प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.2.1 TS 6.1.2.1
याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न॒. य ए॒वं ॅवि॒द्वान्. य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒त्वाऽन्तः प्र पा॑दयति मनुष्यलो॒क ए॒वैनं॑ पवयि॒त्वा पू॒तं दे॑वलो॒कं प्र ण॑य॒त्यदी᳚क्षित॒ एक॒याऽऽहु॒त्येत्या॑हुः स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीं पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्ध॒ आकू᳚त्यै प्र॒युजे॒ऽग्नये॒ - [ ]
पदपाठः (Word-by-word)
याव॑न्तः । वै । दे॒वाः । य॒ज्ञाय॑ । अपु॑नत । ते । ए॒व । अ॒भ॒व॒न्न् । यः । ए॒वम् । वि॒द्वान् । य॒ज्ञाय॑ । पु॒नी॒ते । भव॑ति । ए॒व । ब॒हिः । प॒व॒यि॒त्वा । अ॒न्तः । प्रेति॑ । पा॒द॒य॒ति॒ । म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒के । ए॒व । ए॒न॒म् । प॒व॒यि॒त्वा । पू॒तम् । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । प्रेति॑ । न॒य॒ति॒ । अदी᳚क्षितः । एक॑या । आहु॒त्येत्या - हु॒त्या॒ । इति॑ । आ॒हुः॒ । स्रु॒वेण॑ । चत॑स्रः । जु॒हो॒ति॒ । दी॒क्षि॒त॒त्वायेति॑ दीक्षित-त्वाय॑ । स्रु॒चा । प॒ञ्च॒मीम् । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । आकू᳚त्या॒ इत्या - कू॒त्यै॒ । प्र॒युज॒ इति॑ प्र - युजे᳚ । अ॒ग्नये᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

“यावन्तो वै देवा यज्ञायापुनत त एवाभवन्य एवं विद्वान्यज्ञाय पुनीते भवत्येव बहिः पवयित्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पवयित्वा पूतं देवलोकं प्रणयति” (सं. का. ६ प्र. १ अ. २) इति।

अभवन्नैश्वर्यं प्राप्तः। भवत्येवैश्वर्यं प्राप्नोत्येव।

“अदीक्षित एकयाऽऽहुत्येत्याहुः स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीं पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवावरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।

“आकूत्यै प्रयुजेऽग्नये स्वाहेत्याहाऽऽकूत्या हि पुरुषो यज्ञमभि प्रयुङ्क्ते यजेयेति” (सं. का. ६ प्र. १ अ. २) इति ।

यदा मनसाऽऽकूतिस्तदा पुरुष क्रत्विजामग्रे यज्ञमभिलक्ष्य यजेयेति वाचं प्रयुङ्क्ते।

“मेधायै मनसेऽग्नये स्वाहेत्याह मेधया हि मनसा पुरुषो यज्ञमभिगच्छति” (सं. का. ६ प्र. १ अ. २) इति ।

श्रुतयोः फलसाधनयोरविस्मरणेन धृतयोर्मनसा यज्ञकर्तव्यतां प्रतिपद्यते। तपोभिमानिनो वह्नेरनुग्रहेण दीक्षासिद्धिः स्पष्टेत्यभिप्रेत्य तृतीयमन्त्रो न व्याख्यातः।

“सरस्वत्यै पूष्णेऽग्नये स्वाहेत्याह वाग्वै सरस्वती पृथिवी पूषा वाचैव पृथिव्या यज्ञं प्रयुङ्क्ते” (सं. का. ६ प्र. १ अ. २) इति।

वाचा मन्त्रोच्चारणसिद्धिः। पृथिव्या यज्ञस्य देवयजनव्रीह्यादिद्रव्यसिद्धिः।

“सरस्वत्यै पूष्णेऽग्नये स्वाहेत्याह वाग्वै सरस्वती पृथिवी पूषा वाचैव पृथिव्या यज्ञं प्रयुङ्क्ते” (सं. का. ६ प्र. १ अ. २) इति।

वाचा मन्त्रोच्चारणसिद्धिः। पृथिव्या यज्ञस्य देवयजनव्रीह्यादिद्रव्यसिद्धिः।

“आपो देवीर्बृहतीर्विश्वशंभुव इत्याह या वै वर्ष्यास्ता आपो देवीर्बृहतीर्विश्वशंभुवः” (सं. का. ६ प्र. १ अ. २) इति।

