अनुवाकः 3 TS 6.1.3

(A3)

(रु॒न्ध॒ ए॒ष - तस्मा᳚ - च्छर॒मयी॒ - यूप॒स्तृती॑यं - मिथुन॒त्वाय॒ - जन्म॒ - हस्ते॑ना॒ - ऽष्टाच॑त्वारिꣳशच्च)

अनुवाकः 3 - Complete Audio

TS 6.1.3 - स्वरानुगामी

0:00 0:00
PS1.1 ऋ॒ख् सा॒मे वै दे॒वेभ्यो॑
PS1.2 य॒ज्ञायाऽति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वा-
PS1.3 ऽप॒क्रम्या॑तिष्ठतां॒ ते॑ऽमन्यन्त॒ यं ॅवा
PS1.4 इ॒मे उ॑पाव॒र्थ्स्यतः॒ स इ॒दं
PS1.5 भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते
PS1.6 अ॑होरा॒त्रयो᳚-र्महि॒मान॑-मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो
PS1.7 वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒
PS1.8 यत् कृ॒ष्णमृ॑ख्सा॒मयोः॒ शिल्पे᳚ स्थ॒
PS1.9 इत्या॑हर्ख्सा॒मे ए॒वाव॑ रुन्ध ए॒ष
PS1.10 - [ ]
PS2.1 वा अह्नो॒ वर्णो॒ यच्छु॒क्लं
PS2.2 कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत् कृ॒ष्णं
PS2.3 ॅयदे॒वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्धे
PS2.4 कृष्णाजि॒नेन॑ दीक्षयति॒ ब्रह्म॑णो॒ वा
PS2.5 ए॒तद्-रू॒पं ॅयत् कृ॑ष्णाजि॒नं ब्रह्म॑णै॒वैनं॑
PS2.6 दीक्षयती॒मां धियꣳ॒॒ शिक्ष॑माणस्य दे॒वेत्या॑ह
PS2.7 यथाय॒जुरे॒वैतद्-गर्भो॒ वा ए॒ष यद्-दी᳚क्षि॒त
PS2.8 उल्बं॒ ॅवासः॒ प्रोर्णु॑ते॒ तस्मा॒द्
PS2.9 - [ ]
PS3.1 गर्भाः॒ प्रावृ॑ता जायन्ते॒ न
PS3.2 पु॒रा सोम॑स्य क्र॒यादपो᳚र्ण्वीत॒ यत्
PS3.3 पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः᳚
PS3.4 प्र॒जानां᳚ परा॒पातु॑काः स्युः क्री॒ते
PS3.5 सोमेऽपो᳚र्णुते॒ जाय॑त ए॒व तदथो॒
PS3.6 यथा॒ वसी॑याꣳ सं प्रत्यपोर्णु॒ते
PS3.7 ता॒दृगे॒व तदङ्गि॑रसः सुव॒र्गं ॅलो॒कं
PS3.8 ॅयन्त॒ ऊर्जं॒ ॅव्य॑भजन्त॒ ततो॒
PS3.9 यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै
PS3.10 श॒रा यच्छ॑र॒मयी॒ - [
PS3.11 ]
PS4.1 मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒तः
PS4.2 संन॑ह्यति मद्ध्य॒त ए॒वास्मा॒ ऊर्जं॑
PS4.3 दधाति॒ तस्मा᳚न्मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत
PS4.4 ऊ॒र्द्ध्वं ॅवै पुरु॑षस्य॒ नाभ्यै॒
PS4.5 मेद्ध्य॑-मवा॒चीन॑-ममे॒द्ध्यं ॅयन्म॑द्ध्य॒तः स॒नंह्य॑ति॒ मेद्ध्यं॑
PS4.6 चै॒वास्या॑मे॒द्ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒
PS4.7 वज्रं॒ प्राह॑र॒थ् स त्रे॒धा
PS4.8 व्य॑भव॒थ् स्फ्यस्तृती॑यꣳ॒॒ रथ॒स्तृती॑यं॒ ॅयूप॒स्तृती॑यं॒
PS4.9 - [ ]
PS5.1 ॅये᳚ऽन्तः श॒रा अशी᳚र्यन्त॒ ते
PS5.2 श॒रा अ॑भव॒न् तच्छ॒राणाꣳ॑ शर॒त्वं
PS5.3 ॅवज्रो॒ वै श॒राः क्षुत्
PS5.4 खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒
PS5.5 यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व
PS5.6 सा॒क्षात् क्षुधं॒ भ्रातृ॑व्यं मद्ध्य॒तोऽप॑
PS5.7 हते त्रि॒वृद्-भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व
PS5.8 प्रा॒णं म॑द्ध्य॒तो यज॑माने दधाति
PS5.9 पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ ॅव्यावृ॑त्यै॒
PS5.10 मेख॑लया॒ यज॑मानं दीक्षयति॒ योक्त्रे॑ण॒
PS5.11 पत्नीं᳚ मिथुन॒त्वाय॑ - [
PS5.12 ]
PS6.1 य॒ज्ञो दक्षि॑णाम॒भ्य॑द्ध्याय॒त् ताꣳ सम॑भव॒त्
PS6.2 तदिन्द्रो॑-ऽचाय॒थ् सो॑ऽमन्यत॒ यो वा
PS6.3 इ॒तो ज॑नि॒ष्यते॒ स इ॒दं
PS6.4 भ॑विष्य॒तीति॒ तां प्रावि॑श॒त् तस्या॒
PS6.5 इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो
PS6.6 वै मदि॒तो ऽप॑रो जनि॒ष्यते॒
PS6.7 स इ॒दं भ॑विष्य॒तीति॒ तस्या॑
PS6.8 अनु॒मृश्य॒ योनि॒मा-ऽच्छि॑न॒थ् सा सू॒तव॑शाऽभव॒त्
PS6.9 तथ् सू॒तव॑शायै॒ जन्म॒ -
PS6.10 [ ]
PS7.1 ताꣳ हस्ते॒ न्य॑वेष्टयत॒ तां
PS7.2 मृ॒गेषु॒ न्य॑दधा॒थ् सा कृ॑ष्णविषा॒णा-
PS7.3 ऽभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑
PS7.4 हिꣳसी॒रिति॑ कृष्णविषा॒णां प्र य॑च्छति॒
PS7.5 सयो॑निमे॒व य॒ज्ञ्ं क॑रोति॒ सयो॑निं॒
PS7.6 दक्षि॑णाꣳ॒॒ सयो॑नि॒मिन्द्रꣳ॑ सयोनि॒त्वाय॑ कृ॒ष्यै
PS7.7 त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या
PS7.8 ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ इत्या॑ह॒
PS7.9 तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्ति॒ यद्धस्ते॑न
PS7.10 - [ ]
PS8.1 कण्डू॒येत॑ पामनं॒ भावु॑काः प्र॒जाः
PS8.2 स्यु॒र्यथ् स्मये॑त नग्नं॒ भावु॑काः
PS8.3 कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां᳚
PS8.4 गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒
PS8.5 नेतोः᳚ कृष्णविषा॒णामव॑ चृते॒द्यत् पु॒रा
PS8.6 दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णाम॑व चृ॒तेद्योनिः॑
PS8.7 प्र॒जानां᳚ परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑णासु॒
PS8.8 चात्वा॑ले कृष्णविषा॒णां प्रास्य॑ति॒ योनि॒र्वै
PS8.9 य॒ज्ञ्स्य॒ चात्वा॑लं॒ ॅयोनिः॑ कृष्णविषा॒णा
PS8.10 योना॑वे॒व योनिं॑ दधाति य॒ज्ञ्स्य॑
PS8.11 सयोनि॒त्वाय॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.3.1 TS 6.1.3.1
ऋ॒ख् सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाऽति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वा- ऽप॒क्रम्या॑तिष्ठतां॒ ते॑ऽमन्यन्त॒ यं ॅवा इ॒मे उ॑पाव॒र्थ्स्यतः॒ स इ॒दं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयो᳚-र्महि॒मान॑-मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ यत् कृ॒ष्णमृ॑ख्सा॒मयोः॒ शिल्पे᳚ स्थ॒ इत्या॑हर्ख्सा॒मे ए॒वाव॑ रुन्ध ए॒ष - [ ]
पदपाठः (Word-by-word)
ऋ॒ख्सा॒मे इत्यृ॑क्-सा॒मे । वै । दे॒वेभ्यः॑ । य॒ज्ञाय॑ । अति॑ष्ठमाने॒ इति॑ । कृष्णः॑ । रू॒पम् । कृ॒त्वा । अ॒प॒क्रम्येत्य॑प -क्रम्य॑ । अ॒ति॒ष्ठ॒ता॒म् । ते । अ॒म॒न्य॒न्त॒ । यम् । वै । इ॒मे इति॑ । उ॒पा॒व॒र्थ्स्यत॒ इत्यु॑प-आ॒व॒र्थ्स्यतः॑ । सः । इ॒दम् । भ॒वि॒ष्य॒ति॒ । इति॑ । ते इति॑ । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ । ते इति॑ । अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । म॒हि॒मान᳚म् । अ॒प॒नि॒धायेत्य॑प - नि॒धाय॑ । दे॒वान् । उ॒पाव॑र्तेता॒मित्यु॑प-आव॑र्तेताम् । ए॒षः । वै । ऋ॒चः । वर्णः॑ । यत् । शु॒क्लम् । कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण - अ॒जि॒नस्य॑ । ए॒षः । साम्नः॑ । यत् । कृ॒ष्णम् । ऋ॒ख्सा॒मयो॒रित्यृ॑क् - सा॒मयोः᳚ । शिल्पे॒ इति॑ । स्थः॒ । इति॑ । आ॒ह॒ । ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे । ए॒व । अवेति॑ । रु॒न्धे॒ । ए॒षः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

