, देवा अगायन् । सेत्यादि । सा रोहित् गायतो देवानुपावर्तत उपागच्छत् । तस्मात्ततःप्रभृति गायन्तं स्त्रियः कामयन्ते । अथ य एवमुक्तप्रकारमर्थं वेद एनं कामुकाः स्त्रियो भवन्ति । 'लषपत' इत्यादिना कमेस्ताच्छीलिक उकञ्, 'नलोकाव्यय' इति षष्ठीप्रतिषेधः । अथो इति । अपिचेत्यर्थः । कन्याया वरितारो जन्याः, तेष्वपि मध्ये एवं विद्वानपि कश्चिद्भवति, तेभ्य एव कन्यां ददति सत्स्वेवान्येषु वरेषु गुणान्तरवत्सु । एतदुक्तं भवति - ऊर्वास्मात्युता? तन्मध्ये एवं विद्वान् कोपि भवति, तेऽपि कन्यामर्हन्ति न केवलमेवंविद्वान्, तस्मात्तेभ्य एव ददति कन्याम् । उत यत् यद्यपीत्यर्थः । यद्यपि बहुतया बहुविधगुणान्तरशालिनन्येषु (ता) बहवो विद्यन्ते, अथापि तेभ्य एव ददति एषामेवं विद्वानेकोपि भवति । अन्य आहुः - एवं विद्वानेकोपि यदि जन्येषु भवति तेभ्य एव ददति, किंपुनः यद्बहुतया भवन्ति तेभ्यो ददतीति । अपरे ब्रुवते - जनेभ्यो हितानि जन्यानि जनपदानि । 'उगवादिभ्यो यत्' । 'यतो नावः' इत्याद्युदात्तत्वम् । समानमन्यत् । 'बहुगुणवतुडतिसंख्या' इति संख्यात्वात् 'संख्याया अवयवे तयप्' इति तयप् ॥
12 एकहायन्येत्यादिविधिः ।। वाचैवेति । सर्वा हि वागेकहायन्यभवत् । तस्मादिति । एकहायनमुपादाय वाचः प्रादुर्भूताः ।।
13 अकूटयेत्यादिविधिः ।। कुटिलशृङ्गी कूटा । एकशृङ्गीत्यन्ये । भग्नशृङ्गीत्यपरे । अकर्णा खण्डितकर्णा । अकाणा प्रसिद्धा । श्लोणा शून्या । अशिक्षिताङ्गीति केचित् । कुष्ठव्याधिदूषितेत्यन्ये । सप्तशफा द्युन[ऊन]खुरा या अष्टशफा न भवति सा सप्तशफेति कथ्यते । एताः कूटादयः पर्युदस्यन्ते - सर्वयैवेति । सर्वया अन्यूनया वाचा एनं सोमं क्रीणाति ।।
14 यदित्यादि ।। यदि श्वेतवर्णया क्रीणीयात्, दुश्चर्मा यजमानः स्यात् । यत्कृष्णयेति । क्रीणीयादित्येव । अनुस्तरणी मृतविषया इयं स्यात् । मरणानन्तरमास्तीर्यते हिंस्यते इत्यनुस्तरणी । यथा 'मृतायानुस्तरणीं घ्रन्ति' इति । ततश्च प्रमायुको मरणशीलः यजमानस्स्यात् । छान्दस उकञ् । यदि द्विरूपया व्यामिश्रवर्णया क्रीणीयात् वार्त्रघ्नी शत्रुघ्नी स्यात्, वृत्रस्य हन्तुरियमिति, उत्सादित्वादञ् । अत एव हि हननशीलानामियं स्वभूता स्यात् । ततश्चानया साधनभूतया वाचा यजमानः अन्यं जिनीयात् मारयेत् । ज्या वयोहानौ, ग्रहिज्यादिना संप्रसारागम्, 'चवायोगे प्रथमा' इति प्रथमा तिड्विभक्तिर्न निहन्यते, या सुट्, उदात्तत्वम् । शत्रौ हन्तव्ये को हनिष्यते को हनिष्यतीति न ज्ञायते, ततश्चाविशेषाद्यजमानोपि हन्तव्यस्सांभाव्येत, तस्मात् पाक्षिकदोषपरिहारार्यं द्विरूपया न क्रीणीयात् । तस्मादरुणया सन्ध्यावर्णया पिङ्गाक्ष्या सोमं क्रीणातीति विधिः । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इति पच् समासान्तः, 'विद्गौरादिभ्यश्च' इति ङीषि 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । एतदित्यादि । अरुणं पिङ्गाक्षं चेति सोमस्यौषधीशस्य रूपम्, तस्मात्स्वयैव देवतया एनं वल्लीसोमं क्रीणाति ।।
