ति॑ष्ठत्यु॒-र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑हा-न्तरिक्षदेव॒त्यो᳚(1॒) ह्ये॑तर्.हि॒ सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद् द्वि वा ए॑नमे॒तद॑र्द्धयति॒ यद् वा॑रु॒णꣳ सन्तं॑ मै॒त्रं क॒रोति॑ वारु॒ण्यर्चा॑ऽऽ सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्द्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑ ॅवै वासः॒ सर्वा॑भिरे॒वै - [ ]
पदपाठः (Word-by-word)
ति॒ष्ठ॒ति॒ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष - दे॒व॒त्यः॑ । हि । ए॒तर्.हि॑ । सोमः॑ । अदि॑त्याः । सदः॑ । अ॒सि॒ । अदि॑त्याः । सदः॑ । एति॑ । सी॒द॒ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा-य॒जुः । ए॒व । ए॒तत् । वीति॑ । वै । ए॒न॒म् । ए॒तत् । अ॒द्र्ध॒य॒ति॒ । यत् । वा॒रु॒णम् । सन्त᳚म् । मै॒त्रम् । क॒रोति॑ । वा॒रु॒ण्या । ऋ॒चा । एति॑ । सा॒द॒य॒ति॒ । स्वया᳚ । ए॒व । ए॒न॒म् । दे॒वत॑या । समिति॑ । अ॒द्र्ध॒य॒ति॒ । वास॑सा । प॒र्यान॑ह्य॒तीति॑ परि - आन॑ह्यति । स॒र्व॒दे॒व॒त्य॑मिति॑ सर्व -दे॒व॒त्य᳚म् । वै । वासः॑ । सर्वा॑भिः । ए॒व ।