पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
“ऋक्सामे वै देवेभ्यो यज्ञायाऽऽतिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठतां तेऽमन्यन्त यं वा इमे उपावर्त्स्यतः स इदं भविष्यतीति ते उपामन्त्रयन्त ते अहोरात्रयोर्महिमानमपनिधाय देवानुपावर्तेतामेष वा ऋषो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत्कृष्णम्” (सं. का. ६ प्र. १ अ. ३) इति।
ऋक्सामे देवते केनापि निमित्तेन देवयज्ञार्थमात्मानमप्रकाशयमाने आत्मतिरोघानाय कृष्णमृगो भूत्वा तदीयं संपूर्णं रूपं कृत्वा देवेभ्योऽपक्रम्य क्वचिद्गूढे अतिष्ठताम्। देवा विचारितवन्तो यं पुरुषमिमे ऋक्सामे प्राप्स्यतः स इदं यज्ञफलं प्राप्स्यतीति। देवास्तु ऋक्सामे रहसि केनाप्युपायेनोपच्छन्दितवन्तः। ते उभे अहोरात्रमहिमानं शुक्लकृष्णवर्णद्वयं स्वकीये मृगशरीरे स्थापयित्वा देवसमीपमागच्छताम्। कृष्णाजिनस्य यच्छुक्लं स एष ऋचा स्वीकृतोऽह्नो वर्णः। यत्कृष्णं स एष साम्ना स्वीकृतो रात्रेर्वर्णः।
“ऋक्सामयोः शिल्पे स्थ इत्याहर्क्सामे एवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
“एष वा अह्नो वर्णो यच्छुक्लं कृष्णाजिनस्यैष रात्रिया यत्कृष्णं यदेवैनयोस्तत्र न्यक्तं तदेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
एनयोरहोरात्रयोः संबन्धि यत्सारं तत्रर्क्सामयोर्न्यक्तं गूढं तदपि प्राप्नोति।
“कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनं ब्रह्मणैवैनं दीक्षयति” (सं. का. ६ प्र. १ अ. ३) इति ।
ब्रह्म वेदस्तद्रूपत्वं कृष्णाजिनस्य। ऋक्सामशिल्पधारित्वात्तदुपपन्नम्। दीक्षयति कृष्णाजिनेन यजमानं योजयति । योजनं द्विविधम्। आस्तीर्णस्य कृष्णाजिनस्याऽऽरोहणमन्यस्य कृष्णाजिनस्य प्रावरणं च।
मन्त्रस्य स्पष्टार्थतामाह —
“इमां धिय शिक्षमामस्य देवेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ३) इति।
वस्त्रप्रावरणं विधत्ते —
“गर्भो वा एष यद्दीक्षित उल्बं वासः प्रोर्णुते तस्माद्गर्भाः प्रावृता जायन्ते” (सं. का. ६ प्र. १ अ. ३) इति।
विपक्षे बाधकपुरःसरमाच्छादनस्यापनयनकालं विधत्ते —
“न पुरा सोमस्य क्रयादपोर्ण्वीत यत्पुरा सोमस्य क्रयादपोर्ण्वीत गर्भाः प्रजानां परापातुकाः स्युः क्रीते सोमेऽपोर्णुते जायत एव तदथो यथा वसीयासं प्रत्यपोर्णुते तादृगेव तत” (सं. का. ६ प्र. १ अ. ३) इति।
सोमे क्रीते तत्तदैव जायते ततो वस्त्रापनयनं युक्तम्। किंचात्यन्तधनवन्तं राजादिकं प्रति जनानां दिदृक्षायं पार्श्वस्थैर्याष्टिकादिभिः सभाया आवरणपटो यथाऽपनीयते तादृगेव तदिति द्रष्टव्यम्।
ऊर्गस्याङ्गिरसीत्यस्यार्थमाख्यायिकया दर्शयन्मेखलां विधत्ते –
“अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यदत्यशिष्यत ते शरा अभवन्नूर्ग्वै शरा यच्छरमयी मेखला भवत्यूर्जमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।
अङ्गिरोनामकानामृषीणां परस्परमन्नरसे विभज्यमाने यदवशिष्टं तच्छरनामकतृणविशेषरूपेणाऽविर्भूतं तस्मादूर्गसीत्यादिमन्त्र उपपन्नः।
मेखलाबन्धनप्रदेशं विधते —
“मध्यतः संनह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” (सं. का. ६ प्र. १ अ. ३) इति।
अस्य यजमानस्य शरीरमध्ये रसं स्थापयति। तस्मात्सर्वेऽपि मध्य ऊर्जा भुञ्जते रसं धारयन्तीत्यर्यः।
प्रकारान्तरेण मध्यदेशं स्तौति –
“ऊर्ध्वं वै पुरषस्य नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनह्यति मेध्यं चैवास्यामेध्यं च व्यावर्तयति” (सं. का. ६ प्र. १ अ. ३) इति।
शरमयत्वं प्रशंसति —
‘इन्द्रो वृत्राय वज्र प्राहरत्स त्रेधा व्यभवथ्स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणा शरत्वं वज्रो वै शराः क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो यच्छरमयी मेखला भवति, वज्रेणैव साक्षात्क्षुधं भ्रातृव्यं मध्यतोऽपहते’ (सं. का. ६ प्र. १ अ. ३) इति।