“ऋक्सामे वै देवेभ्यो यज्ञायाऽऽतिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठतां तेऽमन्यन्त यं वा इमे उपावर्त्स्यतः स इदं भविष्यतीति ते उपामन्त्रयन्त ते अहोरात्रयोर्महिमानमपनिधाय देवानुपावर्तेतामेष वा ऋषो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत्कृष्णम्” (सं. का. ६ प्र. १ अ. ३) इति।

ऋक्सामे देवते केनापि निमित्तेन देवयज्ञार्थमात्मानमप्रकाशयमाने आत्मतिरोघानाय कृष्णमृगो भूत्वा तदीयं संपूर्णं रूपं कृत्वा देवेभ्योऽपक्रम्य क्वचिद्गूढे अतिष्ठताम्। देवा विचारितवन्तो यं पुरुषमिमे ऋक्सामे प्राप्स्यतः स इदं यज्ञफलं प्राप्स्यतीति। देवास्तु ऋक्सामे रहसि केनाप्युपायेनोपच्छन्दितवन्तः। ते उभे अहोरात्रमहिमानं शुक्लकृष्णवर्णद्वयं स्वकीये मृगशरीरे स्थापयित्वा देवसमीपमागच्छताम्। कृष्णाजिनस्य यच्छुक्लं स एष ऋचा स्वीकृतोऽह्नो वर्णः। यत्कृष्णं स एष साम्ना स्वीकृतो रात्रेर्वर्णः।

“ऋक्सामयोः शिल्पे स्थ इत्याहर्क्सामे एवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।

“एष वा अह्नो वर्णो यच्छुक्लं कृष्णाजिनस्यैष रात्रिया यत्कृष्णं यदेवैनयोस्तत्र न्यक्तं तदेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।

एनयोरहोरात्रयोः संबन्धि यत्सारं तत्रर्क्सामयोर्न्यक्तं गूढं तदपि प्राप्नोति।

“कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनं ब्रह्मणैवैनं दीक्षयति” (सं. का. ६ प्र. १ अ. ३) इति ।

ब्रह्म वेदस्तद्रूपत्वं कृष्णाजिनस्य। ऋक्सामशिल्पधारित्वात्तदुपपन्नम्। दीक्षयति कृष्णाजिनेन यजमानं योजयति । योजनं द्विविधम्। आस्तीर्णस्य कृष्णाजिनस्याऽऽरोहणमन्यस्य कृष्णाजिनस्य प्रावरणं च।

मन्त्रस्य स्पष्टार्थतामाह —

“इमां धिय शिक्षमामस्य देवेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ३) इति।

वस्त्रप्रावरणं विधत्ते —

“गर्भो वा एष यद्दीक्षित उल्बं वासः प्रोर्णुते तस्माद्गर्भाः प्रावृता जायन्ते” (सं. का. ६ प्र. १ अ. ३) इति।

विपक्षे बाधकपुरःसरमाच्छादनस्यापनयनकालं विधत्ते —

“न पुरा सोमस्य क्रयादपोर्ण्वीत यत्पुरा सोमस्य क्रयादपोर्ण्वीत गर्भाः प्रजानां परापातुकाः स्युः क्रीते सोमेऽपोर्णुते जायत एव तदथो यथा वसीयासं प्रत्यपोर्णुते तादृगेव तत” (सं. का. ६ प्र. १ अ. ३) इति।