वर्षे भवा वर्ष्याः।

“यदेतद्यजुर्न ब्रूयाद्दिव्या आपोऽशान्ता इमं लोकमागच्छेयुः” (सं. का. ६ प्र. १ अ. २) इति।

दिव्यत्वादशनिवदपामशान्तत्वम्।

“आपो देवीर्बृहतीर्विश्वशंभुव इत्याहास्मा एवैना लोकाय शमयति तस्माच्छान्ता इमं लोकमागच्छन्ति” (सं. का. ६ प्र. १ अ. २) इति।

द्यावापृथित्री इत्याह द्यावापृथिव्योर्हि यज्ञ उर्वन्तरिक्षमित्याहान्तरिक्षे हि यज्ञः” (सं. का. ६ प्र. १ अ. २) इति।

भूमौ देवयजनमन्तरिक्षेऽनुष्ठानाय संचारो दिवि फलमिति यज्ञस्य लोकत्रयवर्तित्वम्।

“बृहस्पतिर्नो हविषा वृधात्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै यज्ञमवरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।

देवानां मध्ये बृहस्पतेर्गुरुत्वेन परब्रह्मस्वरूपत्वम्।

“यद्ब्रूयाद्विधेरिति यज्ञस्थाणुमृच्छेद्वृधात्वित्याह यज्ञस्थाणुमेव परिवृणाक्ति” (सं. का. ६ प्र. १ अ. २) इति।

बृहस्पतिर्विदधात्वित्युक्ते सत्यभिवृद्धेरसूचितत्वाद्यज्ञविघ्नं यजमानः प्राप्नुयाद्वृधात्वित्युक्त्या तत्परिहारः।

“प्रजापतिर्यज्ञमसृजत सोऽस्मात्सृष्टः पराङैत्सप्रयजुव्लीनात्प्र साम तमृगुदयच्छद्यदृगुदयच्छत्तदौद्ग्रहणस्यौद्ग्रहणत्वम्” (सं. का. ६ प्र. १ अ. २) इति।

पलायमानं यज्ञपुरुषं गृहीतुं प्रजापतिना प्रेरितानां त्रिविधमन्त्रपुरुषणां मध्ये यजुःसामपुरुषौ स यज्ञः प्रकर्षेणाव्लीनादावृणोत्। ऋग्देवता तु तं यज्ञमुदगृह्णात्तस्मादेतदृक्साध्यमनुष्ठानमौद्ग्रहणम्।

“ऋचा जुहोति यज्ञस्योद्यत्यै” (सं. का. ६ प्र. १ अ. २) इति।

“द्वादश वात्सबन्धनान्युदयच्छन्नित्याहुस्तस्माद्द्वादशभिर्वात्सबन्धविदो दीक्षयन्ति” (सं. का. ६ प्र. १ अ. २) इति।

यथा वत्स एकैकेन पाशेन प्रबध्यते तथा विश्वे देवस्येत्यादिषु द्वादशसु पदेष्वेकैकेन पदेन यज्ञो बध्यतेऽतस्तानि पदानि वात्सबन्धानि। वत्सस्येव बन्धो वत्सबन्धः। तदीयानि पदानि यज्ञमुदगृह्णन्तीत्याहुः पूर्वेऽभिज्ञाः। तद्विदोऽध्वर्यव इदानीमपि तैः पदैर्जुह्वति।

“सा वा एषर्गनुष्टुग्वागनुष्टुग्यदेतयर्चा दीक्षयति वाचैवैन सर्वथा दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।

अनुष्टुभो वाग्विशेषत्वेन वाग्रूपत्वम्। छन्दोऽन्तरस्यापि तत्सममिति चेत्तर्हि प्रसङ्गे सति तदपि तथा स्तोतव्यम्।

“विश्वे देवस्य नेतुरित्याह सावित्र्येतेन मर्तो वृणीत सख्यमित्याह पितृदेवत्यैतेन विश्वे राय इषुध्यसीत्याह वैश्वदेव्येतेन द्युम्नं वृणीत पुष्यस इत्याह पौष्ण्येतेन सा वा एषर्क्सर्वदेवत्या यदेतयर्चा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।

प्रथमपादे सवितृपर्यायस्य नेतृशब्दस्य प्रयोगेण सावित्रत्वम्। द्वितीयपादे मर्तशब्देन मृतपितृसूचनात्पितृदेवत्यत्वम्। तृतीयपादे विश्वशब्दस्य प्रयोगाद्वैश्वदेवत्वम्। चतुर्थपादे पुष्यस इत्युक्तत्वात्पौष्णत्वम्।