ये वज्रस्यान्तः शीर्णाः क्षुद्रावयवास्ते शराख्यास्तृणरूपाः शरा अभवन्।
गुणं विधत्ते —
‘त्रिवृद्भवति त्रिवृद्वै प्राणस्त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति’ (सं. का. ६ प्र. १ अ. ३) इति।
प्राणापानव्यानवृत्तिभिः प्राणस्य त्रिगुणत्वम्।
गुणान्तरं विधत्ते —
‘पृथ्वी भवति रज्जूनां व्यावृत्त्यै’ (सं. का. ६ प्र. १ अ. ३) इति।
रज्जूनां सूक्ष्माणां खट्वादिस्थितानाम्।
मेखलायोक्त्रयोर्व्यवस्थां विधत्ते –
“मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीं मिथुनत्वाय” (सं. का. ६ प्र. १ अ. ३) इति।
मेखला यजमानस्य स्त्री योक्त्ररूपः पत्न्याः पुमानिति प्रत्येकं मिथुनत्वम्।
‘यज्ञो दक्षिणामभ्यध्यायत्तां समभवत्तदिन्द्रोऽचायत्सोऽमन्यत यो वा इतो जनिष्यते स इदं भविष्यतीति तां प्राविशत्तस्या इन्द्र एवाजायत सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म तां हस्ते न्यवेष्टयत तां मृगेषु न्यदधात्सा कृष्णविषाणाऽभवदिन्द्रस्य योनिरसि मा मा हिसीरिति कृष्णविषाणां प्रयच्छति सयोनिमेव यज्ञं करोति सयोनिं दक्षिणां सयोनिमिन्द्रं सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।
यज्ञदेवस्य दक्षिणादेव्या सह योगमिन्द्रोऽवगम्य ततो जातः सर्वमिदमैश्वर्यं प्राप्स्यतीति निश्चित्य स्वयमेव दक्षिणां प्रविश्य ततोऽजायत। पुनरपि स्वस्मादपरस्तया जनिष्यमाणः सर्वं प्राप्स्यतीति मत्वा मातुर्योनिमाच्छिनत्। सा च माता सकृत्प्रसूता पश्चाद्वियोनित्वेन वन्ध्याऽभवत्। ततो लोके पश्चान्नष्टबीजा सूतवशा संपन्ना। ततस्तां योनिं हस्ते वेष्टयित्वा पश्चाद्बलिभिर्युक्तां तां योनिं कृष्णमृगेषु निदधौ। तत इयं कृष्णविषाणा यज्ञस्य भोग्या योनिर्दक्षिणाया अवयवभूता योनिरिन्द्रस्य कारणभूता योनिः।
मन्त्रसामर्थ्यं दर्शयति —
‘कृष्यै त्वा सुसस्याया इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते’ (सं. का. ६ प्र. १ अ. ३) इति।
नीवारादयोऽकृष्टपच्याः।
पिप्पलशब्दसूचितमाह —
‘सुपिप्पलाभ्यस्त्वौषधीभ्य इत्याह तस्मादोषधयः फलं गृह्णन्ति’ (सं. का. ६ प्र. १ अ. ३) इति।
विपक्षबाधपुरःसरं द्वयं विधत्ते —
‘यद्धस्तेन कण्डूयेत पामनंभावुकाः प्रजाः स्युर्यत्स्मयेत नग्नंभावुकाः कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयते प्रजानां गोपीथाय” (सं. का. ६ प्र. १ अ. ३) इति।
पामाख्यरोगयुक्ता दारिद्र्येण वस्त्ररहिताश्चेत्यर्थः।
विपक्षबाधपूर्वकं कृष्णविषाणायास्त्यागं विधत्ते –
‘न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृनतेद्यत्पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेद्योनिः प्रजानां परापातुका स्यन्नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनावेव योनिं दधाति यज्ञस्य सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।
दक्षिणाभ्यो नेतोर्दक्षिणानामृत्विग्भिरपनयनात्। अवचृतेत्परित्यजेत्। चात्वालाद्धिष्णियानुपवपतीति चात्वालनामकाद्गर्ताद्धिष्णियानामुत्पत्तेर्विधास्यमानत्वाच्चात्वालस्य यज्ञयोनित्वम्।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
स्मयते चेति विधिः । गोपीथाय रक्षणार्थम् । 'निशीथगोपीथावसथाः' इति निपात्यते । न पुरेति निषेधविधिः । दक्षिणानयनात्प्राक् कृष्णविषाणां नावचूतेत् न मुञ्चेत् । नयतेर्भावलक्षणे तोसुन् । दक्षिणाभ्य इति । षष्ठ्यर्थे चतुर्थी । चृततिर्हिंसार्थकस्तौदादिकः । यदवचृतेत् यन्मुश्चेत् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शस्यैवोदात्तत्वम् । प्रजानां योनिः परापातुका परापतनशीला स्यात् । पूर्ववदुकञ् ।।