सोमे क्रीते तत्तदैव जायते ततो वस्त्रापनयनं युक्तम्। किंचात्यन्तधनवन्तं राजादिकं प्रति जनानां दिदृक्षायं पार्श्वस्थैर्याष्टिकादिभिः सभाया आवरणपटो यथाऽपनीयते तादृगेव तदिति द्रष्टव्यम्।

ऊर्गस्याङ्गिरसीत्यस्यार्थमाख्यायिकया दर्शयन्मेखलां विधत्ते –

“अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यदत्यशिष्यत ते शरा अभवन्नूर्ग्वै शरा यच्छरमयी मेखला भवत्यूर्जमेवावरुन्धे” (सं. का. ६ प्र. १ अ. ३) इति।

अङ्गिरोनामकानामृषीणां परस्परमन्नरसे विभज्यमाने यदवशिष्टं तच्छरनामकतृणविशेषरूपेणाऽविर्भूतं तस्मादूर्गसीत्यादिमन्त्र उपपन्नः।

मेखलाबन्धनप्रदेशं विधते —

“मध्यतः संनह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” (सं. का. ६ प्र. १ अ. ३) इति।

अस्य यजमानस्य शरीरमध्ये रसं स्थापयति। तस्मात्सर्वेऽपि मध्य ऊर्जा भुञ्जते रसं धारयन्तीत्यर्यः।

प्रकारान्तरेण मध्यदेशं स्तौति –

“ऊर्ध्वं वै पुरषस्य नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनह्यति मेध्यं चैवास्यामेध्यं च व्यावर्तयति” (सं. का. ६ प्र. १ अ. ३) इति।

शरमयत्वं प्रशंसति —

‘इन्द्रो वृत्राय वज्र प्राहरत्स त्रेधा व्यभवथ्स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयं येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणा शरत्वं वज्रो वै शराः क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो यच्छरमयी मेखला भवति, वज्रेणैव साक्षात्क्षुधं भ्रातृव्यं मध्यतोऽपहते’ (सं. का. ६ प्र. १ अ. ३) इति।

ये वज्रस्यान्तः शीर्णाः क्षुद्रावयवास्ते शराख्यास्तृणरूपाः शरा अभवन्।

गुणं विधत्ते —

‘त्रिवृद्भवति त्रिवृद्वै प्राणस्त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति’ (सं. का. ६ प्र. १ अ. ३) इति।

प्राणापानव्यानवृत्तिभिः प्राणस्य त्रिगुणत्वम्।

गुणान्तरं विधत्ते —

‘पृथ्वी भवति रज्जूनां व्यावृत्त्यै’ (सं. का. ६ प्र. १ अ. ३) इति।

रज्जूनां सूक्ष्माणां खट्वादिस्थितानाम्।

मेखलायोक्त्रयोर्व्यवस्थां विधत्ते –

“मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीं मिथुनत्वाय” (सं. का. ६ प्र. १ अ. ३) इति।

मेखला यजमानस्य स्त्री योक्त्ररूपः पत्न्याः पुमानिति प्रत्येकं मिथुनत्वम्।

‘यज्ञो दक्षिणामभ्यध्यायत्तां समभवत्तदिन्द्रोऽचायत्सोऽमन्यत यो वा इतो जनिष्यते स इदं भविष्यतीति तां प्राविशत्तस्या इन्द्र एवाजायत सोऽमन्यत यो वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य योनिमाच्छिनत्सा सूतवशाऽभवत्तत्सूतवशायै जन्म तां हस्ते न्यवेष्टयत तां मृगेषु न्यदधात्सा कृष्णविषाणाऽभवदिन्द्रस्य योनिरसि मा मा हिसीरिति कृष्णविषाणां प्रयच्छति सयोनिमेव यज्ञं करोति सयोनिं दक्षिणां सयोनिमिन्द्रं सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।

यज्ञदेवस्य दक्षिणादेव्या सह योगमिन्द्रोऽवगम्य ततो जातः सर्वमिदमैश्वर्यं प्राप्स्यतीति निश्चित्य स्वयमेव दक्षिणां प्रविश्य ततोऽजायत। पुनरपि स्वस्मादपरस्तया जनिष्यमाणः सर्वं प्राप्स्यतीति मत्वा मातुर्योनिमाच्छिनत्। सा च माता सकृत्प्रसूता पश्चाद्वियोनित्वेन वन्ध्याऽभवत्। ततो लोके पश्चान्नष्टबीजा सूतवशा संपन्ना। ततस्तां योनिं हस्ते वेष्टयित्वा पश्चाद्बलिभिर्युक्तां तां योनिं कृष्णमृगेषु निदधौ। तत इयं कृष्णविषाणा यज्ञस्य भोग्या योनिर्दक्षिणाया अवयवभूता योनिरिन्द्रस्य कारणभूता योनिः।

मन्त्रसामर्थ्यं दर्शयति —

‘कृष्यै त्वा सुसस्याया इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते’ (सं. का. ६ प्र. १ अ. ३) इति।

नीवारादयोऽकृष्टपच्याः।

पिप्पलशब्दसूचितमाह —

‘सुपिप्पलाभ्यस्त्वौषधीभ्य इत्याह तस्मादोषधयः फलं गृह्णन्ति’ (सं. का. ६ प्र. १ अ. ३) इति।

विपक्षबाधपुरःसरं द्वयं विधत्ते —

‘यद्धस्तेन कण्डूयेत पामनंभावुकाः प्रजाः स्युर्यत्स्मयेत नग्नंभावुकाः कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयते प्रजानां गोपीथाय” (सं. का. ६ प्र. १ अ. ३) इति।

पामाख्यरोगयुक्ता दारिद्र्येण वस्त्ररहिताश्चेत्यर्थः।

विपक्षबाधपूर्वकं कृष्णविषाणायास्त्यागं विधत्ते –

‘न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृनतेद्यत्पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेद्योनिः प्रजानां परापातुका स्यन्नीतासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनावेव योनिं दधाति यज्ञस्य सयोनित्वाय’ (सं. का. ६ प्र. १ अ. ३) इति।

