सोमं॑ क्रीणी॒यात् तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वाऽऽत्मन् ध॑त्ते॒ऽस्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्-द॑न्द॒शूका॒स्ताꣳ समाꣳ॑ स॒र्पाः स्यु॑रि॒दम॒हꣳ स॒र्पाणां᳚ दन्द॒शूका॑नां ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हा-द॑न्दशूका॒स्ताꣳ समाꣳ॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ ॅविद्ध्यति॒ स्वान॒ - [ ]
पदपाठः (Word-by-word)
सोम᳚म् । क्री॒णी॒यात् । तत् । अ॒भी॒षहेत्य॑भ - सहा᳚ । पुनः॑ । एति॑ । द॒दी॒त॒ । तेजः॑ । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ । अ॒स्मे इति॑ । ज्योतिः॑ । सो॒म॒वि॒क्र॒यिणीति॑ सोम-वि॒क्र॒यिणि॑ । तमः॑ । इति॑ । आ॒ह॒ । ज्योतिः॑ । ए॒व । यज॑माने । द॒धा॒ति॒ । तम॑सा । सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम - वि॒क्र॒यिण᳚म् । अ॒र्प॒य॒ति॒ । यत् । अनु॑पग्र॒थ्येत्यनु॑प - ग्र॒थ्य॒ । ह॒न्यात् । द॒न्द॒शूकाः᳚ । ताम् । समा᳚म् । स॒र्पाः । स्युः॒ । इ॒दम् । अ॒हम् । स॒र्पाणा᳚म् । द॒न्द॒शूका॑नाम् । ग्री॒वाः । उपेति॑ । ग्र॒थ्ना॒मि॒ । इति॑ । आ॒ह॒ । अद॑न्दशूकाः । ताम् । समा᳚म् । स॒र्पाः । भ॒व॒न्ति॒ । तम॑सा । सो॒म॒वि॒क्र॒यिण॒मिति॑ सोम - वि॒क्र॒यिण᳚म् । वि॒द्ध्य॒ति॒ । स्वान॑ ।