अनुवाकः 11 TS 6.1.11

(A11)

(अ॒न्वा॒रभ्योथ् - सर्वा॑भिरे॒व - सूर्यं॑ - भू॒तानाꣳ॒॒ ह्ये॑ - ति॒ य - दा॑हुः - स॒प्तविꣳ॑शतिश्च)

अनुवाकः 11 - Complete Audio

TS 6.1.11 - स्वरानुगामी

0:00 0:00
PS1.1 वा॒रु॒णो वै क्री॒तः सोम॒
PS1.2 उप॑नद्धो मि॒त्रो न॒ एहि॒
PS1.3 सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा
PS1.4 वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै
PS1.5 यꣳ सोम॒मक्री॑णन् तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒
PS1.6 आ ऽसा॑दयन्ने॒ष खलु॒ वा
PS1.7 ए॒तर्.हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा
PS1.8 स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वा-न्वा॒रभ्योत् -
PS1.9 [ ]
PS2.1 ति॑ष्ठत्यु॒-र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑हा-न्तरिक्षदेव॒त्यो᳚(1॒) ह्ये॑तर्.हि॒ सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒
PS2.2 सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्
PS2.3 द्वि वा ए॑नमे॒तद॑र्द्धयति॒ यद्
PS2.4 वा॑रु॒णꣳ सन्तं॑ मै॒त्रं क॒रोति॑
PS2.5 वारु॒ण्यर्चा॑ऽऽ सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒
PS2.6 सम॑र्द्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑
PS2.7 ॅवै वासः॒ सर्वा॑भिरे॒वै -
PS2.8 [ ]
PS3.1 -नं॑ दे॒वता॑भिः॒ सम॑र्द्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒
PS3.2 वने॑षु॒ व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒
PS3.3 हि व्य॑न्तरि॑क्षं त॒तान॒ वाज॒मर्व॒थ्स्वित्या॑ह॒
PS3.4 वाजꣳ॒॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒
PS3.5 पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह
PS3.6 हृ॒थ्सु हि क्रतुं॒ ॅवरु॑णो
PS3.7 वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निं
PS3.8 दि॒वि सूर्य॒ - [
PS3.9 ]
PS4.1 मित्या॑ह दि॒वि हि सूर्यꣳ॒॒
PS4.2 सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒
PS4.3 वा ए॒ष सोमं॑ दधाति॒
PS4.4 यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒ त्यं
PS4.5 जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नं प्र॒त्यान॑ह्यति॒
PS4.6 रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑ धूर्.षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्
PS4.7 प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह
PS4.8 भू॒तानाꣳ॒॒ ह्ये॑ - [
PS4.9 ]
PS5.1 -ष पति॒र्विश्वा᳚न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒
PS5.2 ह्ये᳚(1॒) षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒
PS5.3 मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒
PS5.4 यदे॒वादः सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः
PS5.5 प॒र्यमु॑ष्णा॒त् तस्मा॑-दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒
PS5.6 यज॑मानस्यै॒वैष य॒ज्ञ्स्या᳚न्वार॒भ्ॐ ऽन॑वच्छित्त्यै॒ वरु॑णो॒
PS5.7 वा ए॒ष यज॑मानम॒भ्यैति॒ यत्
PS5.8 - [ ]
PS6.1 क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑
PS6.2 मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒
PS6.3 शान्त्या॒ आ सोमं॒ ॅवह॑न्त्य॒ग्निना॒
PS6.4 प्रति॑ तिष्ठते॒ तौ स॒भंव॑न्तौ॒
PS6.5 यज॑मानम॒भि सं भ॑वतः पु॒रा
PS6.6 खलु॒ वावैष मेधा॑या॒ऽऽ*त्मान॑मा॒रभ्य॑ चरति॒
PS6.7 यो दी᳚क्षि॒तो यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त
PS6.8 आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त्
PS6.9 तस्य॒ नाऽऽ*श्यं॑ पुरुषनि॒ष्क्रय॑ण इव॒
PS6.10 ह्यथो॒ खल्वा॑हु ( )
PS6.11 र॒ग्नीषोमा᳚भ्यां॒ ॅवा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒
PS6.12 यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त॒ वार्त्र॑घ्न ए॒वास्य॒
PS6.13 स तस्मा᳚द्-वा॒श्यं॑ ॅवारु॒ण्यर्चा परि॑
PS6.14 चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑
PS6.15 चरति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.1.11.1 TS 6.1.11.1
वा॒रु॒णो वै क्री॒तः सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै यꣳ सोम॒मक्री॑णन् तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आ ऽसा॑दयन्ने॒ष खलु॒ वा ए॒तर्.हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वा-न्वा॒रभ्योत् - [ ]
पदपाठः (Word-by-word)
वा॒रु॒णः । वै । क्री॒तः । सोमः॑ । उप॑नद्ध॒ इत्युप॑-न॒द्धः॒ । मि॒त्रः । नः॒ । एति॑ । इ॒हि॒ । सुमि॑त्रधा॒ इति॒ सुमि॑त्र - धाः॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । इन्द्र॑स्य । ऊ॒रुम् । एति॑ । वि॒श॒ । दक्षि॑णम् । इति॑ । आ॒ह॒ । दे॒वाः । वै । यम् । सोम᳚म् । अक्री॑णन्न् । तम् । इन्द्र॑स्य । ऊ॒रौ । दक्षि॑णे । एति॑ । अ॒सा॒द॒य॒न्न् । ए॒षः । खलु॑ । वै । ए॒तर्.हि॑ । इन्द्रः॑ । यः । यज॑ते । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । उदिति॑ । आयु॑षा । स्वा॒युषेति॑ सु - आ॒युषा᳚ । इति॑ । आ॒ह॒ । दे॒वताः᳚ । ए॒व । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । उदिति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ सोमस्वीकारस्य प्राप्तावसरत्वान्मन्त्रं व्याचष्टे —

“वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रधा इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति।

बन्धनस्य वरुणपाशरूपत्वात्तद्युक्तः सोमो वारुणः अतो वरुणावक्त्रूरत्वप्राप्तौ तच्छान्तये मित्रत्वं प्रतिपादयति।

ऊरुस्थानं पूर्वाचारप्राप्तमित्याह —

“इन्द्रस्योरुमा विश दक्षिणमित्याह देवा वै य सोममक्रीणन्तमिन्द्रस्योरौ दक्षिण आऽसादयन्नेष खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।

अमृतशब्दानुशब्दयोरर्थमाह —

‘उदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्तिष्ठति’ (सं. का. ६ प्र. १ अ. ११) इति।

उत्थापनमारभ्य पुनर्भूमौ स्थापनपर्यन्तं सोमोऽन्तरिक्षाधार इत्यभिप्रायं दर्शयति —

‘उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो ह्येतर्हि सोमः’ (सं. का. ६ प्र. १ अ. ११) इति।

प्रथमद्वितीयमन्त्रयोः स्पष्टार्थतां दर्शयति —

“अदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।

द्वितीयमन्त्रसाध्यं यदासादनं तदेव तृतीयमन्त्रेणापि कर्तव्यमित्यमुमर्थं हेतूपन्यासपुरःसरं विधत्ते —

“वि वा एनमेतदर्धयति यद्वारुण सन्तं मैत्रं करोति वारुण्यर्चाऽऽसादयति स्वयैवैनं देवतया समर्धयति” (सं. का. ६ प्र. १ अ. ११) इति।

उपनद्धः सोमो वरुणो यद्विषये मित्रो न एहीति मन्त्रं पठन्मैत्रं करोतीति यदस्ति एतैनैनं सोमं व्यर्धयति समृद्धिहीनं करोति, वारुण्यर्चा तु समर्धयति।

अनेन मन्त्रेण कर्तव्यं विधत्ते —

“वाससा पर्यानह्यति सर्वदेवत्यं वै वासः सर्वाभिरेवैनं देवताभिः समर्धयत्यथो रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।

