अनुवाकः 8 TS 6.1.8

(A8)

(म॒हि॒मानꣳ॒॒ - स्वाहा - ऽप॑हत्या - अध्व॒र्यु - धी॑यते॒ - चतु॑र्विꣳशतिश्च)

अनुवाकः 8 - Complete Audio

TS 6.1.8 - स्वरानुगामी

0:00 0:00
PS1.1 षट् प॒दान्यनु॒ नि क्रा॑मति
PS1.2 षड॒हं ॅवाङ्नाति॑ वदत्यु॒त सं॑ॅवथ्स॒रस्याय॑ने॒
PS1.3 याव॑त्ये॒व वाक्तामव॑ रुन्धे सप्त॒मे
PS1.4 प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री
PS1.5 प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्धे
PS1.6 स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ता*ऽऽर॒ण्याः
PS1.7 स॒प्त छन्दाꣳ॑-स्यु॒भय॒स्या-व॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्राऽसीत्या॑ह
PS1.8 रू॒पमे॒वास्या॑ ए॒तन् म॑हि॒मानं॒ -
PS1.9 [ ]
PS2.1 ॅव्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒
PS2.2 ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै॑
PS2.3 प॒शूनव॑ रुन्धे रु॒द्रो वसु॑भि॒रा
PS2.4 चि॑के॒त्वित्या॒हाऽऽ*वृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्द्धन्ना जि॑घर्मि
PS2.5 देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष
PS2.6 मू॒र्द्धा यद्-दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒
PS2.7 ह्ये॑तत् प॒दं ॅयथ् सो॑म॒क्रय॑ण्यै
PS2.8 घृ॒तव॑ति॒ स्वाहे - [
PS2.9 ]
PS3.1 -त्या॑ह॒ यदे॒वास्यै॑ प॒दाद्-घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह॒
PS3.2 यद॑द्ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्-रक्षाꣳ॑सि य॒ज्ञ्ꣳ
PS3.3 ह॑न्यु॒र्॒.हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्यु
PS3.4 र्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि
PS3.5 घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे
PS3.6 य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒
PS3.7 रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒
PS3.8 रक्ष॑सा॒मप॑हत्या - [ ]
PS4.1 इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑
PS4.2 कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं
PS4.3 च॑ व॒यं द्वि॒ष्म इत्या॑ह॒
PS4.4 द्वौ वाव पुरु॑षौ॒ यं
PS4.5 चै॒व द्वेष्टि॒ यश्चैनं॒ द्वेष्टि॒
PS4.6 तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒
PS4.7 वै सो॑म॒क्रय॑ण्यै प॒दं ॅया॑वत्त्मू॒तꣳ
PS4.8 सं ॅव॑पति प॒शूने॒वाव॑ रुन्धे॒ऽस्मे
PS4.9 राय॒ इति॒ सं ॅव॑पत्या॒त्मान॑-मे॒वाद्ध्व॒र्युः
PS4.10 - [ ]
PS5.1 प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒
PS5.2 इति॒ यज॑मानाय॒ प्र य॑च्छति॒
PS5.3 यज॑मान ए॒व र॒यिं द॑धाति॒
PS5.4 तोते॒ राय॒ इति॒ पत्नि॑या
PS5.5 अ॒र्द्धो वा ए॒ष आ॒त्मनो॒
PS5.6 यत् पत्नी॒ यथा॑ गृ॒हेषु॑
PS5.7 निध॒त्ते ता॒दृगे॒व तत् त्वष्टी॑मती
PS5.8 ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै
PS5.9 प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्-रू॒पमे॒व प॒शुषु॑
PS5.10 दधात्य॒स्मै वै लो॒काय॒ गार्.ह॑पत्य॒
PS5.11 आ धी॑यते॒ ( )
PS5.12 ऽमुष्मा॑ आहव॒नीयो॒ यद्-गार्.ह॑पत्य उप॒वपे॑द॒स्मिन्
PS5.13 ॅलो॒के प॑श॒मान्थ् स्या॒द्-यदा॑हव॒नीये॒ ऽमुष्मि॑न्
PS5.14 ॅलो॒के प॑शु॒मान्थ् स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनं॑
PS5.15 ॅलो॒कयोः᳚ पशु॒मन्तं॑ करोति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.8.1 TS 6.1.8.1
षट् प॒दान्यनु॒ नि क्रा॑मति षड॒हं ॅवाङ्नाति॑ वदत्यु॒त सं॑ॅवथ्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुन्धे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुन्धे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ता*ऽऽर॒ण्याः स॒प्त छन्दाꣳ॑-स्यु॒भय॒स्या-व॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्राऽसीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन् म॑हि॒मानं॒ - [ ]
पदपाठः (Word-by-word)
षट् । प॒दानि॑ । अनु॑ । नीति॑ । क्रा॒म॒ति॒ । ष॒ड॒हमिति॑ षट् - अ॒हम् । वाक् । न । अतीति॑ । व॒द॒ति॒ । उ॒त । सं॒ॅव॒थ्स॒रस्येति॑ सं-व॒थ्स॒रस्य॑ । अय॑ने । याव॑ती । ए॒व । वाक् । ताम् । अवेति॑ । रु॒न्धे॒ । स॒प्त॒मे । प॒दे । जु॒हो॒ति॒ । स॒प्तप॒देति॑ स॒प्त - प॒दा॒ । शक्व॑री । प॒शवः॑ । शक्व॑री । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । स॒प्त । ग्रा॒म्याः । प॒शवः॑ । स॒प्त । आ॒र॒ण्याः । स॒प्त । छन्दाꣳ॑सि । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वस्वी᳚ । अ॒सि॒ । रु॒द्रा । अ॒सि॒ । इति॑ । आ॒ह॒ । रू॒पम् । ए॒व । अ॒स्याः॒ । ए॒तत् । म॒हि॒मान᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याख्यातुमादावनुष्ठानं विधत्ते —