“सप्ताक्षरं प्रथमं पदमष्टाक्षराणि त्रीणि यानि त्रीणि तान्यष्टावुपयन्ति यानि चत्वारि तान्यष्टौ यदष्टाक्षरा तेन गायत्री यदेकादशाक्षरा तेन त्रिष्टुग्यद्द्वादशाक्षरा तेन जगती सा वा एषर्क्सर्वाणि च्छन्दासि यदेतयर्चा दीक्षयति सर्वेभिरेवैनं छन्दोभिर्दीक्षयति” (सं. का. ६ प्र. १ अ. २) इति।

प्रथमं पदमृचि प्रथमः पादः। द्वितीयादिषु त्रिषु पादेष्वस्ति प्रत्येकमक्षरगताष्टत्वसंख्या। द्वितीयपादे सखियमित्यक्षरत्रयेणाष्टत्वं पूरणीयम्। प्रथमपादं द्वेधा विभज्य त्रिण्यक्षराणि तृतीयपादे चत्वारि चतुर्थपादे गणनीयानि। तथा सति द्वितीयतृतीयचतुर्थपादा अक्षरसंख्याभिर्गायत्र्यादिसमा इति च्छन्दस्त्रयसंपत्तिः। गायत्र्यदीनां त्रयाणां सवनत्रये प्राधान्यात्सर्वच्छन्दःसंपत्तिः।

“सप्ताक्षरं प्रथमं पद सप्तपदा शक्वरी पशवः शक्वरी पशुनेवावरुन्धे” (सं. का. ६ प्र. १ अ. २) इति।

विश्वे देवस्य नेतुरित्यत्र सप्ताक्षराणि। प्रोष्वस्मै पुरो रथमित्यस्यां च शक्वर्यामृचि सप्त पादाः। शक्वर्याः पशुप्रदत्वात्पशुरूपत्वम्।

“एकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रणाना सृष्ट्यै” (सं. का. ६ प्र. १ अ. २) इति।