मन्त्रार्थो लोकप्रसिद्ध इत्याह —

“वनेषु व्यान्तरिक्षं ततानेत्याह वनेषु हि व्यन्तरिक्षं ततान वाजमर्वत्स्वित्याह वाज ह्यर्वत्सु पयो अघ्नियास्वित्याह पयो ह्यघ्नियासु हृत्सु क्रतुमित्याह हृत्सु हि क्रतुं वरुणो विक्ष्वग्निमित्याह वरुणो हि विक्ष्वग्निं दिवि सूर्यमित्याह दिवि हि सूर्य सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधाति यो यजते तस्मादेवमाह” (सं. का. ६ प्र. १ अ. ११) इति।

अद्रिशब्देनात्र पाषाणबहुलो गिरिर्विवक्षितः। पाषाणसंधिषु सोमस्योत्पत्तेः। यजमानस्तेषु सोमं प्राप्नोति।

सौर्यमन्त्रेण रक्षांसि निवार्यन्त इत्याह —

“उदु त्यं जातवेदसमिति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति रक्षसामपहत्यै” (सं. का. ६ प्र. १ अ. ११) इति।

मन्त्रस्य स्पष्टार्थतामाह —

“उस्रावेतं धूर्षाहावित्याह यथायजुरेवैतत्” (सं. का. ६ प्र. १ अ. ११) इति।

प्रथममन्त्रे यथोक्तमर्थं प्रसिद्धतया स्पष्टयति —

“प्र च्यवस्व भुवस्पत इत्याह भूताना ह्येष पतिर्विश्वान्यभि धामानीत्याह विश्वानि ह्येषोऽभि धामानि प्रच्यवते मा त्वा परिपरी विददित्याह यदेवादः सोममाह्रियमाणं गन्धर्वो विश्ववसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय” (सं. का. ६ प्र. १ अ. ११) इति।

पूर्वं गन्धर्वेण सोमस्यापहृतत्वादस्ति तस्करप्रसक्तिस्तस्मान्मा त्वेत्यादिकं वक्तव्यम्।

द्वितीयमन्त्रे स्वस्त्ययनी(नि)शब्देन यज्ञप्राप्तिर्विवक्षितेत्याह —

“यजमानस्य स्वस्त्ययन्यसीत्याह यजमानस्यैवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. १ अ. ५) इति।

तृतीयमन्त्रो ब्राह्मणेनोपेक्षितः।

अस्मिन्मन्त्रे वरुणशब्दाभिप्रायमाह —

“वरुणे वा एष यजमानमभ्यैति यत्क्रीतः सोम उपनद्धो नमो मित्रस्य वरुणस्य चक्षस इत्याह शान्त्यै” (सं. का. ६ प्र. १ अ. ११) इति। यः सोम उपनद्ध एव वरुणरूपः सन्यजमानमभिलक्ष्य समागच्छत्यतो वरुणनमस्कारेण तत्त्वत उपद्रवः शाम्यति।

यद्यप्यग्नीषोमीयस्य पशोर्नायमनुष्ठानकालस्तथाऽपि प्रसङ्गात्तं पशुं विधित्सुः प्रसङ्गं तावद्दर्शयति —

“आ सोमं वहन्त्यग्निना प्रति तिष्ठते तौ संभवन्तौ यजमानमभि सं भवतः पुरा खलु वावैष मेधायाऽऽत्मानमारभ्य चरति यो दीक्षितः” (सं. का. ६ प्र. १ अ. ११) इति।

ऋत्विजः प्राचीनवंशगतस्याऽऽहवनीयस्याग्नेः समीपं प्रति सोममानयन्ति। स च सोमोऽग्निना समेत्य प्रतिष्ठितो भवति। तौ चाग्नीषोमौ परस्परं यदा संगच्छेते तदा यजमानमभिलक्ष्य संगतौ भवतः। तदेतदवगम्य किल पुरा यो दीक्षितः स एष यज्ञार्थं स्वात्मानमेवाऽऽलभ्य पशुत्वेनोपाकृत्य प्रचरति। सोऽयं प्रसङ्गः।