‘षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवत्सरस्यायने यावत्येव वाक्तामवरुन्धे’ (सं. का. ६ प्र. १ अ. ८) इति।

आस्ति कश्चित्पृष्ठ्यः षडहाख्यो यागः। तत्र षड्विधानि स्तोत्राणि बृहद्रथंतरवैरूपवैराजशक्वररैवतनामकैः सामभिः साध्यानि। तानि च क्रमेण षट्सु दिनेषु गीयन्ते। न तु सप्तमं पृष्ठ्यस्तोत्रं किंचिदप्यस्ति। ततः प्रधानभूतपृष्ठ्यस्तोत्ररूपा वाग्देवता षडहगतां संख्यामतीत्य न क्वापि वदति। अपि च संवत्सरकालसंबन्धिनि गवामयनेऽपि नाधिकं पृष्ठ्यस्तोत्रं वदति। तस्माद्वाग्रूपायाः सोमक्रयण्याः षट्पदानामनुक्रमणं युक्तम्। तस्माद्वाग्रूपत्वादेव सर्वं वाचमवरुन्धे।

विधत्ते —

“सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै” (सं. का. ६ प्र. १ अ. ८) इति।

गवादयो ग्राम्याः। कृष्णमृगादय आरण्याः। तथा च बौधायनः – “सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी चेत्यथ सप्ताऽऽरण्या द्विखुराश्चैकखुराश्च पक्षिणश्च सरीसृपाश्च श्वापदश्च शरभाश्च मर्कटाश्च” इति। गायत्री त्रिष्टुबित्यीदीनि सप्त छन्दांसि। पशुजातीयं छन्दोजातीयं चेत्युभयमपि सप्तसंख्ययाऽवरुध्यते।

प्रथममन्त्रगतशब्दस्वरूपेणैव सोमक्रयण्या महिमाऽऽख्यायत इत्याह —

“वस्व्यसि रुद्राऽसीत्याह रूपमेवास्या एतन्महिमानं व्याचष्टे” (सं. का. ६ प्र. १ अ. ८) इति।

द्वितीयमन्त्रे बृहस्पतिशब्दमा चिकेत्विति शब्दं व्याचष्टे —

“बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे रुद्रो वसुभिरा चिकेत्वित्याहाऽऽवृत्त्यै” (सं. का. ६ प्र. १ अ. ८) इति।

तृतीयमन्त्रार्थस्य प्रसिद्धिं दर्शयति-

“पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै ह्येतत्पदं यत्सोमक्रयण्यै घृतवति स्वाहेत्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ८) इति।

सोमक्रयणीपदे हिरण्यप्रक्षेपं विधत्ते —

“यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति” (सं. का. ६ प्र. १ अ. ८) इति।