यस्मादस्यामृचि प्रथमः पाद एकेनाक्षरेण न्यूनस्तस्मान्मनुष्या वाचः स्वरूपमनाप्तमसंपूर्णमुपजीवन्ति। मूलाधारादुत्पन्नो वायुर्मूर्धपर्यन्तं प्रसृतो वक्त्रे तत्तत्स्थानेषु वर्णानुत्पादयति। तदिदं वर्णाभिव्यक्तिलक्षणं वाचश्चतुर्थं पदम्। पूर्वाणि तु त्रीणि कण्ठादध एव रूढत्वान्नाभिव्यञ्जयितुं शक्यन्ते । तथा चाऽऽम्नायते — “गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति। एतेनासंपूर्णवाग्व्यवहारसाम्यं दर्शितम्। किंचेयमृगुत्तरेवु पादेष्वक्षरपूर्णा तेन सृष्टिपूर्णप्रजापतिसाम्यात्तत्प्राप्तये भवति। प्रथमपादे यदक्षरन्यूनत्वं तेन सृष्टिशून्यजगद्वीजसाम्यात्प्रजोत्पत्तये भवति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पवनस्यैवार्थवादशेषः - यावन्त इत्यादि ।। पुनर्वचनं प्राशस्त्यातिशयप्रदर्शनार्थम् । यत्परिमाणा देवा यज्ञार्थमपुनत सदर्भपुञ्जीलाभिरद्भिः दीक्षित्वा शुद्धाः ते तावन्त एवाभवन् भूतिमन्तस्सपन्नाः । एवं नाम प्रशस्ततममिदमिति यज्ञार्थेषु कर्मसु पवमानमादृतवन्त एव सिद्धिभाजो भवन्ति । यद्वा - यज्ञाय यज्ञसंपादने एव सर्वदा भूयास्मेत्यभिसन्धिना एतत्पवनमकुर्वन्निति । तस्माद्य एवं .विद्वान् यज्ञार्थमनेन विधिना शुद्धिमिच्छति स भवत्येव भूतिं भजते वर्धते इत्यर्थः ।।
2 बहिः पवयित्वाऽन्तः प्र पादयतीति विधिः ।। बहिरुदकसमीपे पवयित्वा शालायामन्तः प्रवेशयति । स्तौति - मनुष्यलोक इति । गतम् । प्रणयति प्रापयति ।।
3 अथ दीक्षाहुतीर्विधास्यन् अभिमतसंख्याप्रतिपादनार्थमाह - अदीक्षित इति ।। एकयेति चतसृणामभावो लक्ष्यते, यदि चतस्रो न जुहुयात् तदा एकया अदीक्षित एव स्यादित्याहुः । तस्मात्स्रुवेण चतस्रो जुहोतीति विधिः । अन्ये तु ब्रुवते - एकाहुतिः दीक्षणीया । दीक्षाहुतीनामनेकत्वात् यदीमा दीक्षाहुतीर्न जुहुयात्, तदा दीक्षणीयया एकयाऽऽहुत्या दीक्षितत्वाभावात् अदीक्षित एव स्यादित्याहुः । तस्माद्दीक्षाहुतीर्जुहुयादिति । तत्र चतुष्टयं विधातुं चतस्र इत्युक्तम् । आहुतिशब्दे 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । दीक्षितत्वाय दीक्षाहुतिभिरेव । दीक्षितस्संपद्यते इति कृत्वा तत उपपद्यते । मेखलया संयोजयति दीक्षितमित्यादि । ताश्च आकूत्या इत्याद्याः । स्रुचा पञ्चमीमिति । इयं च 'आपो देवीः'3 इत्यादिका । स्रुचा । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । पञ्चाक्षरेति । व्याख्यातम् ।।
4 मन्त्रार्थमनुसन्धत्ते - आकूत्या इत्यादि ।। आकूत्या संकल्पेन हि पुरुषो यजेयेति यज्ञमभि प्रयुङ्क्ते आभिमुख्येन मनसा यज्ञं प्रयोजयति । यस्मादेवं तस्मात् आकूत्यै प्रयुजे अग्नये स्वाहेति मन्त्रमाह ।।
5 मेधा ग्रन्थार्थधारणशक्तिः । तद्वत्त्वेन हि हेतुना पुरूषो मनसा यज्ञमभिगच्छति अभिप्राप्नोति ऊहापोहादिविज्ञानेन निश्चिनोति । सर्वत्र 'हि च' इति निघाताभावः ।।
6 पृथिवी पूषा; वृष्टिहेतुत्वात् । वाचा पृथिव्या च यज्ञं प्रयुङ्क्ते प्रवर्तयति । एकत्र 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । इतरत्र 'उदात्तयणो हल्पूर्वात्' इति ।।
7 आप इत्यादि ।। या वर्ष्या वर्षे भवा आपः, ता देव्यो बृहत्यो विश्वशम्भुवश्च । वर्षशब्दात् 'भवे छन्दसि' इति यत् । अत्र मन्त्रे आप इत्यादीनामामन्त्रितत्वादामन्त्रितस्वरो भवति, तश्च आप इत्यपदात्परत्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । 'विभाषितं विशेषवचने बहुवचनम्' इति तस्याविद्यमानत्वनिषेधात्

शेषाणामाष्टमिकमामन्त्रिताद्युदात्तत्वम् । ब्राह्मणे त्वनामन्त्रितत्वात् यथास्वं स्वरप्रवृत्तिः । तत्र देवीशब्दः पचादिषु देवडिति पाठात् 'टिड्ढाणञ्' इति ङीप्, उदात्तनिवृत्तिस्वरेणान्तोदात्तः । बृहतीशब्दः गौरादिङीषन्तः । उभयत्रापि 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । विश्वाऽपि प्रवृत्तिर्यासां प्रजानां सुखस्य भावयित्री । अन्तर्भावितण्यर्थात् भवतेः क्विप् । ण्यन्ताद्वा क्विपि 'बहुलमन्यत्रापि संज्ञाछन्दसोः' इति णिलुक् । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दोन्तोदात्तः । वर्णाः खल्वापः सस्यादिनिष्पत्तिद्वारेण विश्वस्य लोकस्य सुखं भावयन्तीत्येवमुच्यते ।।