इदानीं विधत्ते —

“यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य सः” (सं. का. ६ प्र. १ अ. ११) इति।

अस्य यजमानस्य पश्वालम्भ आत्मनिष्क्रमणः। पशुं मूल्यत्वेनाग्नीषोमाभ्यां दत्त्वा तेन तयोः स्वभूतमात्मानं निष्क्रीणाति।

अत्र हविःशेषभक्षणं पूर्वपक्षतया निषेधति —

“तस्मात्तस्य नाऽऽश्यं पुरुषनिष्क्रयण इव हि” (सं. का. ६ प्र. १ अ. ११) इति।

यस्मादयं पशुः पुरुषस्य मूल्यमिव तस्मात्तस्य पशोः संबन्धि हविर्न भक्षणीयं तद्भक्षणे मूल्यनाशप्रसङ्गात्।

सिद्धान्तमाह –

“अथो खल्वाहुरग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न एवास्य स तस्माद्वाश्यम्” (सं. का. ६ प्र. १ अ. ११) इति।

अथोशब्दः पूर्वपक्षव्यावृत्त्यर्थः। अभिज्ञास्त्वग्नीषोमार्थमिन्द्रो वृत्रं हतवानित्याहुः। अयं वृत्तान्तो द्वितीयकाण्डस्य पञ्चमप्रपाठके त्वष्टा हतपुत्र इत्यस्मिन्ननुवाके प्रपञ्चितः। यस्मादग्नीषोमार्थमिन्द्रो वृत्रं हतवांस्तस्मादग्नीषोमीयपश्वालम्भो यः सोऽस्य यजमानस्य वैरिघाती। तस्मात्तदीयं हविर्भक्षणीयमेव।

प्रासङ्गिकं परिसमाप्य प्रकृतमेव नमो मित्रस्येति मन्त्रं विनियुङ्क्ते —

“वारुण्यर्चा परि चरति स्वयैवैनं देवतया परि चरति” (सं. का. ६ प्र. १ अ. ११) इति।

उपनद्धस्य सोमस्य वरुणो देवता। परिचरणं नमस्काराद्युपचारः। ततो वरुणमन्त्रेण तदनुष्ठानं युक्तम्। अथ प्राग्वंशे सोमपासन्द्यां प्रतिष्टाप्य तस्मिन्काल एवा वन्दस्व वरुणं बृहन्तमित्येतया तत्त्वा यामीत्यनयो वा वारुण्यर्चोपस्थानरूपं परिचरणं कर्तव्यम्।

