-त्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञ्मव॑ रुन्धे॒ यद्- ब्रू॒याद्-वि॑धे॒रिति॑ यज्ञ्स्था॒णुमृ॑च्छेद्-वृधा॒त्वित्या॑ह यज्ञ्स्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑ति-र्य॒ज्ञ्म॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः परा॑ङै॒थ् स प्र यजु॒रव्ली॑ना॒त् प्र साम॒ तमृगुद॑यच्छ॒द्-यदृगु॒दय॑च्छ॒त् तदौ᳚द्-ग्रह॒णस्यौ᳚द्-ग्रहण॒त्व मृ॒चा - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । य॒ज्ञ्म् । अवेति॑ । रु॒न्धे॒ । यत् । ब्रू॒यात् । वि॒धेः॒ । इति॑ । य॒ज्ञ्॒स्था॒णुमिति॑ यज्ञ् - स्था॒णुम् । ऋ॒च्छे॒त् । वृ॒धा॒तु॒ । इति॑ । आ॒ह॒ । य॒ज्ञ्॒स्था॒णुमिति॑ यज्ञ् - स्था॒णुम् । ए॒व । परीति॑ । वृ॒ण॒क्ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । य॒ज्ञ्म् । अ॒सृ॒ज॒त॒ । सः । अ॒स्मा॒त् । सृ॒ष्टः । पराङ्॑ । ऐ॒त् । सः । प्रेति॑ । यजुः॑ । अव्ली॑नात् । प्रेति॑ । साम॑ । तम् । ऋक् । उदिति॑ । अ॒य॒च्छ॒त् । यत् । ऋक् । उ॒दय॑च्छ॒दित्यु॑त् - अय॑च्छत् । तत् । औ॒द्ग्र॒ह॒णस्येत्यौ᳚त्-ग्र॒ह॒णस्य॑ । औ॒द्ग्र॒ह॒ण॒त्वमित्यौ᳚द्ग्रहण - त्वम् । ऋ॒चा ।