8 मन्त्रपदानि व्याख्याय मन्त्रप्रयोजनमिदानीमाह - यदिति ।। नन्वियं त्रिपदा विराडेकादशाक्षरा, तत्किमुच्यते यदेतद्यजुरिति? अनवसानत्वमात्रेण यजुष्ट्वमुपचर्यते इत्यदोषः । यद्वा - स्वाहाकाराधिक्येन ऋग्यजुषसमुदायात्मकत्वात् अवयवधर्मेण समुदायो व्यपदिश्यते इति । दिवमन्तरिक्षं अर्हन्तीति दिव्याः, दण्डादित्वाद्यः । भवार्थे वा दिगादित्वाद्यति उत्सादित्वादन्तोदात्तत्वम् । अशान्ताः असुखा रोगाद्युपद्रवहेतवः इमं मनुष्यलोकमागच्छेयुः अस्मिन् मनुष्यलोके पतेयुः । तस्मात् 'आपः' इत्युदितं यजुः यस्मादाह तस्मात् अस्मै दिव्याय लोकाय एना दिव्या आपः शमयति स्तोत्रेण प्रसाद्यास्य सुखाः करोति । तस्माच्छान्ताः इदानीमिमं लोकमागच्छन्ति ।।
9 द्यावाष्टथिवी इत्याहेति ।। द्यावाष्टथिव्यौ वर्धयितव्ये मन्त्र आह । क उपकारो भवति यज्ञस्येति चेत् आह - द्यावाष्टथिव्योर्हि यज्ञः, वृष्ट्यन्नादिना तदाश्रयत्वाद्यज्ञस्य । यद्वा - द्यावापृथिव्योः यज्ञफलं वर्तते तस्य तयोस्सुखार्थत्वात् । 'देवताद्वन्द्वे च' इति पुर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । ततः 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । अन्तरिक्षे हि यज्ञ इति । अन्तरिक्षेऽपि हि यज्ञ इत्यर्थः । अन्तरिक्षाश्रयत्वान्मनसा द्रव्यप्रक्षेपादौ । यद्वा - अन्तरिक्षचारिणामपि सुखार्थत्वात् अन्तरिक्षेऽपि यज्ञफलम् । बृहस्पतिर्न इत्यादि । गतम् । बृहस्पतिशब्दो वनस्पत्यादिः पारस्करादिश्च ।।
10 यद्बूयादिति ।। अत्र शाखान्तरे 'बृहस्पतिर्नो हविषा वृधेः' इत्याम्नायते । वृधेर्लिङि विधेः । तन्निन्दति ब्राह्मणमितरविधानार्थम् । यज्ञस्थाणुं यज्ञप्रतिबन्धं यजमान ऋच्छेत् प्राप्नुयात्तस्मात् वृधात्वित्याह । उभयोरप्यनुकरणत्यात् तिङः परत्वेऽपि निघातो न निवर्तते । यस्माद्वृधात्वित्याह, तस्माद्यज्ञस्थाणुं परिवृणक्ति सर्वतो वर्जयति । वृजी वर्जने । वृधेर्ण्यन्ताल्लोटि 'बहुलमन्यत्रापि' इति णिलुक्, विकरणव्यत्ययेन शः, वर्णव्यत्ययेन दीर्घत्वम् । वृधातु वर्धयत्वित्यर्थः ।।
11 अथौद्ग्रहणहोमं विधास्यन् पदं तावन्निर्वक्तुमाह - प्रजापतिरित्यादि ।। प्रजापतिना सृष्टो यज्ञः अस्मात्प्रजापतिसकाशात् पराङैत् पराङ्मुखोगच्छत् । परागञ्चतीति ऋत्विगादिना क्विनि हल्ङ्यादिसंयोगान्तलोपयोः 'क्विन्प्रत्ययस्य कुः' इति कुत्वम्, 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । अथ स यज्ञ आत्मानमानेतुमागतं यजुः प्राव्लीनात् प्रावृणोत्प्राच्छादयत् । व्ली वरणे । साम च प्राव्लीनात् । 'चादिलोपे विभाषा' इति तिङ्विभक्तिर्न निहन्यते । अय 'विश्वे देवस्य' इत्यादिका ऋक्तं यज्ञमुदयच्छत् उद्गृह्यानीतवती । यस्मादियमृगुदयच्छत् तस्मादियमृगुद्ग्रहणी । 