—---------------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वरुण इत्यादि ।। यदा सोमः क्रीतः उपनद्धो बद्धो भवति तदा एनं वरुणो गृह्णाति तस्मात्तदाऽसौ वारुणः, वरुणस्यायं वारुणः । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । तस्मान्मित्रो भूत्वाऽस्मानेहि आगच्छेति वचनं तस्य शान्त्यै भवति ।।
2 इन्द्रस्योरुमित्यादि ।। देवास्सोमं क्रीत्वा इन्द्रस्य दक्षिणे ऊरावासादयन् । अस्मिंश्च काले अयमिन्द्रः यो यजते । तस्मात् 'इन्द्रस्योरुमाविश' इति मन्त्रमाह । 'इदमोर्हिल्' 'एतेतौ रथोः' इत्येतादेशः ।।
3 उदायुषेति ।। यस्मात् 'अमृताननु' इत्यस्मिन् मन्त्रे उच्यते तस्माद्देवता अन्वारभ्यावष्टभ्योत्तिष्ठति ।।
4 उर्वन्तरिक्षमिति ।। यदाऽन्तरिक्षेण सोमे इच्छति [मो गच्छति] अस्मिन् कालेऽयमन्तरिक्षदैवत्यः । तस्मादात्मीयानां देवानां अन्तरिक्षं विस्तीर्णमन्विहि अनुगच्छेति मन्त्राभिप्राय इत्यर्थः । 'देवतान्तात्तादर्थ्ये यत्', 'तित्स्वरितम्' इति स्वरितत्वम्, 'उदात्तस्वरितयोर्यणः', इति हिशब्दात्पर एकारस्स्वर्यते ।।
5 अदित्यास्सद इत्यादि ।। कृष्णाजिनस्यादित्यास्सदनतुल्यत्वात् यजुर्यथा वदति तथैवैतदित्यर्थः ।।
6 वि वा एनमिति ।। एनं सोमं विवर्धयति वृद्धिं करोति खल्वेतत् यद्वारुणं सन्तं मैत्रं करोति 'मित्रो न एहि' इति मन्त्रेण मैत्रतामापादयति । वरुणपरित्यागेन व्यृद्धस्स्यात्, तस्माद्वारुण्यर्चा 'वरुणोसि धृतव्रतः' इत्यनया आसादयति । स्वयैवैनं देवतया अप्रच्युतया एनं समर्धयति । वाससा पर्यानह्यति सर्वतो बध्नाति सोममिति विधिः । सर्वदेवत्यमित्यादि । गतम् । अथो अपिच रक्षसामपहत्यै भवति अपहननाय संपद्यते, सोमस्य हन्तुमशक्यत्वात् । 'तादौ च ' इति गतेः प्रकृतिस्वरत्वम् ।।
7 वनेष्विति ।। यस्माद्वनेपु वृक्षेषु वा अन्तरिक्षं विततान विविधं स्थापितवान् तस्मादेवमाह । वाजं गतिं वेगं वा । यस्मादर्वत्सु अश्वेषु विततानेत्येव । यागद्वारेण सर्वाऽपीयं व्यवस्था । पयः क्षीरादिकं अघ्नियासु गोषु विततान । हृत्सु क्रतुं ज्ञानं विततान । वरुणः विश्वस्य वारयिता । विश्वेन त्वावृतो देवो व्यवस्थाः सर्वा एताः कृतवानिति । विक्षु मनुष्येषु अग्निं वैश्वानरं विततान । दिवि अन्तरिक्षे सूर्यमदधात् दधाति धारयति यागद्वारेणैव । दिव्येव हि सूर्यं दधाति । सोममित्यादि । ग्रावाणो वा अद्रयस्तेपु वा एष सोमं दधाति स्थापयति यो यजते । तस्मात्सोममद्रावदधादित्याह । ग्राव्णां पर्वतत्वमध्यारोप्यैवमाहेति ।।
8 उदु त्यमिति प्रत्यानह्यति प्रतिबद्धद्वारं सर्वतो बध्नातीति मन्त्रविधिः । उस्रावेतमित्यादियुग्यानयोजनमन्त्रेषु धूर्षाहावित्यादिगुणकथनम् । यथा यजुर्वदति तथा वेदितव्यम् । प्र च्यवस्वेति । भूतानामिति भुव इत्यस्यार्थमाचष्टे । यद्विश्वानि धामानि स्थानानि तेजांसि अभि प्रच्यवते आभिमुख्येन गन्तुमेष प्रारभते तस्मादेवमाह - मा त्वेति । यस्माद्विश्वावसुर्नाम गन्धर्वः परितस्सर्वतः आवृत्य सोमममुष्माल्लोकाद्गायत्र्या आह्रियमाणमपाहरत् तस्मात्परि मा