पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
इत्थं प्रायणीयेष्टिगुक्त्वा सोमक्रयाणीं वक्तुं सोमाहरणं सोपाख्यानमाह —
“कद्रूश्च वै सुपर्णी चाऽऽत्मरूपयोरस्पर्धेताँ सा कद्रूः सुपर्णीमजयत्साऽब्रवीत्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति” (सं. का. ६ प्र. १ अ. ६) इति।
कद्रूः सुपर्णी चोमे सपत्न्यौ पराजये दासीत्वमभ्युपेत्य ममैव सौन्दर्यं ममैवेत्यस्पर्धेताम्। तत्र मध्यस्थाः कद्र्वा जयमूचिरे। सा च कद्रूः सपत्नीं दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेवोपदिदेश। इतोऽस्माल्लोकादारभ्य गणनायां तृतीया द्यौः स्वर्गलोकस्तस्मिन्सोमो वर्तते। महर्जनस्तपः सत्यमित्येतेऽपि लोका द्युशब्दाभिधेयास्तस्मादितस्तृतीयस्यामिति विशेष्यते। सोम आहृत्य दत्ते सति त्वां मुञ्चामीति।
सोमाहरणं संभावयितुं श्रुतिराह —
“इयं वै कद्रूरसौ सुपर्णी छन्दासि सौपर्णेयाः” (सं. का. ६ प्र. १ अ. ६) इति।
भूलोकरूपत्वात्कद्रूः स्वयमाहर्तुं न शक्नोति। सुपर्णी तु द्युलोकरूपत्वादुत्पतनसमर्थानां गायत्र्यादिरूपाणामपत्यानां सद्भावाच्च शक्नोति।
“साऽब्रवीदस्मै वै पितरौ पुत्रान्विभृतस्तृतीयस्यामितो दिवि सोमस्तमाहर तेनाऽऽत्मानं निष्क्रीणीष्वेति मा कद्रूरवोचदिति” (सं. का. ६ प्र. १ अ. ६) इति।
पुंनामनरकोपलक्षितादशेषाद्दुःखात्त्रायन्त इति पुत्रास्तास्तान्पुत्रानस्यमा एतादृशोपद्रवपरित्राणाय मातापितरौ पुष्णीतः। हे गायत्र्यादिपुत्राः कद्रूवचनमवगत्य यदुचितं तत्कुरुध्वम्। गायत्र्यादीनामैच्छिकशरीरधारित्वात्पुत्रत्वमविरुद्धम्।
तत्र प्रौढत्वादादौ जगती प्रववृत इत्याह —
“जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगती छन्दसां पशव्यतमा तस्मात्पशुमन्तं दीक्षोपनमति” (सं. का. ६ प्र. १ अ. ६) इति।
पुरा जगतीपादस्य चतुर्दशाक्षराण्यासन्। तादृशी जगती द्युलोकं गत्वास्वानभ्राजादिसोमरक्षकैः सह युद्ध्वा सोममप्राप्याग्नीषोमीयसवनीयानूबन्ध्याख्यपशूनिष्टिसाध्यां दीक्षां च गृहीत्वा स्वकीये चाक्षरद्वये स्वानादिभिर्गृहीते सति पराजित्य समागता। यस्माज्जगती पशूनानयत्तस्मात्सैवात्यन्तं पशुप्रदा। यतः पशुभिः सह दीक्षाऽऽनीता ततः स्वाधीनसंपत्तौ सत्यां दीक्षायां प्रवर्तते।
तथैव त्रिष्टुभो युद्धं दर्शयति —
“त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेता सा दक्षिणाभिश्च तपसा चाऽऽगच्छत्” (सं. का. ६ प्र. १ अ. ६) इति।
गौश्चाश्वश्चेत्यादयो दक्षिणाः। अशनपरित्यागमुष्टिबन्धवाग्यमनवनीताभ्यङ्गकृष्णाजिनप्रावरणादिक्लेशसहिष्णुत्वं तपः। प्राणवत्प्रियस्य गवाश्वादेर्दानमधिकं तपः।
त्रिष्टुभा तदानयनमुपपादयति —
“तस्मात्त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति” (सं. का. ६ प्र. १ अ. ६) इति।