इति षष्ठे प्रथमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.6.2 TS 6.1.6.2
ति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒-च्चतु॑र्दशाक्षरा स॒ती सा ऽप्रा᳚प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताꣳ॒॒ सा प॒शुभि॑श्च दी॒क्षया॒ चाऽग॑च्छ॒त् तस्मा॒ज्जग॑ती॒ छन्द॑सां पश॒व्य॑तमा॒ तस्मा᳚त् पशु॒मन्तं॑ दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त् त्रयो॑दशाक्षरा स॒ती सा ऽप्रा᳚प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताꣳ॒॒ सा दक्षि॑णाभिश्च॒ - [ ]
पदपाठः (Word-by-word)
इति॑ । मा॒ । क॒द्रूः । अ॒वो॒च॒त् । इति॑ । जग॑ती । उदिति॑ । अ॒प॒त॒त् । चतु॑र्दशाक्ष॒रेति॒ चतु॑र्दश - अ॒क्ष॒रा॒ । स॒ती । सा । अप्रा॒प्येत्यप्र॑ - आ॒प्य॒ । नीति॑ । अ॒व॒र्त॒त॒ । तस्यै᳚ । द्वे इति॑ । अ॒क्षरे॒ इति॑ । अ॒मी॒ये॒ता॒म् । सा । प॒शुभि॒रिति॑ प॒शु - भिः॒ । च॒ । दी॒क्षया᳚ । च॒ । एति॑ । अ॒ग॒च्छ॒त् । तस्मा᳚त् । जग॑ती । छन्द॑साम् । प॒श॒व्य॑त॒मेति॑ पश॒व्य॑ - त॒मा॒ । तस्मा᳚त् । प॒शु॒मन्त॒मिति॑ पशु - मन्त᳚म् । दी॒क्षा । उपेति॑ । न॒म॒ति॒ । त्रि॒ष्टुक् । उदिति॑ । अ॒प॒त॒त् । त्रयो॑दशाक्ष॒रेति॒ त्रयो॑दश - अ॒क्ष॒रा॒ । स॒ती । सा । अप्रा॒प्येत्यप्र॑ - आ॒प्य॒ । नीति॑ । अ॒व॒र्त॒त॒ । तस्यै᳚ । द्वे इति॑ । अ॒क्षरे॒ इति॑ । अ॒मी॒ये॒ता॒म् । सा । दक्षि॑णाभिः । च॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.6.3 TS 6.1.6.3
तप॑सा॒ चाऽग॑च्छ॒त् तस्मा᳚त् त्रि॒ष्टुभो॑ लो॒के माद्ध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत् खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाऽभ्य॑रुन्ध॒ तद॒जाया॑ अज॒त्वꣳ सा सोमं॒ चाऽऽह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ साऽष्टाक्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति॒ - [ ]
पदपाठः (Word-by-word)
तप॑सा । च॒ । एति॑ । अ॒ग॒च्छ॒त् । तस्मा᳚त् । त्रि॒ष्टुभः॑ । लो॒के । माद्ध्य॑न्दिने । सव॑ने । दक्षि॑णाः । नी॒य॒न्ते॒ । ए॒तत् । खलु॑ । वाव । तपः॑ । इति॑ । आ॒हुः॒ । यः । स्वम् । ददा॑ति । इति॑ । गा॒य॒त्री । उदिति॑ । अ॒प॒त॒त् । चतु॑रक्ष॒रेति॒ चतुः॑ - अ॒क्ष॒रा॒ । स॒ती । अ॒जया᳚ । ज्योति॑षा । तम् । अ॒स्यै॒ । अ॒जा । अ॒भीति॑ । अ॒रु॒न्ध॒ । तत् । अ॒जायाः᳚ । अ॒ज॒त्वमित्य॑ज-त्वम् । सा । सोम᳚म् । च॒ । एति॑ । अह॑रत् । च॒त्वारि॑ । च॒ । अ॒क्षरा॑णि । सा । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । समिति॑ । अ॒प॒द्य॒त॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.6.4 TS 6.1.6.4
कस्मा᳚थ् स॒त्याद्-गा॑य॒त्री कनि॑ष्ठा॒ छन्द॑साꣳ स॒ती य॑ज्ञ्मु॒खं परी॑या॒येति॒ यदे॒वादः सोम॒माऽह॑र॒त् तस्मा᳚द्-यज्ञ्मु॒खं पर्यै॒त् तस्मा᳚त् तेज॒स्विनी॑तमा प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न् मुखे॒नैकं॒ ॅयन्मुखे॑न स॒मगृ॑ह्णा॒त् तद॑धय॒त् तस्मा॒द् द्वे सव॑ने शु॒क्र॑वती प्रातस्सव॒नं च॒ माद्ध्य॑न्दिनं च॒ तस्मा᳚त् तृतीय सव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्त - [ ]