विदत् पथि पर्यवस्थाता चोरो विश्वावसुर्मा विदत् मा लब्ध, मा गन्धर्वो विश्वावसुः आदधत् आत्मसात्कुर्यादिति च मन्त्रे आह । अदश्शब्दात्परस्याः पञ्चम्याः 'सुपां सुलुक्' इति लुक् । यद्वा - पर्यमुष्णादिति यददः यदिदं कारणं तस्मादेवमाह । तस्मादपरिमोषाय एतद्वचनं भवति यजमानस्येति । एष हि यजमानस्य यज्ञस्यान्वारम्भः यजमानो यज्ञमन्वारभते स्मृशत्येतद्वचनेन । तस्मादेतद्वचनं अनवच्छित्यै अप्रच्युत्यै भवति यजमानस्य । स्वस्ति अविघ्नेन अयनं प्राप्नोति यज्ञस्य स्वस्त्ययनं तद्वान् सोमः तत्कारिका असीति ।।
9 वरुणो वा इत्यादि ।। योयं क्रीत उपनद्धश्च सोमः एषः वरुणः यजमानमभ्येति अभिगमनि वित्तमुक्तम् तथा हरणात् वरुण इवायं स्यात् । ततश्च यजमानो वरुणगृहीतो भवेत्, तस्मात् 'नमो मित्रस्य' इति वचनं शान्त्यै भवति मित्रत्ववचनेन बोधिते ।।
10 अग्नीषोमीयं पशुं विधास्यन् आह - आ सोममित्यादि ।। सोमं चानयन्ति आवहन्ति, अग्निना च प्रतितिष्ठते अग्निना च संगच्छति यजमानः । 'समवप्रविभ्यस्स्थः' इत्यात्मनेपदम् । 'चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । ततश्च तौ सोमश्चाग्निश्च संभवन्तौ यजमानमभि यजमानमेव लक्षीकृत्य संभवतः यजमानमभिभवत एव सह तिष्ठतः । यद्वा - प्रमाणानतिरेकस्संभवः । यजमानमभितो व्याप्य तिष्ठतः । किञ्च - पुरा खलु दीक्षाकाल एव एष मेघाय यज्ञार्थं आत्मानमारभ्य आलभ्य नियुज्य आत्मानं दत्वा चरति यो दीक्षितः स्रुक्स्थानीयः परार्थे वर्तते । तस्मादग्नीषोमीयं पशुमालभते तस्यात्मनिष्क्रयणे भवत्येव । आत्मा निष्क्रीयते येन यथोक्तलक्षणाच्चरितादिति करणे ल्युट् । अग्नीषोमौ देवते अस्येति 'द्यावापृथिवी' इत्यादिना छः । अन्यस्त्वाह - तौ संभवन्तौ यजमानमभिसंवभत इत्युक्तम् । तस्माद्यजमानमभिसंभवतः । पुरा खल्वित्यादि । पूर्वं खलु यजमानः मेधायात्मानमालभ्य वर्तते, तस्मादिदमेव कृतं भवति भवत इति ताभ्यामात्मा निष्क्रीयते अग्नीषोमीयपशुनेत्यादि । तस्मादेव कारणात् तस्य पशोस्संबन्धीडादिकमन्नाद्यं न भक्ष्यम् । कस्मादित्याह - पुरुषनिष्क्रयण इव हीति । यस्मादेव पुरुषनिष्क्रयण इव भवति । पुरुषो निष्क्रीयते येन स पुरुषसंमितो भवति तस्य भक्षणं पुरुषस्येव भक्षणं भवति । तस्मान्नाश्यम् । पूर्ववत्करणे ल्युट् ।।
11 अथो इति ।। अन्ये खलु पदार्थविदोन्यदाहुः । अग्नीषोमाभ्यामिन्द्रो वृत्रमहन् हतवान् । तस्मादग्रीषोमीयः पशुः वार्त्रघ्नः एवास्य यजमानस्य न तु पुरुषनिष्क्रयणः, तस्माद्वाश्यमेवेति । उशब्दोवधारणे । वृत्रस्य पापस्य हन्तुर्यजमानस्य संबन्धी वार्त्रघ्नः वृत्रहननार्थ एवेति यावत् । उपस्थानादिकमस्य करोति । अणन्तादपि 'यस्य' इति लोपे उदात्तनिवृत्तिस्वरेण 'उदात्तयणः' इति तृतीयाया उदात्तत्वम् । स्वयैव देवतया वरुणरूपयैनं परिचरति तस्या एवेदं परिचरणं भवतीति आत्मीयदेवताया एवेदं परिचरतीत्यर्थः । यद्वा - स्वया देवतया सहैनं परिचरति ।।
इति श्रीभट्टभास्कृरमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठकाण्डे प्रथमप्रश्ने एकादशानुवाकः ॥

