प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.2.3 TS 6.1.2.3
आपो॑ दे॒वी-र्बृ॑ह॒ती-र्वि॒श्वश॑भुंवो॒ यदे॒तद्-यजु॒र्न ब्रू॒याद्-दि॒व्या आपोऽशा᳚न्ता इ॒मं ॅलो॒कमा ग॑च्छेयु॒रापो॑ देवी-र्बृहती-र्विश्वशंभुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा᳚च्छा॒न्ता इ॒मं ॅलो॒कमा ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योर्.हि य॒ज्ञ् उ॒र्व॑न्तरि॑क्ष॒-मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृह॒स्पति॑र्नो ह॒विषा॑ वृधा॒त्वि - [ ]
पदपाठः (Word-by-word)
आपः॑ । दे॒वीः । बृ॒ह॒तीः । वि॒श्वश॑भुंव॒ इति॑ वि॒श्व - श॒भुं॒वः॒ । यत् । ए॒तत् । यजुः॑ । न । ब्रू॒यात् । दि॒व्याः । आपः॑ । अशा᳚न्ताः । इ॒मम् । लो॒कम् । एति॑ । ग॒च्छे॒युः॒ । आपः॑ । दे॒वीः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒श॒भुं॒व॒ इति॑ विश्व-श॒भुं॒वः॒ । इति॑ । आ॒ह॒ । अ॒स्मै । ए॒व । ए॒नाः॒ । लो॒काय॑ । श॒म॒य॒ति॒ । तस्मा᳚त् । शा॒न्ताः । इ॒मम् । लो॒कम् । एति॑ । ग॒च्छ॒न्ति॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ -पृ॒थि॒वी । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚-पृ॒थि॒व्योः । हि । य॒ज्ञ्ः । उ॒रु । अ॒न्तरि॑क्षम् । इति॑ । आ॒ह॒ । अ॒न्तरि॑क्षे । हि । य॒ज्ञ्ः । बृह॒स्पतिः॑ । नः॒ । ह॒विषा᳚ । वृ॒धा॒तु॒ ।
पदसंख्या: 50