रक्षसः प्रसक्तिं पूर्वोक्तां स्मारयन्मन्त्रं व्याचष्टे –

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. १ अ. ८) इति।

अनन्तरायं द्वयोर्मध्य एकतरस्याप्यन्तरायो यथा न भवति तथेत्यर्थः।

अनुष्ठानविधिपुरःसरं मन्त्रान्व्याचष्टे —

“पशवो वै सोमक्रयण्यै पदं यावत्त्मूत सं वपति पशूनेवाव रुन्धेऽस्मे राय इति सं वपत्यात्मानमेवाध्वर्युः पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान एव रयिं दधाति तोते राय इति पत्निया अर्थो वा एष आत्मनो यत्पत्नी यथा गृहेषु निधत्ते तादृगेव तत्” (सं. का. ६ प्र. १ अ. ८) इति।

“त्वष्टीमती ते सपेयेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. १ अ. ८) इति।

एतस्य सोमक्रयणीपदरजसस्तृतीयं भागं गार्हपत्ये प्रक्षिपेत्, भागान्तरमाहवनीय इति विधत्ते —

“अस्मै वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपवपेदस्मिँल्लोके पशुमान्त्स्याद्यदाहवनीयेऽमुष्मिँल्लोके पशुमान्त्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः पशुमन्तं करोति” (सं. का. ६ प्र. १ अ. ८) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 षट्पदान्यनु नि क्रामतीति विधिः ।। सोमक्रयणी गच्छन्तीमनुनिक्रामति अनुक्रमेण गच्छति 'वस्व्यसि' इत्यादिभिष्षड्भिर्मन्त्रैः । यस्मादेवं तस्मात् षडहं प्रष्ठ्यं वाङ्नातिवदति स्तुतशस्त्रव्यतिरेकेण न प्रवर्तते; अपि च संवत्सरस्यायने सांवत्सरिके यस्मात् एकहायनीवाग्रूपां षट्पदानि यजमानो न विसृजति तस्मात्षडहं वाङ्न विसृज्यते इति । तस्मात् षट्पदानुगमनेन यावत्येव वाक्तां सर्वामवरुन्धे ।।
2 सप्तमे पदे जुहोतीति विधिः ।। सप्तसंरव्यान्वयेन पशुसाधनभूतसप्तपदशक्वरीलाभात् पशूनवरुन्धे । सप्त पादा अस्या इति बहुव्रीहौ 'संख्यासुपूर्वस्य' इति लोपे 'टाबृचि' इति टापि 'पादः पत्' इति पद्भावः । सप्तसंख्याकानां ग्राम्याणामारण्यानां च पशूनां छन्दसां च गायत्र्यादिजगत्यन्तानां प्रधानानां लाभाय भवति । गवादयो ग्राम्याः । 'ग्रामाद्यखञौ' इति यः । कष्णादय आरण्याः । उभयस्येति । ग्राम्यारण्यानेकीकृत्य । छन्दोभिरुभयं भवति पशूनां छन्दसां चावरुद्ध्यै इति । उभाववयवावस्य 'उभादुदात्तो नित्यम्' इत्ययजाद्युदात्तः, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
3 इदानीं निष्क्रमणमन्त्रप्रभृति व्याचष्टे - वस्व्यसीत्यादि ।। वस्वादिमतो यज्ञस्य साधनभावलक्षणमस्य महिमानमेतन्मन्त्रस्वरूपमेव व्याचष्टे । न किंचिद्व्याख्येयम् ।।
4 'बृहस्पतिस्त्वा' इति सप्तपदाभिग्रहागमन्त्रं व्याचष्टे ।। बृहस्पतिशब्दो वनस्पत्यादिः, पारस्करादिश्च । ब्रह्मणैवास्मै यजमानाय पशूनवरुन्धे । अस्मा इत्यन्वादेशेऽशनुदात्तः । आवृत्त्या इति । आवृत्तिरविनाशः । पराचीयागान्मावर्ततामित्येतदर्थं रुद्रो वसुभिस्सह क्रियमाणं सप्तमं पदमाचिकेतु अनुजानातु यः पशूनां पतिरिति मन्त्रोणाशास्यते, तेन तदनुज्ञालाभादावर्तते अविनाशा वर्तते । अन्यथा रुद्रोभिमन्येत तत् पराच्येव गच्छेदिति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