समाप्तश्च प्रथमः प्रश्नः ॥

……………………………………………………………………………………………………………

प्रश्नः-2

पञ्चशत् 2 #
TS 6.1.11.2 TS 6.1.11.2
ति॑ष्ठत्यु॒-र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑हा-न्तरिक्षदेव॒त्यो᳚(1॒) ह्ये॑तर्.हि॒ सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद् द्वि वा ए॑नमे॒तद॑र्द्धयति॒ यद् वा॑रु॒णꣳ सन्तं॑ मै॒त्रं क॒रोति॑ वारु॒ण्यर्चा॑ऽऽ सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्द्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑ ॅवै वासः॒ सर्वा॑भिरे॒वै - [ ]
पदपाठः (Word-by-word)
ति॒ष्ठ॒ति॒ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष - दे॒व॒त्यः॑ । हि । ए॒तर्.हि॑ । सोमः॑ । अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् । वीति॑ । वै । ए॒न॒म् । ए॒तत् । अ॒द्‌र्ध॒य॒ति॒ । यत् । वा॒रु॒णम् । सन्त᳚म् । मै॒त्रम् । क॒रोति॑ । वा॒रु॒ण्या । ऋ॒चा । एति॑ । सा॒द॒य॒ति॒ । स्वया᳚ । ए॒व । ए॒न॒म् । दे॒वत॑या । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । वास॑सा । प॒र्यान॑ह्य॒तीति॑ परि - आन॑ह्यति । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व -दे॒व॒त्य᳚म् । वै । वासः॑ । सर्वा॑भिः । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.1.11.3 TS 6.1.11.3
-नं॑ दे॒वता॑भिः॒ सम॑र्द्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षं त॒तान॒ वाज॒मर्व॒थ्स्वित्या॑ह॒ वाजꣳ॒॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह हृ॒थ्सु हि क्रतुं॒ ॅवरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निं दि॒वि सूर्य॒ - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । दे॒वता॑भिः । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । वने॑षु । वीति॑ । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । इति॑ । आ॒ह॒ । वने॑षु । हि । वीति॑ । अ॒न्तरि॑क्षम् । त॒तान॑ । वाज᳚म् । अर्व॒थ्स्वित्यर्व॑त् - सु॒ । इति॑ । आ॒ह॒ । वाज᳚म् । हि । अर्व॒थ्स्वित्यर्व॑त् - सु॒ । पयः॑ । अ॒घ्नि॒यासु॑ । इति॑ । आ॒ह॒ । पयः॑ । हि । अ॒घ्नि॒यासु॑ । हृ॒थ्स्विति॑ हृत् - सु । क्रतु᳚म् । इति॑ । आ॒ह॒ । हृ॒थ्स्विति॑ हृत्-सु । हि । क्रतु᳚म् । वरु॑णः । वि॒क्षु । अ॒ग्निम् । इति॑ । आ॒ह॒ । वरु॑णः । हि । वि॒क्षु । अ॒ग्निम् । दि॒वि । सूर्य᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.1.11.4 TS 6.1.11.4
मित्या॑ह दि॒वि हि सूर्यꣳ॒॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒ त्यं जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नं प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑ धूर्.षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत् प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒तानाꣳ॒॒ ह्ये॑ - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । दि॒वि । हि । सूर्य᳚म् । सोम᳚म् । अद्रौ᳚ । इति॑ । आ॒ह॒ । ग्रावा॑णः । वै । अद्र॑यः । तेषु॑ । वै । ए॒षः । सोम᳚म् । द॒धा॒ति॒ । यः । यज॑ते । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । इति॑ । सौ॒र्या । ऋ॒चा । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । प्र॒त्यान॑ह्य॒तीति॑ प्रति-आन॑ह्यति । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । उस्रौ᳚ । एति॑ । इ॒त॒म् । धू॒र्॒.षा॒हा॒विति॑ धूः - सा॒हौ॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । प्रेति॑ । च्य॒व॒स्व॒ । भु॒वः॒ । प॒ते॒ । इति॑ । आ॒ह॒ । भू॒ताना᳚म् । हि ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.1.11.5 TS 6.1.11.5
