तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑द्ध्व॒र्युर्नि॑ ह्नु॑त आ॒त्मनोऽना᳚व्रस्काय॒ गच्छ॑ति॒ श्रियं॒ प्र प॒शूना᳚प्नोति॒ य ए॒वं ॅवेद॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथा य॒जुरे॒वैतद् दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न् तद॑भी॒षहा॒ पुन॒राऽद॑दत॒ को हि तेज॑सा विक्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन॒ - [ ]
पदपाठः (Word-by-word)
तपसः॑ । त॒नूः । अ॒सि॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वर्णः॑ । इति॑ । आ॒ह॒ । प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । ए॒व । तत् । अ॒द्ध्व॒र्युः । नीति॑ । ह्नु॒ते॒ । आ॒त्मनः॑ । अना᳚व्रस्का॒येत्यना᳚ - व्र॒स्का॒य॒ । गच्छ॑ति । श्रिय᳚म् । प्रेति॑ । प॒शून् । आ॒प्नो॒ति॒ । यः । ए॒वम् । वेद॑ । शु॒क्रम् । ते॒ । शु॒क्रेण॑ । क्री॒णा॒मि॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-यजुः । ए॒व । ए॒तत् । दे॒वाः । वै । येन॑ । हिर॑ण्येन । सोम᳚म् । अक्री॑णन्न् । तत् । अ॒भी॒षहेत्य॑भि-सहा᳚ । पुनः॑ । एति॑ । अ॒द॒द॒त॒ । कः । हि । तेज॑सा । वि॒क्रे॒ष्यत॒ इति॑ वि - क्रे॒ष्यते᳚ । इति॑ । येन॑ । हिर॑ण्येन ।