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् । यस्मादियमृगुद्ग्रहणी तस्मादनेन मन्त्रेण क्रियमाणस्य औद्ग्रहणहोमस्य औद्ग्रहणत्वम् । 'तस्माद्यज्ञस्यानयनार्थमौद्ग्रहणं जुहुयात्' इति विधिरनुमीयते । ऋचा जुहोतीति ऋक्त्वस्य विधिः । फलमाह - यज्ञस्योद्यत्यै 'तादौ च निति' इति पूर्वपदप्रकृतिस्वरत्वम् । छन्दसां मध्ये अनुष्टुबुदयच्छदित्याहुः । तस्मादनुष्टुभा जुहोतीत्यनुष्टप्त्वस्य विधिः । तदेव फलम् । एवमस्य मन्त्रस्य ऋक्त्वमनुष्टुप्त्वं च ज्ञात्वैव होमः कर्तव्य इति भावः ।।
12 कथमिदं चापि ज्ञातव्यमित्याह - द्वादशेति ।। वत्सस्य बन्धनानि वत्सबन्धाः, वत्सो यैर्बद्ध्वा आनीयते, त इव वात्सबन्धामि, 'शर्करादिभ्योण्' इतीवार्थेऽण् । तानि द्वादश यज्ञमुदयच्छन्नित्याहुः । वत्स इव यज्ञो द्वादशभिर्बन्धैर्बद्ध अनीयते इत्याहुः । तानि च विश्वे इत्यादीनि द्वादश पदानि एतदृक्संबन्धीनि । तस्मादेभिः द्वादशिभिः पदैः ज्ञायमानैः वात्सबन्धविदस्सन्तोध्वर्यवो दीक्षयन्ति । 'झल्युपोत्तमम्' इत्युपोत्तमस्योदात्तत्वम् । एवमस्या ऋचः पदसंख्या स्तुता । केचिदाहुः - आकूत्या इत्यादीनि ध्रुवाहुतिसंबन्धीनि । अस्वाहाकाराणि पदानि द्वादश वात्सबन्धानीति । अथवा - अग्निरेक एव सर्वत्रेति आकूत्या इत्यादीनि नव पदानि ऋचि पितृदेवत्यव्यतिरिक्तानि त्रीणि द्वादशेति । उद्ग्रहण्यधिकारे कः प्रसंगोन्येषामिति चिन्त्यमेतत् ।।
13 अथ प्रकारान्तरेणानुष्टुप्त्वं स्तूयते - सा वा एषेति ।। ऋक्सर्वा अनुष्टुप् 'वागनुष्टुक्' इति प्रदेशान्तरे दर्शनात् सैषा वागनुष्टुक् । तस्मादेतया अनुष्टुभा ऋचा दीक्षयति सर्वया वाचा एनं दीक्षयति ।।
14 अथ सर्वदेवत्यतया ऋगियं स्तूयते - सावित्री सवितृदेवत्या नेता देवस्सवितेति कृत्वा । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्, 'उदात्तस्वरितयोर्यणः' इति संहितायां ततः परस्स्वर्यते । पितृदेवत्या, मर्त इति म्रियत्यर्थश्रुतेः । देवतान्तात्तादर्थ्ये यत् । वैश्वदेवी; विश्वश्रुतेः । पोष्णी; पुष्यसे इति पुष्ट्यर्थश्रुतेः । सा तादृश्येषा ऋक् सर्वदेवत्या । पूर्ववद्यत् । यदेतयेत्यदि । गतम् ।।
15 अथ सर्वच्छन्दस्त्वेन स्तूयते - सप्ताक्षरं प्रथमं पदं प्रथमः पादः । अष्टाक्षराणि त्रीणि शिष्टानि पदानि द्वितीयतृतीयचतुर्थानि । ननु द्वितीयं सप्ताक्षरम्? इयादिपूरणेनाष्टाक्षरं भविष्यति । तर्ह्यनेन न्यायेन प्रथममप्यष्टाक्षरं स्यात्? प्रयोजनाभावादियादिपूरणाप्रवृतेः । द्वितीये त्वस्ति प्रयोजनम् । अष्टाक्षराणि त्रीण्येतत्संपादनार्थत्वात् । ननु समाने सप्ताक्षरत्वे किं कारणमेकं यथा समाम्नातं सप्ताक्षरमाह, इतरं त्वियादिपूरणेनाष्टाक्षरम् । उच्यते - न न्यूनाक्षरत्वमात्रेणेयादिना पूरयितव्यम्, अपि तु वृत्त्यनुरोधेन, तत्राष्टाक्षरस्य पादस्य