-ष पति॒र्विश्वा᳚न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये᳚(1॒) षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादः सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त् तस्मा॑-दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञ्स्या᳚न्वार॒भ्ॐ ऽन॑वच्छित्त्यै॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् - [ ]
पदपाठः (Word-by-word)
ए॒षः । पतिः॑ । विश्वा॑नि । अ॒भीति॑ । धामा॑नि । इति॑ । आ॒ह॒ । विश्वा॑नि । हि । ए॒षः । अ॒भीति॑ । धामा॑नि । प्र॒च्यव॑त॒ इति॑ प्र - च्यव॑ते । मा । त्वा॒ । प॒रि॒प॒रीति॑ परि - प॒री । वि॒द॒त् । इति॑ । आ॒ह॒ । यत् । ए॒व । अ॒दः । सोम᳚म् । आ॒ह्रि॒यमा॑ण॒मित्या᳚ - ह्रि॒यमा॑णम् । ग॒न्ध॒र्वः । वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ । प॒र्यमु॑ष्णा॒दिति॑ परि - अमु॑ष्णात् । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । अप॑रिमोषा॒येत्यप॑रि - मो॒षा॒य॒ । यज॑मानस्य । स्व॒स्त्यय॒नीति॑ स्वस्ति - अय॑नी । अ॒सि॒ । इति॑ । आ॒ह॒ । यज॑मानस्य । ए॒व । ए॒षः । य॒ज्ञ्स्य॑ । अ॒न्वा॒र॒म्भ इत्य॑नु - आ॒र॒म्भः । अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्यै॒ । वरु॑णः । वै । ए॒षः । यज॑मानम् । अ॒भि । एति॑ । ए॒ति॒ । यत् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.1.11.6 TS 6.1.11.6
क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमं॒ ॅवह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒भंव॑न्तौ॒ यज॑मानम॒भि सं भ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒ऽऽ*त्मान॑मा॒रभ्य॑ चरति॒ यो दी᳚क्षि॒तो यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त् तस्य॒ नाऽऽ*श्यं॑ पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हु ( ) र॒ग्नीषोमा᳚भ्यां॒ ॅवा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्मा᳚द्-वा॒श्यं॑ ॅवारु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑ चरति ॥
पदपाठः (Word-by-word)
क्री॒तः । सोमः॑ । उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । इति॑ । आ॒ह॒ । शान्त्यै᳚ । एति॑ । सोम᳚म् । वह॑न्ति । अ॒ग्निना᳚ । प्रतीति॑ । ति॒ष्ठ॒ते॒ । तौ । स॒भंव॑न्ता॒विति॑ सं - भव॑न्तौ । यज॑मानम् । अ॒भि । समिति॑ । भ॒व॒तः॒ । पु॒रा । खलु॑ । वाव । ए॒षः । मेधा॑य । आ॒त्मान᳚म् । आ॒रभ्येत्या᳚-रभ्य॑ । च॒र॒ति॒ । यः । दी॒क्षि॒तः । यत् । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । प॒शुम् । आ॒लभ॑त॒ इत्या᳚ - लभ॑ते । आ॒त्म॒नि॒ष्क्रय॑ण॒ इत्या᳚त्म - नि॒ष्क्रय॑णः । ए॒व । अ॒स्य॒ । सः । तस्मा᳚त् । तस्य॑ । न । आ॒श्य᳚म् । पु॒रु॒ष॒नि॒ष्क्रय॑ण॒ इति॑ पुरुष - नि॒ष्क्रय॑णः । इ॒व॒ । हि । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ( ) । अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । वै । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । इति॑ । यत् । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । प॒शुम् । आ॒लभ॑त॒ इत्या᳚-लभ॑ते । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । ए॒व । अ॒स्य॒ । सः । तस्मा᳚त् । उ॒ । आ॒श्य᳚म् । वा॒रु॒ण्या । ऋ॒चा । परीति॑ । च॒र॒ति॒ । स्वया᳚ । ए॒व । ए॒न॒म् । दे॒वत॑या । परीति॑ । च॒र॒ति॒ ॥
पदसंख्या: 77