दक्षिणाभ्यो नेतोर्दक्षिणानामृत्विग्भिरपनयनात्। अवचृतेत्परित्यजेत्। चात्वालाद्धिष्णियानुपवपतीति चात्वालनामकाद्गर्ताद्धिष्णियानामुत्पत्तेर्विधास्यमानत्वाच्चात्वालस्य यज्ञयोनित्वम्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 कृष्णाजिनेन दीक्षां विधास्यन् तद्गुणानाह - ऋक्सामे इति ।। ऋक्च साम च ऋक्सामे, अचतुरादिसूत्रे अच्प्रत्ययान्तो निपात्यते । ते यज्ञार्थं देवेभ्यः अतिष्ठमाने अप्रकाशमाने अप्रकाशनहेतोः कृष्णमृगो भूत्वा तदीयं च रूपं कृत्वा देवसकाशादपक्रम्यातिष्ठतां कुत्रापि स्थिते । 'श्लाघह्नुञ्स्थाशपाम्' इति देवानां संप्रदानत्वम् । तिष्ठतेर्हेतौ शानच्, 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । ते देवा अमन्यन्त यमिमे ऋक्सामे उपावर्त्स्यतः उपगन्तुमाभिमुख्येन वत्स्यतः स इदं विश्वं यागद्वारेण भविष्यति विश्वाधिपत्ये स्थास्यतीत्यर्थः । यद्वा - इदमिति क्रियाविशेषणम् । इदमत्र भविष्यति वर्धिष्यते एषा सर्वा विभूतिस्तस्येति यावत् । यद्वा - इदं विश्वं प्राप्स्यति, भू प्राप्तौ, आत्मनेपदी, चुरादिराधृषीयः, व्यत्ययेन परस्मैपदम् । 'वृद्भ्यस्स्यसनोः' इति वृतेः परस्मैपदम्, 'न वृद्भ्यश्चतुर्भ्यः' इतीट्प्रतिषेधः । एवमीदृशोरनयोर्महिमा । इमे च अस्मानुपहायापक्रान्ते, तत्किमिति तूष्णीमास्महे इतीत्थं संजातमतयो देवास्ते उपामन्त्रयन्त ते ऋक्सामे रहस्युपच्छन्दितवन्तः अस्मानुपावर्तेथामिति । अथ ते ऋक्सामे अहोरात्रयोर्महिमानं महनीयं गुणं शुक्लकृष्णरूपं अपनिधायापादाय आत्मनि निधाय कृष्णमृगात्मनि रूपे स्थापयित्वा । यद्वा - उपार्थे अपशब्दः, उपनिधाय तेन रूपेण देवानुपावर्तेतामुपागच्छताम् । महिमानमिति महच्छब्दादिमानिच्, महतेर्वा औणादिक इमनिच् ।।
2 कः पुनस्स महिमा? योहोरात्राभ्यां ऋक्सामयोस्सक्रान्तः सोद्यत्वे कृष्णमृगस्याजिने दृश्यते । तत्रापि को वा ऋचो महिमा, को वा साम्न इत्याह - एष वा इति ।। एष वा ऋचो वर्णः अह्नः ऋचि संक्रान्तः । कः? यच्छुक्लं रूपं कृष्णाजिनस्य सम्बन्धि । एष साम्नो वर्णः रात्रेस्साम्नि संक्रान्तः, यत्कृष्णं रूपं कृष्णाजिनस्य ।।
3 अधुना अमुमेवार्थं मन्त्रार्थेऽपि प्रदर्शयति - ऋक्सामयोरिति ।। शिल्पं कौशलं, ऋक्सामयोः कौशलोपार्जिते स्थ इति कृष्णाजिनस्य शुक्लकृष्णे राजी उच्येते । तस्मादेतदभिधानं ऋक्सामयोराप्त्यै भवति ।।
4 कतरः पुनस्तर्ह्यनयोरह्नो वर्णः, कतरो रात्रेरित्याह - एष वा इति ।। यद्वा - पूर्वमृक्सामगुणत्वेन कृष्णाजिनस्य शुक्लकृष्णे स्तुते । अधुना अहोरात्रगुणत्वेन स्तोतुमाह - एष वा इति ।। मन्त्रे ऋक्सामयोश्शिल्पे इति अहोरात्रयोश्शुक्लकृष्णे ऋक्सामसंक्रान्तरूपतयोच्येते; तथैवाह - यदेवैनयोरहोरात्रयोस्सम्बन्धि तत्र ऋक्सामयोः न्यक्तं तदेवावरुन्धे अव्यवधानेनैवाहरात्रगुणौ प्राप्नोति, न पुनः ऋक्सामद्वारेण । यं महिमानमृक्सामे प्राप्नुतां, तं स्वयमहोरात्रसकाशादेव प्राप्नोतीत्यर्थः । पूर्ववद्गतेरुदात्तत्वम्, ततः परस्य च स्वरितत्वम् ।।
5 एवं स्तुत्वा इदानीं विधत्ते - कृष्णाजिनेन दीक्षयतीति ।। दीक्षितं संयोजयतीत्यर्थः ।।
6 इदानीं स्तुत्यन्तरमाह - ब्रह्मण इति ।। ब्रह्मणः ऋक्सामयोरित्यस्य मन्त्रस्य एतद्रूपं यत्कृष्णाजिनं नाम । केचिदाहुः - ब्रह्मणः परस्य वस्तुन एतद्रूपम् । व्यामिश्राकारत्वसाधर्म्यादेवमुक्तम्; यथा 'पुरुषं कृष्णपिङ्गलम्' इति । इमामित्यादि । एतं मन्त्रं यस्मादाह तस्माद्यथायजुरेव फलमवरुन्धे 'सं शिशाधि, दुरिता तरेम, अधि नावं रुहेम' इति यदनेन यजुषा आशास्यते तत्सर्वं प्राप्नोत्येवेत्यर्थः । पूर्ववद्यजुष्ट्वं वेदितव्यम् ।। 