पदपाठः (Word-by-word)
कस्मा᳚त् । स॒त्यात् । गा॒य॒त्री । कनि॑ष्ठा । छन्द॑साम् । स॒ती । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । परीति॑ । इ॒या॒य॒ । इति॑ । यत् । ए॒व । अ॒दः । सोम᳚म् । एति॑ । अह॑रत् । तस्मा᳚त् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ् - मु॒खम् । परीति॑ । ऐ॒त् । तस्मा᳚त् । ते॒ज॒स्विनी॑त॒मेति॑ तेज॒स्विनी᳚-त॒मा॒ । प॒द्भ्यामिति॑ पत्-भ्याम् । द्वे इति॑ । सव॑ने॒ इति॑ । स॒मगृ॑ह्णा॒दिति॑ सं - अगृ॑ह्णात् । मुखे॑न । एक᳚म् । यत् । मुखे॑न । स॒मगृ॑ह्णा॒दिति॑ सं - अगृ॑ह्णात् । तत् । अ॒ध॒य॒त् । तस्मा᳚त् । द्वे इति॑ । सव॑ने॒ इति॑ । शु॒क्रव॑ती॒ इति॑ शु॒क्र - व॒ती॒ । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । च॒ । माद्ध्य॑न्दिनम् । च॒ । तस्मा᳚त् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । ऋ॒जी॒षम् । अ॒भीति॑ । सु॒न्व॒न्ति॒ । धी॒तम् । इ॒व॒ । हि । मन्य॑न्ते ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.6.5 TS 6.1.6.5
आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सं भ॑रत्ये॒वैन॒त् तꣳ सोम॑-माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सः॒ पर्य॑मुष्णा॒थ् स ति॒स्रो रात्रीः॒ परि॑मुषितोऽवस॒त् तस्मा᳚त् ति॒स्रो रात्रीः᳚ क्री॒तः सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्थ् स्त्रीका॑मा॒ वै ग॑न्ध॒र्वा स्स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाचꣳ॒॒ स्त्रिय॒मेक॑हायनीं कृ॒त्वा तया॒ निर॑क्रीण॒न्थ् सा रो॒हिद्-रू॒पं कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑- [ ]
पदपाठः (Word-by-word)
आ॒शिर᳚म् । अवेति॑ । न॒य॒ति॒ । स॒शु॒क्र॒त्वायेति॑ सशुक्र - त्वाय॑ । अथो॒ इति॑ । समिति॑ । भ॒र॒ति॒ । ए॒व । ए॒न॒त् । तम् । सोम᳚म् । आ॒ह्रि॒यमा॑ण॒मित्या᳚ - ह्रि॒यमा॑णम् । ग॒न्ध॒र्वः । वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ । परीति॑ । अ॒मु॒ष्णा॒त् । सः । ति॒स्रः । रात्रीः᳚ । परि॑मुषित॒ इति॒ परि॑ - मु॒षि॒तः॒ । अ॒व॒स॒त् । तस्मा᳚त् । ति॒स्रः । रात्रीः᳚ । क्री॒तः । सोमः॑ । व॒स॒ति॒ । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । स्त्रीका॑मा॒ इति॒ स्त्री - का॒माः॒ । वै । ग॒न्ध॒र्वाः । स्त्रि॒या । निरिति॑ । क्री॒णा॒म॒ । इति॑ । ते । वाच᳚म् । स्त्रिय᳚म् । एक॑हायनी॒मित्येक॑ - हा॒य॒नी॒म् । कृ॒त्वा । तया᳚ । निरिति॑ । अ॒क्री॒ण॒न्न् । सा । रो॒हित् । रू॒पम् । कृ॒त्वा । ग॒न्ध॒र्वेभ्यः॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.1.6.6 TS 6.1.6.6