5 अथ 'पृथिव्यास्त्वा' इति पदे जुहोति, तद्व्याचष्टेपृथिव्या ह्येष इति ।। यद्देवयजनं यत्र देवा इज्यन्ते एष हि पृथिव्या मूर्धा शिरस्थानीयं स्थानं प्रधानभूतमिति पृथिव्या मूर्धस्थानीयदेवतायजनरूपोण सप्तमं पदं स्तूयते । यद्वा - पृथिव्या ह्येष मुर्धा मूर्धस्थानीयं सप्तमं पदम् । कोस्य विशेष इत्याह - यद्देवयजनमिति । 'उदात्तयणः' इति पृथिव्या विभक्तेरुदात्तत्वम् । इडायै ह्येतदिति । इडा सोमक्रयागी । 'पशवो वा इडा' इति तस्मादेतदिडायाः पदं यत्सोमक्रयण्याः पदम् । षष्ठ्यर्थे चतुर्थी । यदेवास्या इति । सा यत्रयत्र न्यक्रामत् ततो घृतमपीड्यतेति । यस्मादस्याः पदाहतमपीड्यत तस्मादेवमाह 'इडायाः पदे घृतवति' इति ।।
6 'हिरण्यमुपास्य जुहेति' इति विधास्यन् आह - यदध्वर्युरित्यादि ।। अनग्नौ अग्निरहिते देशे । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । आहुतिशब्दे 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । अध्वर्योरान्ध्ये सति निर्वाधानि रक्षांसि यज्ञं हन्युः, तस्माद्धिरण्यमुपास्योपधाय जुहोतीति विधिः । एवं सति अग्निवत्येव पदे जुहोति । ततश्चोक्तदोषद्वयाप्रसंगः ।।
7 काण्डेकाण्ड इति ।। व्याख्यातम् । पदपरिलेखनेन रक्षःप्रभृतेः परितो नाशितत्वात् एतद्वचनं रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ।।
8 द्वौ वावेति ।। द्वावेतौ पुरुषौ यं च यजमानो द्वेष्टि, यश्चैनं यजमानं द्वेष्टि; एवं यजमानसंबन्धिनौ द्वेष्यद्वेष्टारौ यस्मिन्नित्यात्मसंबन्धितया अध्वर्युराहेति मन्त्राभिप्रायतया ब्राह्मणमाह । अत्रात्मनो द्वेष्टा प्रथमं मन्त्रे निर्दिष्टः, ब्राह्मणे तु द्वेष्यः । तत्र मृग्यो हेतुः । तयोरिति । तयोः द्वेष्यद्वेष्ट्रोः एतेन मन्त्रेणास्येति प्रत्येकविवक्षया एकवचनं प्रयुक्तमिति दर्शयति अस्य द्वेष्टुः द्वेष्यस्य चेति । अनन्तरायमिति । अव्यधानेन द्वयोरपि ग्रीवाः कृन्तति, अप्रत्यूहं वा । एतेन च 'अपि कृन्तामि' इत्यपिशब्दस्यार्थो दर्शित. । अनेन हि कर्तनविषयः कामचार उच्यते । तृतीयार्थे द्वितीया, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ वा व्यत्ययेन 'नञ्सुभ्याम्' इति न प्रवर्तते । ग्रीवाशब्दो धमनिवचनः; तासां बहुत्वात् बहुवचनम् । यथा 'ग्रीवाभ्यस्ते' इति । कृन्तति छिनत्ति । कृती छेदने, 'शे मुचादीनाम्' इति नुम् ।।
9 पशवो वा इति ।। यागद्वारेण पशुहेतुत्वात्, सप्तत्वस्य वा शाक्वरस्य शाक्वरपशुसाधनत्वात् । यावत्त्मूतं संवपतीति विधिः । यावत्प्रदेशः स्मृतः आज्येन सिक्तः तावत्संवपति गृहीत्वा मृत् धरण्यां क्षिपति, पशूनवरुन्धे । मव बन्धने, निष्ठायां 'ज्वरत्वर' इत्यादिना ऊठादेशः, जस्त्वाभावश्छान्दसः, अनुनासिकाभावश्च । अस्मे राय इति संवपतीति मन्त्रविधिस्स्तुत्यर्थः । आत्मानमेवेति । नान्तरेति न व्यवदधाति आत्मानमेव पशुमन्तं करोति । तस्मादस्मे रायः पशुलक्षणानि धनानि सन्त्वित्यात्मार्थमेवाऽध्वर्युः प्रार्थयते; न यजमानार्थं, तस्य 'त्वे रायः' इति प्रार्थयिष्यमाणत्वात् । त्वे राय इत्यादिविधिः । यजमान एव रयिं पशुलक्षणं दधाति स्थापयति । तोते राय इति पत्निया इति विधिः । प्रयच्छतीत्येव । त्वया ऊतं तोतमिति गृहमुच्यते । तत्र रायो धनानि सन्त्विति पत्न्यै प्रयच्छति । तत्सा गृहेषु निदधाति । अर्धो वा इति । आत्मन एवैकदेशः पत्री; नेदृशं विस्रंभपात्रमस्ति । तस्माद्यथा गृहेष्वात्मीयेषु निधत्ते भूमावप्रकाशं स्थापयति तादृगेव तत् पत्न्यै प्रत्तं धनम्, अविनाशि च भवति, काले चोपयुज्यते ।।