'गर्भ इत्यादि ।। गर्भः खल्वेष संजातः यो दीक्षितो भवति । तस्योल्बस्थानीयं वासः । उल्बं नाम गर्भावरणम् । प्रोर्णुत इति विधिः । वाससा छादयति दीक्षित आत्मानम् । तस्मादित्यादि । स्पष्टम् । प्रावृता इति । पूर्वपदप्रकृतिस्वरत्वम् । नापोर्ण्वीत नोद्धाटयेत् । परापातुकाः परापतनशीलाः स्युः । 'लषपत' इत्यादिना उकञ्, कृदुत्तरपदप्रकृतिस्वरत्वे 'ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । क्रीते सोमेऽपोर्णुते प्रावृतमुष्णीषमिति विधिः । अपास्यतीत्यर्थः । जायत एव तज्जननं खल्वस्य तत् तदाऽसौ जायत इति वा । तिडः परत्वान्न निहन्यते, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे 'ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । अथो अपिच यथा वसीयांसं पूज्यगुर्वादिकं प्रति प्रावृतं वासोपोर्णुते तादृगेव तत् तत्तुल्यमेव तत् । अतिशयेन वसुमान् वसीयान् । ईयसुनि 'विन्मतोर्लुक्' 'टेः' इति टिलोपः । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वाद्द्वितीया, 'गतिर्गतौ' इति मतेरनुदात्तत्वम् । 'तिङि चोदात्तवति' इत्यपशब्दस्य प्रादिसमासः । ननु 'प्रादिप्रसंगे कर्मप्रवचनीयानां प्रतिषेधः' इति । उच्यते - च्छान्दसत्वाददोषः । यद्वा - प्रत्यपोर्णुते उपचरति यथा वसीयांसमिति गतिसमासः । द्वितीया च कर्मण्येव । तदिव पश्यति 'त्यदादिषु दृशः' इति क्विन् 'क्विन्प्रत्ययस्य कुः' 'आ सर्वनाम्नः' इत्यात्वम्, कृदुत्तरपतदप्रकृतिस्वरत्वम् ।।
8 अथ मेखलां विधास्यन् आह - अङ्गिरस इति ।। ऊर्जं ऊर्जितमन्नं वलं वा व्यभजन्त व्यत्ययेनाभजन्त । ततः ऊर्जं यदत्यशिष्यत यत्किंचिदविभक्तमत्यरिच्यत ते शरा अभवन् । शरास्तृणविशेषाः । विकृत्यवस्थापेक्षं बहुवचनम् पुल्लिङ्गता च । ऊर्ग्वै शराः ऊर्क्प्रकृतिकत्वात् । यच्छरमयीत्यादि । 'नित्यं वृद्धशरादिभ्यः' इति मयट् । तस्मात् शरमय्या मेखलया दीक्षयतीति विधिरनुमीयते ।।
9 मध्यतस्सं नह्यति मेखलामिति विधिः ।। मध्यत एव शरीर मध्य एव । अस्मा उर्जमन्नं बलं वा दधाति स्थापयति । यद्वा - मध्यमायामवस्थायाम् । तस्मात्सर्वेऽपि शरीरमध्ये मध्यमावस्थायां वा ऊर्जा भुञ्जते अन्नेन सहिता भवन्ति । बलेन वा उपलक्षिता भुञ्जते । विभक्तिव्यत्ययो वा । ऊर्ज भुञ्जते इत्यर्थः । 'आद्यादिभ्यस्तसिः' । 'सावेकाचः' इति ऊर्जेर्विभक्तेरुदात्तत्वम् ।।
10 मध्यतस्सन्नहनस्य फलान्तरमाह - ऊर्ध्वमित्यादि ।। नाभ्यै नाभ्याः षष्ठ्यर्थे चतुर्थी । मेध्यं मेधे भवं शुद्धम्, दिगादित्वाद्यत्, 'यतो नावः' इत्याद्युदात्तत्वम् । अवाचीनमधोभागः । अञ्चतेः क्विनि 'अचः' इति लोपे 'चौ' इति दीर्घत्वम्, 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । अमेध्यममेधार्हम् । दण्डादिभ्यो यः, 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । तस्मान्मध्यतस्सनहनेन अस्य मेध्यामेध्ये व्यावर्तयति विभागेनावस्थापयति ।।
11 अथ मध्यतस्सन्नहनस्यैव तृतीयं फलं दर्शयति - इन्द्रो वृत्रायेति ।। इन्द्रो वृत्रमसुरं हन्तुं वज्रं निर्माय प्राहरत् प्राहिणोत् । स वज्रस्त्रेधा विभक्तोभवत् स्फ्यादिरूपेण । वृत्रवधानन्तरं स्फ्यादियज्ञोपकरणभावेन त्रेधा विभक्तात्मा बभूवेति । यद्वा - इन्द्रेण प्रहितो वज्रस्तं हन्तुं तदीययज्ञे स्फ्यादिभावेन विभक्तात्माऽभवत् । तृतीयमिति । सामान्यरूपत्वान्नपुंसकत्वम् । वज्रतृतीयं स्फ्यो भवतीति । 'पूरणाद्भागे तीयादन्' । एवं रथयूपौ द्रष्टव्यौ । येऽन्तश्शरा अशीर्यन्त शीर्णाः क्षुद्रशकलाः शातनप्रभवाः ते शरा अभवम् । अन्तश्शीर्यन्ते इत्यन्तश्शराः । 'ऋदोरप्' थाथादिनोत्तरपदान्तोदात्तत्वम् । तच्छराणां शरत्वम् । यस्मादशीर्यन्त तस्माच्छरा अभवन् वज्रशकलात्मानश्शराः । किमनेनेत्याह - वज्रो वै शराः वज्रप्रभवत्वात् । शरशब्द उञ्छादिर्द्रष्टव्यः । अजन्तो वा पचादिर्द्रष्टव्यः । मनुष्यस्य क्षुत् भ्रातृव्यः शत्रुः । 'व्यन् सपत्ने' । यच्छरमयी मेखला मध्यतस्सन्नद्धा भवति वज्रेणैव साक्षात्क्षुधम् शत्रुभूतां भ्रातृव्यं मध्यतोपहते अपहन्ति । व्यत्ययेनात्मनेपदम् ।।
