क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमं॒ ॅवह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ स॒भंव॑न्तौ॒ यज॑मानम॒भि सं भ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒ऽऽ*त्मान॑मा॒रभ्य॑ चरति॒ यो दी᳚क्षि॒तो यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त् तस्य॒ नाऽऽ*श्यं॑ पुरुषनि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हु ( ) र॒ग्नीषोमा᳚भ्यां॒ ॅवा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्मा᳚द्-वा॒श्यं॑ ॅवारु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑ चरति ॥
पदपाठः (Word-by-word)
क्री॒तः । सोमः॑ । उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । इति॑ । आ॒ह॒ । शान्त्यै᳚ । एति॑ । सोम᳚म् । वह॑न्ति । अ॒ग्निना᳚ । प्रतीति॑ । ति॒ष्ठ॒ते॒ । तौ । स॒भंव॑न्ता॒विति॑ सं - भव॑न्तौ । यज॑मानम् । अ॒भि । समिति॑ । भ॒व॒तः॒ । पु॒रा । खलु॑ । वाव । ए॒षः । मेधा॑य । आ॒त्मान᳚म् । आ॒रभ्येत्या᳚-रभ्य॑ । च॒र॒ति॒ । यः । दी॒क्षि॒तः । यत् । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । प॒शुम् । आ॒लभ॑त॒ इत्या᳚ - लभ॑ते । आ॒त्म॒नि॒ष्क्रय॑ण॒ इत्या᳚त्म - नि॒ष्क्रय॑णः । ए॒व । अ॒स्य॒ । सः । तस्मा᳚त् । तस्य॑ । न । आ॒श्य᳚म् । पु॒रु॒ष॒नि॒ष्क्रय॑ण॒ इति॑ पुरुष - नि॒ष्क्रय॑णः । इ॒व॒ । हि । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ( ) । अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । वै । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । इति॑ । यत् । अ॒ग्नी॒षो॒मीय॒मित्य॑ग्नी - सो॒मीय᳚म् । प॒शुम् । आ॒लभ॑त॒ इत्या᳚-लभ॑ते । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । ए॒व । अ॒स्य॒ । सः । तस्मा᳚त् । उ॒ । आ॒श्य᳚म् । वा॒रु॒ण्या । ऋ॒चा । परीति॑ । च॒र॒ति॒ । स्वया᳚ । ए॒व । ए॒न॒म् । दे॒वत॑या । परीति॑ । च॒र॒ति॒ ॥