वृत्तिलक्षणं पञ्चममक्षरं सप्तमं च लघु स्यात्, षष्ठं गुर्विति, न च प्रथमे पादे इयादिपूरिते अभीष्टवृत्तिलाभः; सत्यप्यस्मिन् सप्तमस्य गुरुत्वात् षष्ठस्य लघुत्वापत्तेः, पञ्चमस्य प्रागेव लघुत्वात् । तस्मादियादिपूरणाप्रसंगात् सप्ताक्षरं प्रथममित्याह । द्वितीये त्वियादिपूरणे सप्तमस्य लघुवृत्तित्वं क्रियते इति तस्येयादिपूरणस्य युक्तत्वात् अष्टाक्षराणि त्रीण्याहेति वेदितव्यम् ।।
16 अथ छन्दसां संख्याविशेषानुत्पादयति- यमिति ।। इयमेकत्रिंशदक्षरा, अष्टौ, एकादश च, द्वादश च एकत्रिंशद्भवन्ति । तत्र प्रथमस्य सप्ताक्षरस्य यानि त्रीण्यक्षराणि तान्यष्टौ तृतीयपादात्मकान्यक्षराणि उपयन्ति उपगच्छन्ति । अथ यान्यवशिष्टानि चत्वारि, तानि चाष्टौ चतुर्थपादाक्षराण्युपयन्ति । द्वितीयः पादोष्टाक्षर एवावतिष्ठते । तथा सति यस्मादियमष्टाक्षरा द्वितीयेन पादेन, तेनेयं गायत्री । यस्मादियमेकादशाक्षरा तृतीयेन पादेन, तेनेयं त्रिष्टुक् । यस्माच्चेयं द्वादशाक्षरा चतुर्थेन पादेन, तेनेयमृग्जगती । एतान्येव प्रधानानि सवनत्रयगतानि छन्दांसि । तस्मात्तादृश्येषा ऋक् सर्वाणि छन्दांसि । यदेतयेत्यादि । गतम् । यद्द्वाभ्यामष्टाक्षराभ्यां द्वादशाक्षरेण च एकोनोष्णिगिति उष्णिक्परिगृहीता । चतर्भिरष्टाक्षरैरनुष्टुप् इत्यनुष्टुप्परिगृहीता । बृहती, द्वादशाक्षरा त्रयश्चाष्टाक्षरा इति बृहती परिगृहीता । पङ्क्तिः, द्वादशाक्षरा अष्टाक्षरा चेति पक्ङ्तिः परिगृहीता । गायत्र्यादयस्तु प्राधान्याद्ब्राह्मणेन दर्शिता इति वेदितव्यम् ।।
17 इदानीं प्रथमस्य सप्ताक्षरत्वमपि महते गुणायेत्याह - यस्मादियं प्रथमपादे सप्तत्वसंख्ययाऽवरुद्धा, यतश्च सप्तपदा शक्वरी सप्तभिरष्टाक्षरैश्शक्वरी षट्पञ्चाशदक्षरेति, यस्माच्च पशवः शक्वरी शाक्वराः पशव इति तस्मादेतयर्चा दीक्षितः पशूनवरुन्धे । किं चेत्याह - एकस्मादिति । यस्मादियं प्रथमे पादे एकस्मादक्षरादनाप्ता एकमक्षरमभिसमीक्ष्य अपूर्णा वर्तते तस्मादनया ईदृक्स्वभावया आहुतिकरणात् यद्बाचोनाप्तमपरिपूर्णं तुरीयं तदेवाद्यापि मनुप्या उपजीवन्ति । 'तुरीयं वाचो मनुष्या वदन्ति' इति ।।
18 एवं न्यूनत्वं निन्दितम् । अधुना पूर्णत्वं न्यूनत्वं च स्तूयते - पूर्णयेति ।। यस्माद्द्वितीयादिभिः पादैः पूर्णस्वभावा वाक् तस्मादनया होमः प्रजानां सृष्ट्यै भवति । कुतः? न्यूनाद्धि प्रजापतिः प्रजा असृजत, नितरामूनं न्यूनं प्रशान्तविकारमुपादानम् । एतस्माद्धि प्रजास्सृष्टाः मृत्पिण्डादिव घटशरावादिविकाराः । प्रजापतिशब्दे 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वेन न्यनूशब्दे 'उदात्तस्वरितयोर्यणः' इति संहितायां ततः परः ऊकारस्स्वर्यते । असृजतेति 'हि च' इति निघाताभावे अनुदात्तत्वम् ।।
इति षष्ठे प्रथमे द्वितीयोनुवाकः ॥