माध्यंदिनसवनस्य त्रिष्टुगभिमानिनी देवता। ततस्तदेतत्त्रिप्टुभो लोकः स्थानं, शरीरप्रयासादपि धनहानिकृतस्य मानसप्रयासस्याधिकत्वाद्दत्तेन धनेन परोपजीवनाच्च दानमेव महत्तप इत्यभिज्ञानां मतम्।
गायत्र्या युद्धे जयं दर्शयति —
“गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाऽभ्यरुन्ध तद जाया अजत्व सा सोमं चाऽहरच्चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत” ( सं. का. ६ प्र. १ अ. ६) इति।
सहायरहितयोः पूर्वयोः पराजयं दृष्ट्वा गायत्री स्वयमजया सहोदपतत्। सा त्वजा गायत्र्यर्थं स्वकीयेन तेजसा तं सोममभितो रुरोध। तस्माद्रोधनपर्यायक्षेपणार्थादजधातोरजेति नाम निष्पन्नम्।
प्रश्नोत्तराभ्यां गायत्रीं प्रशंसति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्री कनिष्ठा छन्दसा सती यज्ञमुखं परीयायेति यदेवादः सोममाहरत्तस्माद्यज्ञमुखं पर्यैत्तस्मात्तेजस्विनीतमा” (सं. का. ६ प्र. १ अ. ६) इति।
सत्यात्कारणात्। कनिष्ठा न्यूनाक्षरा। यज्ञमुखं प्रातःसवनम्। तत्र बहिष्पवमाननाम्नि प्रथमस्तोत्र उपास्मै गायता नर इत्याद्या ऋचो गायत्र्यः। सेयं यज्ञमुखप्राप्तिः। ब्रह्मवादिष्वेव बुद्धिमन्तो यदेवेत्याद्युत्तरमाहुः। यस्मादियमदोऽमुष्माल्लोकात्सोममाहरत्तस्मादस्या मुखप्राप्तिर्युक्ता। मुखत्वादेवास्यास्तेजोबाहुल्यम्।
आहरणप्रकारं दर्शयति —
“पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात्तदधयत्तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति धीतमिव हि मन्यन्ते” (सं. का. ६ प्र. १ अ. ६) इति।
पक्षिरूपा गायत्री सवनद्वयपर्याप्तौ सोमभागो पद्भ्यां संगृह्य तृतीयसवनपर्याप्तं सोमभागं चञ्चुपुटाभ्यां संदश्य तदीयं रसं पपौ। यस्मात्पद्भ्यां धृतौ सोमभागौ न पीतौ तस्मात्प्रातःसवनमाध्यंदिनसवने शुक्रशब्दाभिधेयेन सोमरसेनोपेते।
यस्मात्तृतीये भागः पीतस्तस्मात्पीतत्वं मन्यमानास्तत्सादृश्यार्थमृजीषमभिषुणुयुरिति प्रासङ्गिके किंचिद्विधाय तत्रापरं
विशेषं विधत्ते —
“आशिरमवनयति सशुक्रत्वायाथो संभरत्येवैनत्” [सं. का. ६ प्र. १ अ. ६] इति।
आशिरं क्षीरम्। सशुकत्वं सरसत्वम्। किंच क्षीरसेचनादृजीषगतसोमरसरूपहविः संभरति सम्यक्पोषयत्येव।
पुनरप्यन्यद्विधत्ते —
‘त सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स तिस्त्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति’ (सं. का. ६ प्र. १ अ. ६) इति।
उपसद्दिवसेषु त्रिष्वभिषवमकृत्वा सोमं निवासयेदित्यर्थः।
इत्थं सोमाहरणं निरूप्य सोमक्रयणीं निरूपयितुमारभते —
‘ते देवा अब्रुवनस्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाच स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्’ (सं. का. ६ प्र. १ अ. ६) इति।