12 त्रिवृद्भवतीति विधिः ।। तिस्रो वृत्तयो यस्य स त्रिवृत् । अन्तोदात्तप्रकरणे 'त्रिचकादीनां छन्दसि' इत्युत्तरपदान्तोदात्तत्वम् । त्रिवृत्प्राणः, अपानोदानसहितत्वात् ।।
13 पृथ्वी भवतीति विधिः ।। पृथ्वी विस्तीर्णा रज्जूनां ततो व्यावृत्त्यै ।।
14 मेखलयेत्यादिविधिः ।। वेणीग्रथिता मेखला । विपरीतं योक्त्रम् । मिथुनत्वाय रज्ज्वोः । यद्वा - पत्नीयजमानयोरेकरूप्ये हि रज्ज्वोस्स्वाभाविकं दम्पत्योर्मिथुनत्वं तिरोहितं स्यात् । तस्माद्रज्ज्वोः वैरूप्यं तयोर्मिथुनत्वरक्षार्थमिति । 'पत्युर्नो यज्ञसंयोगे' इति ङीब्नकारौ ।।
15 अथ कृष्णविषाणां प्रतिविधास्यन् तदुत्पत्तिमाह - यज्ञो दक्षिणामित्यादि ।। यज्ञात्मा दक्षिणामकामयत तां समभवत्समगृह्णात् मिथुन्यभवत् । तदिन्द्रोचायत् । चायृ पूजानिशामनयोः, जातवान् । अथ सोमन्यत यो वा इतो दक्षिणाया जनिष्यते स इदं विश्वं भविष्यति इदं सर्वं तदधीनं भविष्यति । यद्वा - स इदं विश्वं प्राप्स्यति विश्वस्य स्वामी भविष्यति, तस्मादस्या अहं जनिषीयेति समालोच्य तां प्राविशदिन्द्रः । ततस्तस्या इन्द्र एव पुत्रोजायत । सोमन्यत पुनरपि मिथुनीभवन्तौ तौ दृष्ट्वा इन्द्रोचिन्तयत् यो मत्तोप्यपरः इतो जनिष्यते स इदं भविष्यति । तस्मान्मत्तोपरो यथाऽस्या न जनिष्यते तथा कर्तव्यमिति सोनुमृश्य विचार्य तस्या योनिमाच्छिनत् सा सूतवशाऽभवत् सकृत्प्रसूता वन्ध्याऽभवत् । सूतेन कृता वशा सूतवशा, सूत्या कृतं वशात्वमिति कृत्वा तृतीयापूर्वपदप्रकृतिस्वरत्वम् । तदिदं सूतवशायै जन्म । षष्ठ्यर्थे चतुर्थी । अथेन्द्रस्तां योनिं हस्ते न्यवेष्टयत । अथ तां योनिं मृगेषु न्यदधात् निहितवान् सा कृष्णविषाणाऽभवत् । इन्द्रस्येत्यादिविधिः । प्रयच्छति यजमानाय ददाति ।।
16 फलमाह - सयोनिमिति ।। तत्र दक्षिणा योनिमती । यज्ञस्तद्योन्यभिध्यायी । इन्द्रोपि तस्या योनेर्जातः । त इमे सर्वेऽपि तस्या योन्यभावादयोनयस्स्युः । कृष्णविषाणाप्रदानेन तु सर्वेऽपि यज्ञादयो योनिमन्तः कृता भवन्ति । सह योन्या वर्तते इति । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, 'वोपसर्जनस्य' इति सभावः । सयोनित्वाय भवत्यात्मनोपि ।।
17 कृष्यै त्वेति लोष्टोन्नयनमन्त्रोयम् ।। अकृष्टपच्याः । राजसूयादौ 'अकृष्टे चेति वक्तव्यम्' इति यः, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - कृष्टं क्षेत्रमेव अकृष्टपच्यं, तत्र हि ताः पच्यन्ते । य एव राजसूयादौ कृष्टपच्यशब्दो निष्पद्यते ततो बहुव्रीहौ 'नङ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्, पच्यन्ते इति कर्मवद्भावात् । यद्वा - कृष्टे पच्यन्ते इति कृष्टपच्याः, न कष्टपच्याः अकृष्टपच्याः, अतादृक्स्वभावात्स्वयमेव पच्यन्ते इति अव्ययपूर्वपदप्रकृतिस्वरत्वं व्यत्ययेन प्रवर्तते ।।
18 सुपिप्पलाभ्य इति दक्षिणे गोदाने कण्डूयनमन्त्रः ।। यस्मात्सुपिप्पलाभ्यः शोभनफलाभ्य इत्याह, तस्मादोषधयः फलं गृह्णन्ति ।।
19 यद्धस्तेनेत्यादि ।। पामनंभावुकाः पामान्यासां सन्तीति पामनाः, पामादित्वान्नप्रत्ययः, पामना भवन्तीति पामनंभावुकाः । 'कर्तरि भुवः खिष्णुच्खुखञौ' इति व्यत्ययेन पामनेऽपि भवति, 'खित्यनव्ययस्य' इति मुम्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यत्स्मयेत हसेत् नग्नंभावुकाः प्रजास्स्युरित्येव । नग्ना भवन्ति ताच्छील्येनेति नग्नंभावुकाः, पूर्ववत्प्रत्ययादि । तस्मात् कृष्णविषाणया कण्डूयते, न हस्तेन । अपिगृह्य स्मयते अपिधाय मुखं

