प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.10.2 TS 6.1.10.2
-नं॑ क्रीणाति धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैनं॑ क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैनं॑ क्रीणात्यन॒डुहा᳚ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्. वह्नि॑नै॒व वह्नि॑ य॒ज्ञ्स्य॑ क्रीणाति मिथु॒नाभ्यां᳚ क्रीणाति मिथु॒नस्याव॑-रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यं॑ ॅवै वा॒सः सर्वा᳚भ्य ए॒वैनं॑ दे॒वता᳚भ्यः क्रीणाति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे॒ - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । क्री॒णा॒ति॒ । धे॒न्वा । क्री॒णा॒ति॒ । साशि॑र॒मिति॒ स - आ॒शि॒र॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । ऋ॒ष॒भेण॑ । क्री॒णा॒ति॒ । सेन्द्र॒मिति॒ स-इ॒न्द्र॒म् । ए॒व । ए॒न॒म् । क्री॒णा॒ति॒ । अ॒न॒डुहा᳚ । क्री॒णा॒ति॒ । वह्निः॑ । वै । अ॒न॒ड्वान् । वह्नि॑ना । ए॒व । वह्नि॑ । य॒ज्ञ्स्य॑ । क्री॒णा॒ति॒ । मि॒थु॒नाभ्या᳚म् । क्री॒णा॒ति॒ । मि॒थु॒नस्य॑ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । वास॑सा । क्री॒णा॒ति॒ । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व - दे॒व॒त्य᳚म् । वै । वासः॑ । सर्वा᳚भ्यः । ए॒व । ए॒न॒म् । दे॒वता᳚भ्यः । क्री॒णा॒ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । अवेति॑ । रु॒न्धे॒ ।
पदसंख्या: 50