-नं॑ दे॒वता॑भिः॒ सम॑र्द्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षं त॒तान॒ वाज॒मर्व॒थ्स्वित्या॑ह॒ वाजꣳ॒॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह हृ॒थ्सु हि क्रतुं॒ ॅवरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निं दि॒वि सूर्य॒ - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । दे॒वता॑भिः । समिति॑ । अ॒द्र्ध॒य॒ति॒ । अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । वने॑षु । वीति॑ । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । इति॑ । आ॒ह॒ । वने॑षु । हि । वीति॑ । अ॒न्तरि॑क्षम् । त॒तान॑ । वाज᳚म् । अर्व॒थ्स्वित्यर्व॑त् - सु॒ । इति॑ । आ॒ह॒ । वाज᳚म् । हि । अर्व॒थ्स्वित्यर्व॑त् - सु॒ । पयः॑ । अ॒घ्नि॒यासु॑ । इति॑ । आ॒ह॒ । पयः॑ । हि । अ॒घ्नि॒यासु॑ । हृ॒थ्स्विति॑ हृत् - सु । क्रतु᳚म् । इति॑ । आ॒ह॒ । हृ॒थ्स्विति॑ हृत्-सु । हि । क्रतु᳚म् । वरु॑णः । वि॒क्षु । अ॒ग्निम् । इति॑ । आ॒ह॒ । वरु॑णः । हि । वि॒क्षु । अ॒ग्निम् । दि॒वि । सूर्य᳚म् ।