स्मयते चेति विधिः । गोपीथाय रक्षणार्थम् । 'निशीथगोपीथावसथाः' इति निपात्यते । न पुरेति निषेधविधिः । दक्षिणानयनात्प्राक् कृष्णविषाणां नावचूतेत् न मुञ्चेत् । नयतेर्भावलक्षणे तोसुन् । दक्षिणाभ्य इति । षष्ठ्यर्थे चतुर्थी । चृततिर्हिंसार्थकस्तौदादिकः । यदवचृतेत् यन्मुश्चेत् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शस्यैवोदात्तत्वम् । प्रजानां योनिः परापातुका परापतनशीला स्यात् । पूर्ववदुकञ् ।।

20 तस्मात् नीतास्वित्यादिविघिः ।। प्रास्यति प्रत्यस्येत् । योनिरित्यादि । चात्वालं यज्ञस्य योनिः धिष्ण्योपवनादेः प्रकृतत्वात् । कृष्णविषाणाया योनित्वमुक्तमेव । तस्माद्योनावेव योनिं स्थापयति, यदियं चात्वाले प्रास्यते, तस्मादेतद्यज्ञस्य सयोनित्वाय भवति, योनेरपरित्यागात् ।।
इति षष्ठे प्रथमे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 6.1.3.2 TS 6.1.3.2
वा अह्नो॒ वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत् कृ॒ष्णं ॅयदे॒वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुन्धे कृष्णाजि॒नेन॑ दीक्षयति॒ ब्रह्म॑णो॒ वा ए॒तद्-रू॒पं ॅयत् कृ॑ष्णाजि॒नं ब्रह्म॑णै॒वैनं॑ दीक्षयती॒मां धियꣳ॒॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्-गर्भो॒ वा ए॒ष यद्-दी᳚क्षि॒त उल्बं॒ ॅवासः॒ प्रोर्णु॑ते॒ तस्मा॒द् - [ ]
पदपाठः (Word-by-word)
वै । अह्नः॑ । वर्णः॑ । यत् । शु॒क्लम् । कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण - अ॒जि॒नस्य॑ । ए॒षः । रात्रि॑याः । यत् । कृ॒ष्णम् । यत् । ए॒व । ए॒न॒योः॒ । तत्र॑ । न्य॑क्त॒मिति॒ नि-अ॒क्त॒म् । तत् । ए॒व । अवेति॑ । रु॒न्धे॒ । कृ॒ष्णा॒जि॒नेनेति॑ कृष्ण-अ॒जि॒नेन॑ । दी॒क्ष॒य॒ति॒ । ब्रह्म॑णः । वै । ए॒तत् । रू॒पम् । यत् । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । ब्रह्म॑णा । ए॒व । ए॒न॒म् । दी॒क्ष॒य॒ति॒ । इ॒माम् । धिय᳚म् । शिक्ष॑माणस्य । दे॒व॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । गर्भः॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । उल्ब᳚म् । वासः॑ । प्रेति॑ । ऊ॒र्णु॒ते॒ । तस्मा᳚त् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.3.3 TS 6.1.3.3
गर्भाः॒ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो᳚र्ण्वीत॒ यत् पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः᳚ प्र॒जानां᳚ परा॒पातु॑काः स्युः क्री॒ते सोमेऽपो᳚र्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑याꣳ सं प्रत्यपोर्णु॒ते ता॒दृगे॒व तदङ्गि॑रसः सुव॒र्गं ॅलो॒कं ॅयन्त॒ ऊर्जं॒ ॅव्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॒ - [ ]
पदपाठः (Word-by-word)
गर्भाः᳚ । प्रावृ॑ताः । जा॒य॒न्ते॒ । न । पु॒रा । सोम॑स्य । क्र॒यात् । अपेति॑ । ऊ॒र्ण्वी॒त॒ । यत् । पु॒रा । सोम॑स्य । क्र॒यात् । अ॒पो॒र्ण्वी॒तेत्य॑प-ऊ॒र्ण्वी॒त । गर्भाः᳚ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प॒रा॒पातु॑का॒ इति॑ परा-पातु॑काः । स्युः॒ । क्री॒ते । सोमे᳚ । अपेति॑ । ऊ॒र्णु॒ते॒ । जाय॑ते । ए॒व । तत् । अथो॒ इति॑ । यथा᳚ । वसी॑याꣳसम् । प्र॒त्य॒पो॒र्णु॒त इति॑ प्रति -अ॒पो॒र्णु॒ते । ता॒दृक् । ए॒व । तत् । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । यन्तः॑ । ऊर्ज᳚म् । वीति॑ । अ॒भ॒ज॒न्त॒ । ततः॑ । यत् । अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत । ते । श॒राः । अ॒भ॒व॒न्न् । ऊर्क् । वै । श॒राः । यत् । श॒र॒मयीति॑ शर - मयी᳚ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.3.4 TS 6.1.3.4
मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒तः संन॑ह्यति मद्ध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्द्ध्वं ॅवै पुरु॑षस्य॒ नाभ्यै॒ मेद्ध्य॑-मवा॒चीन॑-ममे॒द्ध्यं ॅयन्म॑द्ध्य॒तः स॒नंह्य॑ति॒ मेद्ध्यं॑ चै॒वास्या॑मे॒द्ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑र॒थ् स त्रे॒धा व्य॑भव॒थ् स्फ्यस्तृती॑यꣳ॒॒ रथ॒स्तृती॑यं॒ ॅयूप॒स्तृती॑यं॒ - [ ]
पदपाठः (Word-by-word)
मेख॑ला । भव॑ति । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । समिति॑ । न॒ह्य॒ति॒ । म॒द्ध्य॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । ऊ॒द्‌र्ध्वम् । वै । पुरु॑षस्य । नाभ्यै᳚ । मेद्ध्य᳚म् । अ॒वा॒चीन᳚म् । अ॒मे॒द्ध्यम् । यत् । म॒द्ध्य॒तः । स॒न्नह्य॒तीति॑ सं - नह्य॑ति । मेद्ध्य᳚म् । च॒ । ए॒व । अ॒स्य॒ । अ॒मे॒द्ध्यम् । च॒ । व्याव॑र्तय॒तीति॑ वि-आव॑र्तयति । इन्द्रः॑ । वृ॒त्राय॑ । वज्र᳚म् । प्रेति॑ । अ॒ह॒र॒त् । सः । त्रे॒धा । वीति॑ । अ॒भ॒व॒त् । स्फ्यः । तृती॑यम् । रथः॑ । तृती॑यम् । यूपः॑ । तृती॑यम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.3.5 TS 6.1.3.5
ॅये᳚ऽन्तः श॒रा अशी᳚र्यन्त॒ ते श॒रा अ॑भव॒न् तच्छ॒राणाꣳ॑ शर॒त्वं ॅवज्रो॒ वै श॒राः क्षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात् क्षुधं॒ भ्रातृ॑व्यं मद्ध्य॒तोऽप॑ हते त्रि॒वृद्-भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णं म॑द्ध्य॒तो यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ ॅव्यावृ॑त्यै॒ मेख॑लया॒ यज॑मानं दीक्षयति॒ योक्त्रे॑ण॒ पत्नीं᳚ मिथुन॒त्वाय॑ - [ ]