ऽप॒क्रम्या॑तिष्ठ॒त् तद्-रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒-न्नास्मानु॒-पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन् दे॒वाः सा दे॒वान् गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्-गाय॑न्तꣳ॒॒ स्त्रियः॑ कामयन्ते॒ कामु॑का एनꣳ॒॒ स्त्रियो॑ भवन्ति॒ य ए॒वं ॅवेदाथो॒ य ए॒वं ॅवि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्-ब॒हुत॑या॒ - [ ]
पदपाठः (Word-by-word)
अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । तत् । रो॒हितः॑ । जन्म॑ । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । अपेति॑ । यु॒ष्मत् । अक्र॑मीत् । न । अ॒स्मान् । उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । वीति॑ । ह्व॒या॒म॒है॒ । इति॑ । ब्रह्म॑ । ग॒न्ध॒र्वाः । अव॑दन्न् । अगा॑यन्न् । दे॒वाः । सा । दे॒वान् । गाय॑तः । उ॒पाव॑र्त॒तेत्यु॑प-आव॑र्तत । तस्मा᳚त् । गाय॑न्तम् । स्त्रियः॑ । का॒म॒य॒न्ते॒ । कामु॑काः । ए॒न॒म् । स्त्रियः॑ । भ॒व॒न्ति॒ । यः । ए॒वम् । वेद॑ । अथो॒ इति॑ । यः । ए॒वम् । वि॒द्वान् । अपीति॑ । जन्ये॑षु । भव॑ति । तेभ्यः॑ । ए॒व । द॒द॒ति॒ । उ॒त । यत् । ब॒हुत॑या॒ इति॑ ब॒हु - त॒याः॒ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.1.6.7 TS 6.1.6.7
भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैनꣳ॒॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑ ॅवद॒न्त्यकू॑ट॒या ऽक॑र्ण॒याऽ का॑ण॒याश्लो॑ण॒या ऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैनं॑ क्रीणाति॒ यच्छ्वे॒तया᳚ क्रीणी॒याद्-दु॒श्चर्मा॒ यज॑मानः स्या॒द्यत् कृ॒ष्णया॑-ऽनु॒स्तर॑णी स्यात् प्र॒मायु॑को॒ यज॑मानः स्या॒द्यद् द्वि॑रू॒पया॒ वात्र॑घ्नी स्या॒थ् स वा॒ऽन्यं जि॑नी॒यात् तं ॅवा॒ऽन्यो जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या ( ) क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पꣳ स्वयै॒वैनं॑ दे॒वत॑या क्रीणाति ॥
पदपाठः (Word-by-word)
भव॑न्ति । एक॑हाय॒न्येत्येक॑ - हा॒य॒न्या॒ । क्री॒णा॒ति॒ । वा॒चा । ए॒व । ए॒न॒म् । सर्व॑या । क्री॒णा॒ति॒ । तस्मा᳚त् । एक॑हायना॒ इत्येक॑-हा॒य॒नाः॒ । म॒नु॒ष्याः᳚ । वाच᳚म् । व॒द॒न्ति॒ । अकू॑टया । अक॑र्णया । अका॑णया । अश्लो॑णया । अस॑प्तशफ॒येत्यस॑प्त - श॒फ॒या॒ । क्री॒णा॒ति॒ । सर्व॑या । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । यत् । श्वे॒तया᳚ । क्री॒णी॒यात् । दु॒श्चर्मेति॑ दुः - चर्मा᳚ । यज॑मानः । स्या॒त् । यत् । कृ॒ष्णया᳚ । अ॒नु॒स्तर॒णीत्य॑नु - स्तर॑णी । स्या॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । यज॑मानः । स्या॒त् । यत् । द्वि॒रू॒पयेति॑ द्वि - रू॒पया᳚ । वात्र॒घ्नीति॒ वात्र॑ - घ्नी॒ । स्या॒त् । सः । वा॒ । अ॒न्यम् । जि॒नी॒यात् । तम् । वा॒ । अ॒न्यः । जि॒नी॒या॒त् । अ॒रु॒णया᳚ । पि॒ङ्गा॒क्ष्येति॑ पिङ्ग - अ॒क्ष्या ( ) । क्री॒णा॒ति॒ । ए॒तत् । वै । सोम॑स्य । रू॒पम् । स्वया᳚ । ए॒व । ए॒न॒म् । दे॒वत॑या । क्री॒णा॒ति॒ ॥
पदसंख्या: 60