प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.10.5 TS 6.1.10.5
भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑न् ॅलो॒के सोम॑मरक्ष॒न् तेभ्योऽधि॒ सोम॒माऽह॑र॒न्॒. यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒-न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॑ ऽमुष्मि॑न् ॅलो॒के सोमꣳ॑ रक्षेयु॒र्यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो᳚ऽस्य॒ सोमो॑ भवत्ये॒ते᳚ऽस्या॒मुष्मि॑न् ॅलो॒के सोमꣳ॑ रक्षन्ति ॥
पदपाठः (Word-by-word)
भ्राज॑ । इति॑ । आ॒ह॒ । ए॒ते । वै । अ॒मुष्मिन्न्॑ । लो॒के । सोम᳚म् । अ॒र॒क्ष॒न्न् । तेभ्यः॑ । अधीति॑ । सोम᳚म् । एति॑ । अ॒ह॒र॒न्न् । यत् । ए॒तेभ्यः॑ । सो॒म॒क्रय॑णा॒निति॑ सोम - क्रय॑णान् । न । अ॒नु॒दि॒शेदित्य॑नु - दि॒शेत् । अक्री॑तः । अ॒स्य॒ । सोमः॑ । स्या॒त् । न । अ॒स्य॒ । ए॒ते । अ॒मुष्मिन्न्॑ । लो॒के । सोम᳚म् । र॒क्षे॒युः॒ । यत् । ए॒तेभ्यः॑ । सो॒म॒क्रय॑णा॒निति॑ सोम - क्रय॑णान् । अ॒नु॒दि॒शतीत्य॑नु - दि॒शति॑ । क्री॒तः । अ॒स्य॒ । सोमः॑ । भ॒व॒ति॒ । ए॒ते । अ॒स्य॒ । अ॒मुष्मिन्न्॑ । लो॒के । सोम᳚म् । र॒क्ष॒न्ति॒ ॥
पदसंख्या: 44