पदपाठः (Word-by-word)
ये । अ॒न्त॒श्श॒रा इत्य॑न्तः-श॒राः । अशी᳚र्यन्त । ते । श॒राः । अ॒भ॒व॒न्न् । तत् । श॒राणा᳚म् । श॒र॒त्वमिति॑ शर-त्वम् । वज्रः॑ । वै । श॒राः । क्षुत् । खलु॑ । वै । म॒नु॒ष्य॑स्य । भ्रातृ॑व्यः । यत् । श॒र॒मयीति॑ शर - मयी᳚ । मेख॑ला । भव॑ति । वज्रे॑ण । ए॒व । सा॒क्षादिति॑ स-अ॒क्षात् । क्षुध᳚म् । भ्रातृ॑व्यम् । म॒द्ध्य॒तः । अपेति॑ । ह॒ते॒ । त्रि॒वृदिति॑ त्रि - वृत् । भ॒व॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै । प्रा॒ण इति॑ प्र -अ॒नः । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । ए॒व । प्रा॒णमिति॑ प्र - अ॒नम् । म॒द्ध्य॒तः । यज॑माने । द॒धा॒ति॒ । पृ॒थ्वी । भ॒व॒ति॒ । रज्जू॑नाम् । व्यावृ॑त्या॒ इति॑ वि - आवृ॑त्यै । मेख॑लया । यज॑मानम् । दी॒क्ष॒य॒ति॒ । योक्त्रे॑ण । पत्नी᳚म् । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.1.3.6 TS 6.1.3.6
य॒ज्ञो दक्षि॑णाम॒भ्य॑द्ध्याय॒त् ताꣳ सम॑भव॒त् तदिन्द्रो॑-ऽचाय॒थ् सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तां प्रावि॑श॒त् तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तो ऽप॑रो जनि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒मा-ऽच्छि॑न॒थ् सा सू॒तव॑शाऽभव॒त् तथ् सू॒तव॑शायै॒ जन्म॒ - [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्ः । दक्षि॑णाम् । अ॒भीति॑ । अ॒द्ध्या॒य॒त् । ताम् । समिति॑ । अ॒भ॒व॒त् । तत् । इन्द्रः॑ । अ॒चा॒य॒त् । सः । अ॒म॒न्य॒त॒ । यः । वै । इ॒तः । ज॒नि॒ष्यते᳚ । सः । इ॒दम् । भ॒वि॒ष्य॒ति॒ । इति॑ । ताम् । प्रेति॑ । अ॒वि॒श॒त् । तस्याः᳚ । इन्द्रः॑ । ए॒व । अ॒जा॒य॒त॒ । सः । अ॒म॒न्य॒त॒ । यः । वै । मत् । इ॒तः । अप॑रः । ज॒नि॒ष्यते᳚ । सः । इ॒दम् । भ॒वि॒ष्य॒ति॒ । इति॑ । तस्याः᳚ । अ॒नु॒मृश्येत्य॑नु - मृश्य॑ । योनि᳚म् । एति॑ । अ॒च्छि॒न॒त् । सा । सू॒तव॒शेति॑ सू॒त - व॒शा॒ । अ॒भ॒व॒त् । तत् । सू॒तव॑शाया॒ इति॑ सू॒त - व॒शा॒यै॒ । जन्म॑ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.1.3.7 TS 6.1.3.7
ताꣳ हस्ते॒ न्य॑वेष्टयत॒ तां मृ॒गेषु॒ न्य॑दधा॒थ् सा कृ॑ष्णविषा॒णा- ऽभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिꣳसी॒रिति॑ कृष्णविषा॒णां प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञ्ं क॑रोति॒ सयो॑निं॒ दक्षि॑णाꣳ॒॒ सयो॑नि॒मिन्द्रꣳ॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्ति॒ यद्धस्ते॑न - [ ]
पदपाठः (Word-by-word)
ताम् । हस्ते᳚ । नीति॑ । अ॒वे॒ष्ट॒य॒त॒ । ताम् । मृ॒गेषु॑ । नीति॑ । अ॒द॒धा॒त् । सा । कृ॒ष्ण॒वि॒षा॒णेति॑ कृष्ण - वि॒षा॒णा । अ॒भ॒व॒त् । इन्द्र॑स्य । योनिः॑ । अ॒सि॒ । मा । मा॒ । हिꣳ॒॒सीः॒ । इति॑ । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । प्रेति॑ । य॒च्छ॒ति॒ । सयो॑नि॒मिति॒ स - यो॒नि॒म् । ए॒व । य॒ज्ञ्म् । क॒रो॒ति॒ । सयो॑नि॒मिति॒ स - यो॒नि॒म् । दक्षि॑णाम् । सयो॑नि॒मिति॒ स - यो॒नि॒म् । इन्द्र᳚म् । स॒यो॒नि॒त्वायेति॑ सयोनि-त्वाय॑ । कृ॒ष्यै । त्वा॒ । सु॒स॒स्याया॒ इति॑ सु - स॒स्यायै᳚ । इति॑ । आ॒ह॒ । तस्मा᳚त् । अ॒कृ॒ष्ट॒प॒च्या इत्य॑कृष्ट - प॒च्याः । ओष॑धयः । प॒च्य॒न्ते॒ । सु॒पि॒प्प॒लाभ्य॒ इति॑ सु - पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । इति॑ । आ॒ह॒ । तस्मा᳚त् । ओष॑धयः । फल᳚म् । गृ॒ह्ण॒न्ति॒ । यत् । हस्ते॑न ।
पदसंख्या: 50
पञ्चशत् 8 #
TS 6.1.3.8 TS 6.1.3.8
कण्डू॒येत॑ पामनं॒ भावु॑काः प्र॒जाः स्यु॒र्यथ् स्मये॑त नग्नं॒ भावु॑काः कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां᳚ गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णामव॑ चृते॒द्यत् पु॒रा दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णाम॑व चृ॒तेद्योनिः॑ प्र॒जानां᳚ परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णां प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञ्स्य॒ चात्वा॑लं॒ ॅयोनिः॑ कृष्णविषा॒णा योना॑वे॒व योनिं॑ दधाति य॒ज्ञ्स्य॑ सयोनि॒त्वाय॑ ॥
पदपाठः (Word-by-word)
क॒ण्डू॒येत॑ । पा॒म॒न॒म्भावु॑का॒ इति॑ पामनम् - भावु॑काः । प्र॒जा इति॑ प्र - जाः । स्युः॒ । यत् । स्मये॑त । न॒ग्न॒म्भावु॑का॒ इति॑ नग्नम् - भावु॑काः । कृ॒ष्ण॒वि॒षा॒णयेति॑ कृष्ण-वि॒षा॒णया᳚ । क॒ण्डू॒य॒ते॒ । अ॒पि॒गृह्येत्य॑पि - गृह्य॑ । स्म॒य॒ते॒ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । गो॒पी॒थाय॑ । न । पु॒रा । दक्षि॑णाभ्यः । नेतोः᳚ । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । अवेति॑ । चृ॒ते॒त् । यत् । पु॒रा । दक्षि॑णाभ्यः । नेतोः᳚ । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण-वि॒षा॒णाम् । अ॒व॒चृ॒तेदित्य॑व-चृ॒तेत् । योनिः॑ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प॒रा॒पातु॒केति॑ परा - पातु॑का । स्या॒त् । नी॒तासु॑ । दक्षि॑णासु । चात्वा॑ले । कृ॒ष्ण॒वि॒षा॒णामिति॑ कृष्ण - वि॒षा॒णाम् । प्रेति॑ । अ॒स्य॒ति॒ । योनिः॑ । वै । य॒ज्ञ्स्य॑ । चात्वा॑लम् । योनिः॑ । कृ॒ष्ण॒वि॒षा॒णेति॑ कृष्ण - वि॒षा॒णा । योनौ᳚ । ए॒व । योनि᳚म् । द॒धा॒ति॒ । य॒ज्ञ्स्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ ॥
पदसंख्या: 48