10 'त्वष्टीमती' इत्यादिना पत्नी यजमानमीक्षते, तद्व्याचष्टेत्वष्टा वा इति ।। त्वष्टुर्व्यापारः विविधप्रजारूपनिमार्णशक्तयः, तद्वत्यहं त्वया सपेय मिथुनीभवेयमिति यस्मादनेन मन्त्रेणाशास्ते त्वष्टा च पशूनां मिथुनानां रूपकृत् तस्मादनेन वचनेन पशुषु रूपं यथाऽनुरूपं दधाति पत्नी ।।
11 अस्मा इत्यादि ।। अस्मै लोकाय अस्मिन् लोके यदीप्सितं तत्सिद्धये हेतुः गार्हपत्य आधीयते उत्पाद्यते । 'गृहपतिना संयुक्ते ञः' इति ञः । अमुष्मै आमुष्मिकफलसिद्धये आहवनीयः आधीयते । आहूयतेऽस्मिन्नित्याहवनीयः, 'कृत्यल्युटो बहुलम्' इत्यधिकरणे अनीयर्, 'उपोत्तमं रिति' इत्युपोत्तमस्योदात्त- त्वम् । यदित्यादि । यदि गार्हपत्य एवेपवपेत्पदपांसून्, अस्मिन्नेव लोके पशुमांत्स्याद्यजमानः । 'ह्रस्वनुड्भ्यां मतुप्', इति मतुप उदात्तत्वम् । यद्याहवनीय एव, अमुष्मिन्नेव पशुमांत्स्यात् । तस्मादुभयोरुपवपतीति विधिः । उभयोर्लोकयोरेन यजमानं पशुमन्तं करोतीति ।।
इति षष्ठे प्रथमे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.8.2 TS 6.1.8.2
ॅव्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हाऽऽ*वृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्द्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्द्धा यद्-दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत् प॒दं ॅयथ् सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहे - [ ]
पदपाठः (Word-by-word)
व्याच॑ष्ट॒ इति॑ वि-आच॑ष्टे । बृह॒स्पतिः॑ । त्वा॒ । सु॒म्ने । र॒ण्व॒तु॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । रु॒द्रः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । एति॑ । चि॒के॒तु॒ । इति॑ । आ॒ह॒ । आवृ॑त्त्या॒ इत्या - वृ॒त्त्यै॒ । पृ॒थि॒व्याः । त्वा॒ । मू॒द्‌र्धन्न् । एति॑ । जि॒घ॒र्मि॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । इति॑ । आ॒ह॒ । पृ॒थि॒व्याः । हि । ए॒षः । मू॒द्‌र्धा । यत् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । इडा॑याः । प॒दे । इति॑ । आ॒ह॒ । इडा॑यै । हि । ए॒तत् । प॒दम् । यत् । सो॒म॒क्रय॑ण्या॒ इति॑ सोम - क्रय॑ण्यै । घृ॒तव॒तीति॑ घृ॒त-व॒ति॒ । स्वाहा᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.8.3 TS 6.1.8.3
-त्या॑ह॒ यदे॒वास्यै॑ प॒दाद्-घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑द्ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्-रक्षाꣳ॑सि य॒ज्ञ्ꣳ ह॑न्यु॒र्॒.हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्यु र्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । यत् । ए॒व । अ॒स्यै॒ । प॒दात् । घृ॒तम् । अपी᳚ड्यत । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । यत् । अ॒द्ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒हु॒यात् । अ॒न्धः । अ॒द्ध्व॒र्युः । स्या॒त् । रक्षाꣳ॑सि । य॒ज्ञ्म् । ह॒न्युः॒ । हिर॑ण्यम् । उ॒पास्येत्यु॑प - अस्य॑ । जु॒हो॒ति॒ । अ॒ग्नि॒वतीत्य॑ग्नि - वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒द्ध्व॒र्युः । भव॑ति । न । य॒ज्ञ्म् । रक्षाꣳ॑सि । घ्न॒न्ति॒ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.8.4 TS 6.1.8.4
इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चैनं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दं ॅया॑वत्त्मू॒तꣳ सं ॅव॑पति प॒शूने॒वाव॑ रुन्धे॒ऽस्मे राय॒ इति॒ सं ॅव॑पत्या॒त्मान॑-मे॒वाद्ध्व॒र्युः - [ ]
पदपाठः (Word-by-word)
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ । तयोः᳚ । ए॒व । अन॑न्तराय॒मित्यन॑न्तः - आ॒य॒म् । ग्री॒वाः । कृ॒न्त॒ति॒ । प॒शवः॑ । वै । सो॒म॒क्रय॑ण्या॒ इति॑ सोम - क्रय॑ण्यै । प॒दम् । या॒वत्त्मू॒तमिति॑ यावत् - त्मू॒तम् । समिति॑ । व॒प॒ति॒ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒स्मे इति॑ । रायः॑ । इति॑ । समिति॑ । व॒प॒ति॒ । आ॒त्मान᳚म् । ए॒व । अ॒द्ध्व॒र्युः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.8.5 TS 6.1.8.5
प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिं द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्द्धो वा ए॒ष आ॒त्मनो॒ यत् पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत् त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्-रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गार्.ह॑पत्य॒ आ धी॑यते॒ ( ) ऽमुष्मा॑ आहव॒नीयो॒ यद्-गार्.ह॑पत्य उप॒वपे॑द॒स्मिन् ॅलो॒के प॑श॒मान्थ् स्या॒द्-यदा॑हव॒नीये॒ ऽमुष्मि॑न् ॅलो॒के प॑शु॒मान्थ् स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनं॑ ॅलो॒कयोः᳚ पशु॒मन्तं॑ करोति ॥
पदपाठः (Word-by-word)
प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । न । अ॒न्तः । ए॒ति॒ । त्वे इति॑ । रायः॑ । इति॑ । यज॑मानाय । प्रेति॑ । य॒च्छ॒ति॒ । यज॑माने । ए॒व । र॒यिम् । द॒धा॒ति॒ । तोते᳚ । रायः॑ । इति॑ । पत्नि॑यै । अ॒द्‌र्धः । वै । ए॒षः । आ॒त्मनः॑ । यत् । पत्नी᳚ । यथा᳚ । गृ॒हेषु॑ । नि॒ध॒त्त इति॑ नि - ध॒त्ते । ता॒दृक् । ए॒व । तत् । त्वष्टी॑मती । ते॒ । स॒पे॒य॒ । इति॑ । आ॒ह॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् । रू॒प॒कृदिति॑ रूप - कृत् । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । अ॒स्मै । वै । लो॒काय॑ । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्यः॒ । एति॑ । धी॒य॒ते॒ ( ) । अ॒मुष्मै᳚ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । यत् । गार्.ह॑पत्य॒ इति॒ गार्.ह॑- प॒त्ये॒ । उ॒प॒वपे॒दित्यु॑प - वपे᳚त् । अ॒स्मिन्न् । लो॒के । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । यत् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । अ॒मुष्मिन्न्॑ । लो॒के । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । उ॒भयोः᳚ । उपेति॑ । व॒प॒ति॒ । उ॒भयोः᳚ । ए॒व । ए॒न॒म् । लो॒कयोः᳚ । प॒शु॒मन्त॒मिति॑ पशु - मन्त᳚म् । क॒रो॒ति॒ ॥
पदसंख्या: 74