एकसंवत्सरवयस्कया स्त्रीरूपया वाग्देवतया सोमस्य निष्क्रयः कृतः।
गन्धर्वेष्वपरक्तायास्तस्याः स्त्रिया रोहितगोरूपतां दर्शयति —
‘सा रोहिद्रूपं कृत्वा गन्धर्वेभ्योऽपक्रम्यातिष्ठत्तद्रोहितो जन्म’ (सं. का. ६ प्र. १ अ. ६) इति।
देवेष्वनुरक्तायाः पुनर्देवताप्राप्तिं दर्शयति –
‘ते देवा अब्रुवन्नप युष्मदक्रमीन्नास्मानुपावर्तते विह्वयामहा इति ब्रह्म गन्धर्वा अवदन्नगायन्देवाः सा देवान्गायत उपावर्तत तस्माद्गायन्त स्त्रियः कामयन्ते’ (सं. का. ६ प्र. १ अ. ६) इति।
विह्वयामहै विलक्षणं यथा भवति तथैवाऽऽकारयामः। ब्रह्म वेदः।
एतद्वृत्तान्तवेदनं प्रशंसति —
‘कामुका एन स्त्रियो भवन्ति य एवं वेदाथो य एवंविद्वानपि जन्येषु भवति तेभ्य एव ददत्युत यद्बहुतया भवन्ति’ (सं. का. ६ प्र. १ अ. ६) इति।
वरस्य स्निग्धा वरार्थं कन्यामन्वेष्टुं प्रवृत्ता बान्धवा जन्याः। तादृशानां जन्यानां द्वौ वर्गौ। तत्रैकस्मिन्वर्गे यथोक्तवेदनरहिता अनेकगुणान्तरोपेता बहवोवरा यद्यपि सन्ति तथाऽपि तं वर्गमुपेक्ष्य येषु जन्येष्वेकोऽप्येवं विद्वान्वरो भवति तेभ्य एव जन्येभ्यः कन्यां तत्पितरो ददति।
सोमक्रयण्यां गुणं विधत्ते —
“एकहायन्या क्रीणाति वाचैवैन सर्वया क्रीणाति तस्मादेकहायना मनुष्या वाचं वदन्ति” (सं. का. ६ प्र. १ अ. ६) इति।
वाग्देवतायाः सोमक्रयणीरूपस्वीकारात्सर्वया वाचा क्रय उपपद्यते। एकसंवत्सरस्वीकारश्च तस्मिन्वयसि सति वदनव्यवहारोपक्रमात्।
वर्ज्यदोषान्विशदयति —
‘अकूटयाऽकर्णयाऽकाणयाऽश्लोणयाऽसप्तशफया क्रीणाति” (सं. का. ६ प्र. १ अ. ६) इति।
कूटा कुटिलशृङ्गी। कर्णा छिन्नकर्णोपेता। काणा त्वेकाक्षी। श्लोणा कुष्ठादिदूषिता। सप्तशफा न्यूनाङ्गी। एता वर्ज्याः।
उपादेयां दर्शयति —
‘सर्वयैवैनं क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।
सर्वाऽवयवसंपूर्णेत्यर्थः।
विपक्षबाधपुरःसरं स्वपक्षं विधत्ते —
‘यच्छ्वेतया क्रीणीयाद्दुश्चर्मा यजमानः स्याद्यत्कृष्णयाऽनुस्तरणी स्यात्प्रमायुको यजमानः स्याद्यद्द्विरूपया वार्त्रघ्नी स्यात्स वाऽन्यं जिनीयात्तं वाऽन्यो जिनीयादरुणया पिङ्गाक्ष्या क्रीणात्येतद्वै सोमस्य रूप स्वयैवैनं देवतया क्रीणाति’ (सं. का. ६ प्र. १ अ. ६) इति।
मृतं पुरुषमनु हन्यमाना गौरनुस्तरणी। कृष्णायास्तादृक्त्वेन यजमानो म्नियेत। वर्णद्वयोपेता यद्यापि विरोधिघातिनी तथाऽपि यजमानतद्वैरिणोरन्योन्यविरोधित्वात्को हन्ति को वा हन्यत इति न ज्ञायते। अरुणत्वं पिङ्गाक्षत्वं च सोमदेवतायाः स्वरूपम्। अतस्तादृशी गौः सोमक्रयाय सदृशी भवति।
इत्थं चतुर्थानुवाकोक्तमन्त्रव्याख्यानस्योपोद्घातत्वेन ब्राह्मणेन प्रायणीयासोमक्रयण्यावनुवाकभ्यामभिहिते। अथ मन्त्रा व्याख्यातव्याः।